________________ अर्बुदाचलं प्रत्याययौ / तत्र तस्याधिष्ठायिका चक्रेश्वरी देवी मरुभूमि प्रति विहाराय तं प्रेरयामास / तदुद्दिश्य स साधुभिः सह मरुभूमिमाजगाम / अस्मिन् विकटविहारकाले क्षुत्पिपासाद्यनेकोपसर्गाः समभूवन् / मिथ्यात्ववशीभूता जीवाः शस्त्रास्त्रैस्ताडयन्ति तर्जयन्ति च मुनीन् किन्तु जिनधर्मप्रचारार्थमेव सर्वस्वसमर्पणमिति निश्चित्य सर्वेषां परिषहाणामुपेक्षणमेव विहितं मुनिभिः / अनन्तरमुपकेशपुरं सशिष्यः सूरिर्ययो। अथ उपकेशपुरनिर्माणवर्णनम् // श्रीसूर्यवंशोद्भवः श्रीभीमसेनः श्रीमालपुर [ भिन्नमाल ] स्यासीद् भूपतिः / तस्य च सुरसुन्दरोत्पलदेवनामानौ द्वौ पुत्रावास्ताम् / सुरसुन्दरो युवराजो राज्यमारधुरंधरः। उत्पलदेवश्च तेनापमानितः / तत्पतीकाराय नूतननगरनिर्माणाय स इतस्ततो बभ्राम / अपरश्च भीमसेनामात्यस्य-उहहोद्धरणनामानौद्वसुतौ / तत्रानुजस्योद्धरणस्य गृहेऽ ष्टादशकोटिसंख्यापरिमितं धनम् / ज्यायस उहडस्य च नवनवतिलक्षमुद्राः / तदा नियमस्त्वे. संविधः-ये कोटीश्वरास्ते दुर्गमध्ये ये च लक्षाधिपास्ते बहिरध्यवसन् / उहडेन नगरमध्येऽधिवासार्थ स्वानुजसमीपे मुद्राणामेकलक्षं याचितम् / भ्रातृपत्न्या सासूयमुक्तम् "न खलु त्वामन्तरेणेदं नगरं शून्यमास्ते येनाधिवासार्थमेकलक्षं दद्यात् ते भ्राता" इति मर्मरुजोत्पादकं तदीयं वचो निशम्य मन्त्रिपुत्र उहडो राजकुमारोत्पलदेवपार्श्वमाययौ / समदुःखाभ्यामुभाभ्याश्च विचारितम्-नूनमा. वाभ्यां नूतनमेकं नगरं निर्मातव्यम्-इत्यालोच्य तदर्थ तो ततो निर्जग्मतुः / मध्ये च संग्रामसिंहो मिलितः / पृष्ठं च तेन कुत्र गच्छन्ति भवन्तः ? राजकुमारेणोक्तम् "अभिनवरमणीयनगरनिमार्णाय स्थानान्वेषणाय वयं यत्र कुत्र व्रजामः" इति श्रुत्वा संग्रामसिंहो जगाद-"कुत्र सन्ति भवदोयानि शस्त्रास्त्राणि 1 नवनगरनिर्माणमिदं न बालानां खेलनम्" अस्तु शस्त्रास्त्राभावेऽपि वयं बाहुबलादेव विजयलक्ष्मी प्राप्स्यामः इति राजकुमारवचनं समाकण्ये परमसन्तुष्टः संग्रामसिंहः स्वसुताया पाणिग्रहणं तेनोत्पलदेवेन सहोत्साहहर्षपुरःसरं चकार / एवं समाप्य तद्विधिं ते त्रयोऽये जग्मुः मध्येऽध्वनि च तानश्वक्रेतारो मिलिताः अशीयधिकशतं घोटकान् ददतु यूयं, मूल्यं च राज्यप्राप्त्यन न्तरमेवावश्यं दास्याम-इति प्रतिज्ञाय तान् घोटकानक्रीणाद् राजकुमारः। ततो ढेलीपुरमासाद तदधिपतये राज्ञे तानुपायनरूपेण ददौ / तेन च परमसत्कारसन्तुष्टेन नूतननगरनिर्माणानुकूल ओसनामा प्रदेशः समर्पितः / निर्माय च तत्र नगरं भिन्नमालातोऽष्टादशसहस्रकौटुम्बिका समाहूता निवासार्थम्, तदधं च द्विजातीनामन्येऽपि भिन्नजातीयास्तत्र निवासार्थ समागमन् तत्प्रदेशस्य समुद्रसामीप्यात् क्षाराधिक्याद् ओस इति नाम प्रसिद्धिं ययौ / अत्र शैवमतानुयायिनां नास्तिकानां, यज्ञादौ . पशुहिंसनकर्मनिरतानां वैदिकानां, वाममार्गानुसारिणाश्च विशेषत प्राधान्यमासीत् / अथ जिनधर्मप्रचारार्थमत्र समागता मुनयः किन्तु सर्वेऽप्युपकेशपुरनिवासिनो जनास्तान