________________ पत्र च लक्ष्म्या एवं निवास प्रासीत्तत्र प्रभूतानि पुण्यप्रापकाणि सत्कर्माण्यनुष्टितान्यासन् / येन दरिद्राणां दारिद्रयदरिद्रता धनिकैनेव कृताऽभूत् / प्रात्मनोऽकरणे परेषामुपदेशने च दृढप्रताः सूक्ष्मेक्षिकया विलोकयन्तु स्वान्ते स्वकीय इत्यलं पल्लवितेन। श्राचार्यः श्रीसिद्धसूरिश्चतुर्विधेन संघेन सह भगवतो महामहिमशालिनः श्रीमहावीरस्याचार्यवर्यस्य श्रीग्नप्रभसूरीश्वरस्य च यात्रा विधाय सारगर्भितामुपदेशनामदात् / अथैकदा नगरजनाः सूरीश्वर सविनयमवोचम्-भगवन् ! इसनीमत्र राक्ष उत्पलदेवस्य जिनधर्मानुरागिणः सन्तानपरंपरायां राजा रावहुल्लादेवो वर्तते / यस्य वंशे पूर्व तत्पिता दाहडो जिनधर्मेऽधिकरुचिस्तत्संवर्धने व दत्तप्रोत्साहनोऽभूत / किन्त्वद्य दुर्दैववशादसौ वाममार्गानुयायिभिडेढमाकृष्टः पाशबद्धो वनमृग इव स्वधर्ममुल्लंघ्य मांसमदिरारुचिय॑भिचारस्य चरमां कोटिमारूढः / बहुभिश्च नगरमुख्यैः संबोधितोऽपि यौवनदर्पाद्राज्यप्राप्तिमदाद् वाममार्गिणां सदा संसर्गवशाच्च शब्दमपि न शृणोति / अतः क्रमेण विचार्यमाणे जिनधर्मस्यावश्य भविष्यत्यत्र महती क्षतिः / तदत्र किमपि प्रभुत्वं दर्शयतु, रक्षतु क्षतेर्जिनधर्मप्रचारम् / सूरीश्वरश्च तानाश्वास्यावादीत्-यदाऽसावत्रागमिष्यति तदाऽवश्यं तदर्थमुपदेक्ष्यामि / वाममार्गिणश्च सर्वदा लब्धप्रतिष्ठास्त क्षणमपि न सत्यजुः / ते त्वजानन यदि राजा सूरीश्वरपावै गतः सर्वथा गत एवास्मत्सकाशादिति / तदानीं सर्वसचिवशिरोमणिर्बप्पनागगोत्रीयो मालदेवशाह आसीदन्ये च राजकर्मचारिणो बहुधा वणिज एव / तेऽपि राज्ञोऽस्माद्दर्जनसंसर्गाद्वारयितुं न शेकुः। कदाचिदत्र म्लेच्छानामाक्रमणं जातमिति श्रुत्वैव विव्हलो वाममार्गिणः पप्रच्छ किमत्र प्रतिविधेयमिति / ते चाब्रुवन्-शाकाहारमात्रपरायणानां वणिजां राजकर्मणि नियोगोऽद्यानर्थोत्पादको जातः / अतोऽत्र तेषां स्थाने मांसभोजनेन बलिष्ठा वीरा एव नियोक्तव्या / येन ते सर्वे म्लेच्छैः सह युध्येरन् / मन्दबुद्धिरसौ तथैव प्रत्यपद्यत / तत्स्थाने नियुक्ता वाममार्गिणः / . अथ समीपमागतेषु म्लेच्छेषु त अयुध्यन्त, किन्तु शिक्षाया अभावात्संचालकस्य बुद्धिमतः सेनापने श्वाभावात्कथमपि प्रथमो दिवसोऽतिवाहितस्तैः। द्वितीयेऽह्नि तान् क्षीणशक्तिकानालोच्य राजा परममुह्यदत्र किं विधेयमिति / अन्ते च ताननादृत्य गुरून् वाममार्गिणश्चान्तःपुरं गत्वा सर्वमिदं वृत्तान्तमकथयत् / तदा जिनधर्मोपासिका काचित्तमुवाच-गजन् ! नन्याय्यमिदमनुष्टितं यन्महाजना भ्रष्टाधिकागः कृताः। अत्रैतेषां बलमेव नास्तीति मिथ्या भ्रमो भवतः / तेऽपि मूलतो विचार्यमाणे क्षत्रिया एव / अतो विजयार्थिना भवता दुराप्रहं त्यक्त्वा त एव पुनः स्वाधिकारे नियोक्तव्याः। दृढमहं विश्वसिमि कार्यभारे तेभ्यो दरोऽवश्यं विजयस्ते भविष्यति / स्वीकृत्येदं तेनाहूताः संमानिताः / क्षमा च याचिता / ततस्तैः प्राणपणेनापि विजयप्राप्तिस्तवैवेति दृढीकृतम् / सर्वे ते युद्धस्थानसमीक्षणं कृत्वा यथाविभागमवस्थिताः / तैगदिष्टेन राज्ञा स्नात्रमहोत्सव आरब्धः / आरब्धानि रणवाद्यानि स्तुतिपाठकैर्वन्दिभिश्चारणैश्च कृतान्युत्तेजनानि / ते तु श्येनः पक्षिष्विव सवेगं शत्रुसेनायां सोहामं पतिताः क्षणेनाखिलं संजहः / अवशिष्टाश्च मुखे तृणं गृहीत्वा जीवनं ययाचिरे / विजयदुन्दुभयश्च नेदुः / प्रसन्नश्च राजा प्रभतानि ददौ तेभ्यः पारितोषिकाणि / सर्वोपद्रवश्च दावाग्निलंधितवृक्षस्योपरि वृष्टिपात इवाभूत् / जिनधर्मे च रुचिं चकार / गुग्वश्च मुखमपि न दर्शयामासुः। एकदा सभायां नृपः समागतः / आचार्येण चावसरं वीक्ष्य पुरा राजभिमंत्रिभिश्च कृता जिनधर्मस्यातिमहती सेवा वर्णिता व्याख्याने / राजा च पश्चात्तापमवाप / समाप्ते व्याख्याने सूरीश्वरसमीपं क्षमा ययाचे / सूरिणा च गजधर्मस्वरूप विशदीकृत्य विवेचितम् / धर्ममन्तरा राज्यपालनं न सुकरमित्यपि प्रतिपादितम् / येनाऽसौ राजा सूरीश्वरस्यानन्यः सेवकोऽभवत् / चार्तुमासिकी स्थितिरत्रैव कर्तव्या भवतेति मुहुनिवेदितम् /