________________ [25] तेजसिंहादयो दीक्षा लेभिरे / तेजसिंहस्य राजहंसेति नाम परिवर्तितम् / सूरिश्च सहैव नीत्वा तं न्यायव्याकरणसाहित्यादीनि शास्त्राण्यल्पेनैव कालेनाध्यापयामास / जिनधर्मशास्त्राणि त्वेतदपेक्षया पूर्वमेवाध्यापितान्यासन् / एवमधिगतसकलशास्त्रार्थतत्वोऽप्यसौ गुरुचरणकमललनचञ्चरीकः शुश्रूषायामेव कृतमतिरभूत् / श्रीकक्कसूरेषत्रयानन्तरमेव श्रीदेवगुप्तरिर्दिवमगात् / अतस्तत्पट्ट राजहंसस्य श्रीसिद्धसूरिरिति नाम विधाय प्रतिष्ठापयामास तं शुभेऽहनि श्रीदेवगुप्तसूरिः / अथ क्रमेण विहरणं कुर्वन्नसौ वल्लभीपुरमाजगाम / श्रीसंघेन सत्कृतश्चासीत् / तस्मिन्नेव काले बुद्धमतप्रचारको बुद्धाचार्यः सशिष्यो बुद्धमतोपदेशनायै तत्रागतोऽभूत् / सूरे शिष्येण वादिचक्रवर्तिपदवीकेन विमलकलशमूर्तिना राज्ञः शिलादित्यस्य सभायामसौ पराजयं प्रापितः। पश्चात् शिलादित्यः सूरेरुपदेशादेकां श्रमणसभामकारयत् / बहवो मुनयस्तत्र समागता अभूवन् / तत्र जिनधर्मस्याभ्युन्नतये विविधा उपायाश्चिन्तिताः / सर्वत्र स्वधर्मप्रचाराय साधून प्रेषयामास सूरिः / स्वयं च दक्षिणस्यां दिशि मदुरामगच्छत् / शिष्यमण्डलमण्डनायमानोऽसौ तत्र चातुर्मास्यं विधाय धर्मव्याख्यानमदात् / सूरीश्वरस्याल्पवयस्कोऽपि वीरशेखरमुनिर्विद्याचमत्कारचिन्तामणिरासीत् / एकदा तस्याध्वनि योगकलाकलापकोविदोऽवधूतः कश्चित् संगतोऽभूत् / स तं पप्रच्छ-मुने ! किमपि चमत्कारकरणं भवान् जानाति न वा ? मुनिस्तमुवाच-किमाश्चर्य बाह्यविद्यायामात्मश्रेयस्करी विद्याऽनल्पाय श्रेयसे कल्पत इति / गर्वपूर्णमिदं वचो निशम्य परीक्षार्थमसौ योगी योगविद्यया सानाविश्चकार / मुनिरपि तदवलेपपरिहाराय मयूरानुत्पादयामास / ततो रुष्टः स गजान् दर्शयामास / मुनिनाऽपि तदङ्कुशधारिणो हस्तिपका निर्मिताः। ओषधिबलेन सोऽवधृत आकाशगमनमकरोत् / सोऽपि तदभावेऽपि व्योमविहारं कृतवान् / एवं सर्वातिशायिविद्यापारावारपारगमिनं मुनि ज्ञात्वा लज्जाभारातिक्रान्तवदनोऽवधूतो मुनिं प्रणम्य दीक्षामग्रहीत् / ____ अथ विहारक्रमेण सूरीश्वर आघाटपत्तनमाययौ / तत्र श्रीसंघस्यादरातिशयमालक्ष्य चतुमासो विहितः / अनन्तरं सरेरुपदेशात्-श्रेष्ठिगोत्रीयो मुकुंदश्रेष्ठी संघ निष्कासयामासोपकेशपुरयात्रायै / विक्रमाद् 164 वर्षव्यतिक्रमे दुर्भाग्यवशात् दुष्कालोऽभवत् / तस्मिन् भीषणे काले सूरेरुपदेशात् तत्पुरवासिभिमिलित्वा कोटिसंख्याकाः मुद्रा व्ययिताः / द्वितीये वर्षेऽपि तथैव प्रबन्धो विहितः / ततः सुभिक्षसमये कोरण्टकपुर-सत्यपुर-भिन्नमालादिषु पत्तनेषु धर्मप्रचारं कृतवान् सरिः शाकंभरीनगरीमात्मना भूषयामास / तत्र नृपो नागभट्टः सूरेः स्वागतमकरोत् / प्रभावपूर्णोपदेशेनाऽसौ गार्हस्थ्यदीक्षादीक्षिवोऽभूत् / प्रजा अपि “यथा राजा तथा प्रजा" इति न्यायेन जिनधर्माभिरुचिर्बभूव / नागभट्टः सूरीश्वरं प्रार्थयामास-भगवन् ! भवतो वृद्धावस्था विद्यतेऽतः कमपि समुचितं शिष्यं स्वपदे स्थापयतु / सोऽपि तद्वचोऽनुमान्य सच्चायिकानुमोदनश्चासाद्य श्रीरत्नभूषणोपाध्याय सूरिपदमदात् / रत्नप्रभसूरीति नाम तस्य चकार / तत आचार्य उपकेशपुरमेत्य 27 दिनान्यनशनं विधाय समाधिना देहमुत्ससर्ज /