________________ 10] आचार्येणापि स्वस्य वाईकमवेक्ष्य तथेत्यनुमोदितम् / ततश्च राज्ञः प्रजानां च सदुपदेशामृतश्रवणजन्य प्रानन्दपारिधिभूयोऽवर्धत चेतःसु / प्रवृत्तानि च धार्मिकाणि व्याख्यानानि / / एवं व्यतीतेषु दिवसेषु देवी सञ्चायिका परोक्षदर्शनाऽचार्यसमीपमेत्याह भगवन् ! बहूपकृतमत्र विशेषत उपकेशपुरस्य / राज्ञि धर्मिणि प्रजा अपि धर्माचरणपरायणा इति कृत्वा राजा च प्रकृतिमापादित इत्यतीवोपकारः समेषां नाविदितः / श्रायुश्च भवतो मासावधिकं त्रयोदशभिर्दिनैः सहितम् / अतः स्वपट्टे कमपि योग्य मुनि प्रतिष्ठापयतु / उपाध्यायो विनयसुन्दरः सकलागममर्मज्ञो निखिलगुणावर्जितजनमना योग्य इति सूरीश्वरोक्तमनुमान्य सा तिरोदधे / अन्ते च रावहल्लादेवस्य श्रीसंघस्य च समक्षं महता समारोहेण श्रावणशुक्लपूर्णिमायां शुभे मुहूर्ते मुनिमुपाध्यायपदालंकृतमाचार्यपदे श्रीकक्कसूरीति नाम कृत्वा प्रतिष्ठापयामास / अन्ये चोपाध्यायगणिवाचकपण्डिता. दिभिः पदवीभिः सम्मानिताः। सूरीश्वरश्चान्तिमा संल्लेखनां विधाय भाद्रपदशुक्लैकादश्यां नश्वरं देहमुदत्सृजत् / उपकेशपुरं सर्व धूमाच्छादितं रविमण्डलमिव न रराज / श्रीसंघेन राज्ञा च चन्दनादिमिः सुगन्धिभिः काष्ठैः शरीरस्याग्निसंस्कारः कृतः / पपात च चितायां पञ्चवर्णा पुष्पवृष्टिः / सर्वैश्च देव्याः सच्चायिकायाः सकाशादवगतं यदाचार्यवर्यः सौधर्मनाम्मि देवलोके सागरोपमा स्थितिमलभतेति शम् / वि. सं. 448] 36 प्राचार्यः श्रीकक्कसूरिः / ( सप्तमः) [वि० सं० 601 प. ___ श्रीसिद्धसूरिपट्टेऽनेकभूपतिप्रवरमुकुटमणिमरीचिमन्जरीचर्चितचरणयुगलो जिनगदितागमप्रतिपादितयमनियमनिष्टश्चारित्रचूडामणिरुत्कृष्टक्रियापालकः सहस्रांशुरिव प्रबलप्रतापश्चन्द्र इव रुचिरमूर्तिः श्रीकक्कसूरिः समायातः। स चोपवनवाटिकाकूपसरःपादपोपशोभिते मेदिनीपुरे व्यवात्सीत्। पिताऽस्य कर्मणशाहो माता च परमपतिव्रतशोभना शीलसौजन्यसौन्दर्याद्यनेकगुणगणालङ्कता मेनादेवी / अनयोरेकादशस्वात्मजेषु विमलशाहो व्यापारकार्यकुशलः परमधर्मरुचिः रुचिरवदनपुण्डरीकः सकलपुरजनानां मनांसि मोदयामास / स एव गृहस्थाश्रमाधारस्तम्भरूपो बभव / अथासावेकदा केनचिदपि कारणेन नागपुरं ययौ / तत्र सुचन्तिगोत्रावतंसेन नोढाश्रावकेण श्रीसोमप्रभोपाध्यायस्य गुरोरुपदेशात् शत्रुजययात्राथै संघस्यायोजनं कृतम् / तदीययात्राविषयकप्रार्थनां श्रुत्वाऽसौ बिमलशाहस्तमब्रवीत् / भवान् पंच वा षड् वा दिनानि प्रतीक्षतामहं तावद् गृहकार्य संपाद्य सकुटुम्बो यात्रायां सम्मिलितो भविष्यामीति तस्य वचः समाकर्ण्य नढाश्रावकस्यात्मजेनोक्तम्-यथा तथा वा भवतु किन्तु निर्धारितदिवसस्योल्लंघनं कथमप्यशक्यमेव / तीर्थयात्रायां प्रबलतरायामभिलाषायां भवानप्यपरं संघायोजन कतु प्रभवत्येव / ततः स्वापमानजनक वाक्यं देवाशाहस्य ज्ञात्वाऽसौ विमलशाहस्तथैव विधातुमियेष / इतश्च प्रचुरतरपुण्यराशेरुदयात्सिद्धसूरिस्तत्र मेदिनीपुरे विहारक्रमेणाजगाम / सपादलक्षरूप्यकव्ययेन विमलशाहेन भव्यसमारंभपुरःसरमस्याचार्यवर्यस्य नगरप्रवेशमहोत्सवः सम्पादितः / आचार्यश्च श्रीसंघस्याप्रहातिशयमनुमान्य तत्रैव चातुर्मासिकी वसतिमङ्गीचकार / ततः प्रवर्तमाने दैनंदिनक्रमेण व्याख्याने यात्रापुण्यफलं सम्यगवबुध्य तीर्थयात्राभिलाषी विमलमूर्तिरसौ विमलशाहः शत्रजयतीर्थयात्रामनोरथं सूरये न्यवेदीत् / अनुज्ञातश्च सः सर्वत्रामन्त्रणपत्रिकाः सम्प्रेष्य सविशेष नोढाश्रावकं तदीयपुत्रं च देवाशाहमामन्त्रयितुं नागपुरमागच्छत् / सबहुमानं तस्मै यात्रार्थमाह्वानं कृतम् / पञ्च षड् वा दिनान्यतिवाह्यास्माकं तत्रागमनं सम्भाव्यत एवेत्युक्तोऽसौ तथैव प्रत्यपद्यत / अतः पूर्वकृतमपमानप्रसंगं स्मृत्वा देवाशाहो लज्जितः पश्चात्तापमवाप / तस्य चौदार्यमतीव प्रशशंस / सम्प्राप्ते शुभे दिने सूरीश्वरस्याध्यक्षत्वे तस्य च संघपवित्वे शत्रुञ्जयमभिप्रतस्थे संघः।