________________ / 24 ] पारणामकरोत् / अथ कदाचिद् व्योमविहारिणस्तस्य नभोमार्गे पादलेपप्रभावेणाकाशसंचारी परिः वाजको मिलितः। मिथो वार्तालापेन संचरन्तौ तौ शत्रुञ्जयमागच्छताम् ! नागप्रभचरणोपरि लेप द्रव्यमदृष्ट्वाऽसौ तमब्रवीत् / पादलेपामावे कथमाकाशसञ्चरणं त्वया कर्तुं शक्यत इति कथितः स प्राह इदन्तु पारतन्त्र्यम् , कश्चित् लेपं प्रक्षालयेत्तदा गतिस्खलनं स्वस्याडम्बरश्च प्रतीयेत / अत आत्मप्रभावसम्पादिता सा सर्वत्राप्रतिहतप्रभावा स्यादिति / अवश्यमेव त्वं मां तां विद्यामध्यापय, न तवो. पकारमहं कदापि विस्मरिष्यामीत्युक्तो नागपभस्तमवादीत-न खलु दीक्षामन्तरेण साध्येतुं शक्यत इति / तेनाऽपि तद्वचनमङ्गीकृत्य दीक्षा गृहीत्वा संयममाश्रित्याकाशगामिनी विद्या सम्प्राप्ता / एव. मनेन नागपभमुनिना बहवो भव्या आत्मकल्याणं प्रापिताः / स्वविद्याचमत्कारश्च दर्शित : / __ न्यायमुनिस्तु देवीवरप्रसादसमासादित विद्याप्रभावः सर्वथा सर्वदा सर्वत्र शास्त्रार्थविजयी बभूव / अनेकासु राजसभासु बौद्धान् वेदान्तिनश्चासौ समधिगतशास्त्ररहस्यवेत्ताऽनेकशः पराजयत / भृगुपुरशिवनगरोजयिन्यादिषु नगरेषु च धर्मप्रचारं विधायाऽन्यमतावलम्बिनों मानविमर्दनं कृतं न्यायमुनिना। ईदशा विवधविद्यापारदृश्वानो मुनयोऽस्य सूरेः शासने विशेषतो जिनधर्मसमुन्नति चक्रः। देवगुप्तमरिरेकादश 11 वर्षाणि उपाध्यायपदे, त्रीणि 3 वर्षाणि सरिपदे चैवं चतुर्दश 14 वर्षाणि जिनशासनस्य बहुविधां सेवामकरोत् / स्वनिधनकालमासन्नं विज्ञाय स्वपट्टे राजहंसं संस्थाप्य वीरनिर्वाणात् 647 वर्षव्यतिक्रमेऽनशनं 13 दिनपर्यन्तं विथाय समाधिना शरीरमुत्ससर्ज। वि०सं० 177 तः ] 20 प्राचार्यः श्रीसिद्धसूरिः (तृतीयः) [वि०सं० 166 प. श्री देवगुप्तसूरिपट्टे श्रेष्ठिगोत्रीयः श्रीसिद्धसूरिः समायातः / असौ माण्डव्यपुराधिपतेः सुरजनस्य प्रधानसचिवस्य नागदेवस्य तनयोऽस्य माता कमलवदना कमलादेवी / द्रव्ये वैश्रवणोपमस्य, बुद्धौ वृहस्पतिसदृशस्य नागदेवस्य रमानाम सुशीला भार्याऽनपत्या. ऽसीत् / अतो हरनारायणसिंहस्य देवलां नाम तनयामसौ परिणिनाय / कर्मयोगादियमपि तथैवापत्य. लाभहीना बभूव / नागदेवेन कुलदेव्याःसच्चायिकाया आराधनं कृतम् / उपवासत्रयसमाप्तौ देवी प्रत्यक्षमब्रवीत्-मन्त्रिन् ! उपकेशपुरस्थस्य चिंचटगोत्रीयस्य रामाशाहस्य तनया कमला त्वया परिणेतव्या, तस्याः पुत्रप्रजालाभोऽवश्यं भविष्यति / असौ देवीवचने विश्वस्य तथैव कमलायाः पाणिग्रहणमकरोत्। व्यतीते च काले क्रमशः सप्त पुत्राः कमलायाः, केवलं न, रंभाया देवलाया अपि सप्त सप्त तनया अभवन् / जिनधर्मोपासकस्याऽप्यस्य पुत्ररत्नप्राप्याऽतिमहती श्रद्धा वृद्धिमाप / स्वधर्मप्रचारार्थमसौ कोटिपरिमितद्रव्यव्ययेन सहयोगमदात् / आचार्यः श्रीसिद्धसूरिरस्य तेजसिंह इति नामकः सौभाग्य. वत्याः कमलायाः सूनुः / पूर्वकृतपुण्यप्रभावादेकदा विहरन् श्रीकक्कमरिमाण्डव्यपुरमलंचकार / सूरीश्वरस्य व्याख्याने मनुष्यजन्ममाहात्म्यं संसारासारताश्च विज्ञाय तेजसिंहः परं वैराग्यमलभत / पिता नागदेवस्तस्य द्वे भार्येऽन्ये च सप्त पुत्रा दीक्षायै समुत्सुका अभूवन् / शुभ मुहूर्ते सप्तपञ्चाशत्परिमितजनैः साई