________________ [37 1 स्वकर्तव्यविषयं ज्ञात्वा ताश्च प्रसन्नमुखकमला यथागतं प्रतस्थिरे / . एवमद्वितीयब्रह्मचर्यबलेन रविरिव दुःसहप्रतापः सूरियं द्वाविंशतिपरिमितवर्षाणि जिनधर्माभ्युदयकर्मण्यतिवाह्य पवित्रे शत्रुञ्जपतीर्थे निखिलागमपारदृश्वानं सकलगुणगणगणनीयप्रभावसमुपार्जितकोर्तिमुपाध्यायपदविभूषितं सौभाग्यकीर्ति स्वपदे प्रतिष्ठाप्यानशनसमाधिम्यां शरीरमुत्ससर्ज / ____अहो ! महनीयगुणावतंसानां महाभागधेयानामीदृशान माचार्यचरणानां किमप्यलौकिक चरित्रं, यत्र स्वहस्तेनैव मातुः पितुश्च दीक्षादानम् / अतः सुष्ठुक्तं केनचित्-सजातो येन जातेन याति वंशः समुन्नतिमिति / वि० सं० 282 तः] 25 प्राचार्यः श्रीसिद्धसूरिः ( चतुर्थः ) [वि० सं० 298 प. श्रीदेवगुप्तवरिपट्ट श्रीसिद्धसरिरलंचकार / असौ श्रेष्ठिगोत्रीय उपकेशपुरवास्तव्यश्चासीत् / अस्य पिता जेताशाहो माता च चम्पकावलीव शीलसौरभरमणीया चम्पादेवी / तयोरयं सारङ्गनामा सनुरासीत् / महाकुटुम्बोऽसौ जेताशाहो दारिद्रयदुःखपीडितमानसोऽभूत् / अथैकदा तद्भाग्यवशादेव देवगुप्तसूरिरुपकेशपुरमगमत् / ततः स श्रेष्ठी स्वीयां दारिद्रयदरिद्रितां सकला परिस्थिति सूरये. साजलिवन्धं न्यवेदयत् / अस्मिन् जन्मनि नरः पूर्वकतानां कर्मणामेव फलं सुखदुःखादिकमश्नुतं इति हेतोधर्मध्यानमेव ते निःश्रेयसकरमिति दृढं विश्वस्य तमेवानुतिष्ठ / धर्म ए शाश्वतसौख्यनिरतिशयानन्ददायकोऽसारे संसारे स एव सर्वासां सम्पदा परमं निधानमिति सूरिस्तमुपादिशत् / तस्मिन्नेव समये तत्पुत्रः सारङ्ग उपस्थितः / विलोक्यैव च तं महाभाग्यवानय तनय इति सूविचः समाकये जेताशाहः प्रसन्नाननो बभूव / मासकल्पं तत्र स्थित्वा सरिरन्यत्र विहारमकरोत् / सारङ्गोऽपि गार्हस्थ्यक्लेशक्लिष्टचेता नगराबहिर्निरगच्छत् / पन्थानं प्रतिपन्नं तं कोऽपि सिद्धपुरुषः संगतोऽभूत् / दुर्दैवादसौ सिद्धो मार्ग एव दुःसहज्वरनिपीडितो बभूव / करुणान्तिरङ्गसारङ्गस्तस्य महता प्रयत्नेन शुश्रूषामकरोत् / येनाऽल्पसमये स सम्पाप्तस्वास्थ्यो जातः / ततः प्रसन्नहृदयः सिद्धपुरुषः सारङ्गाय सुवर्ण सिद्धिनाम्नी विद्यां ददौ / यत्प्रभावेणाऽसौ प्रभूतं सुवर्ण मुत्पाद्य मध्य एवं दरिद्रान् दुःखेभ्यो मोचयामास / तेषामाशीर्वादपरम्परामलभत / एवमसौ गच्छन् सौपारपत्तनमासाद्य तत्रैव वसतिमकरोत् / अपरिचितोऽप्यसौ सुर्वणसिद्धिप्रभावेण परोपकारवृत्या च सर्वजनविदित आदरणीयशासनो बभूव / उक्त च “यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतिमान् गुणज्ञः, स एव वक्ता स च दर्शनीयः। सर्वगुणाः काञ्चनमाश्रयन्त" इति / असौ तु "दानं भोगो नाशस्तिस्त्रो गतयो भवन्ति वित्तस्य / यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवतीति" विचार्य दीनेभ्यो बहु धनं दत्वा तदीयाश्रुप्रमार्जनेनाक्षयं पुण्यमाससाद। परमधार्मिकश्च सविनयं जनानामन्व्य शुभ दिने संघ मुनिजनसंयुतं निष्कास्योपकेशपुरयात्रायै जगाम। तत्रागतं तं सारङ्गं संघाधिपतित्वे स्थितं दृष्ट्वोपकेशपुरवास्तव्याः सर्वे जना आश्चर्यान्विताचित्रचित्रिता इवाभूवन् / जेताशाहः पुत्रमागतं ज्ञात्वा तदर्शनसंगमोत्सुकस्तत्राजगाम / तथाविधं संघपति पुत्रमसौ वीक्ष्य सन्तुष्टा