________________ / 46 1 ईव जनाः प्रत्युद्वजन्तः सभाजनेन विधिना नगरीमानयाञ्चक्रिरे। तत्र श्रीसंघस्यादरातिशयमनुमान्य चातुर्मासिकी स्थितिः स्वीकृता / ततो दैनन्दिनक्रमेण व्याख्यानानि प्रारब्धानि / प्रथमन्तु तान् धर्माचरणे प्रायुक्त श्रावकाः ? आलस्यादिमहादोषान् दूरीकृत्य स्वधर्माचरणरूपं वीरव्रतमनुपालयध्वम् / भगवती महावीरस्य यूयं धर्मवीरा बालका वीरपचारितधर्ममार्गे सदैव सञ्चरणेनात्मकल्याणरूपं परमतत्वं प्राप्तुं सर्वथा दृढ़परिकरा भवतेति प्रोत्साहनपूर्ण विविधागमप्रमाणपूर्ण दृष्टान्तादिभिः सयुक्तिकं रमणीयतरं व्याख्यानं धर्मभावनायै दत्तम् / अथैकदा भगवताऽचार्येण दानधर्मविषयकं व्याख्यानं कृतम् / यथा व्याजे स्याद्विगुणं वित्त व्यवसाये चतुर्गुणम् क्षेत्रे शतगुणं प्रोक्त पात्रेऽनन्तफलं भवेत् / एवं दानं पात्रविषयकमेव प्रशस्यते शास्त्रे / पात्रमपि द्विविधं दर्शितम् यथा स्थावरं जङ्गमं चेति सत्पात्रं द्विविधं मतम् / स्थावरं पत्रपुष्पादि प्रासादं प्रतिमादिकम् // ज्ञानाधिकं तपः शान्ति निममं निरहङ्कतिम् / स्वाध्यायब्रह्मचर्यादियुक्त पात्रश्च जङ्गमम् / / पात्रे दत्वा दानं प्रयाण्युक्त्वा च भारत / अहिंसाविरतः स्वग" गच्छेदिति मतिर्ममः // ततः स्थावरतीर्थरूपस्य शत्रुञ्जयतीर्थाधिराजस्य यात्रापुण्यफलं वर्णयामास / येन बलाहगोत्रीयः केसाशाहो यात्रार्थ संघस्यायोजनं चकार / ततश्चतुर्विधसंघस्यादेशमासाद्य केसाश्रावकस्य संघपतित्वे संघः शत्रुञ्जयमभिप्रतस्थे / पञ्चलक्षमुद्रिका असौ पुण्यमार्गे व्ययीचकार / तत्र सर्वेषां तीर्थानां सुखेन यात्रा विहिता / अस्यां तीर्थयात्रायां पश्चसहस्रसंख्याकाः साधवो साव्यश्च लक्षपरिमिताः श्रावकाः संगता आसन् / तीर्थयात्रां विधाय संघस्तत्रतः प्रतिनिवृत्तः क्रमेण स्वस्थानमाययौ / आचार्योऽसौ परमज्ञानवान् तपश्चर्यानिरतश्वासीत् / तत्र विचारमकरोत् न खलु तीव्रतपस आश्रयणं विना कर्मक्षयः कर्तुं शक्यः / तदभावे कथमात्मोन्नतिः सुलभा स्यात् ।अतः पुनरपि तपस आश्रयणमेव वरमिति कृत्वा तत्रैवात्मरतिबभूव / ततः तपःप्रभावसमासादितालौकिकप्रभावः क्रमेण सौराष्ट्रमान्ते विहारमकरोत् / बहवो बौद्धाः शास्त्रार्थचर्चायां पराजिताः / सर्वथा ते नतमस्तका यावदुषितं तावदेव तथैव स्थितिमकुर्वन् / सौराष्ट्रदेशे श्रावकैर्निर्मापितानां मन्दिराणां मूर्तीनां च नहीनां प्रतिष्ठापनं, मुमुक्षूणां दीक्षादानं, जैनेतराणां जिनधर्माभिरुचिश्चोत्पादिता सूरिणा। पश्चात्ततो विहारानुक्रमेण कच्छदेशमलंचकाराचार्यः / अत्र साधवस्तु तेन पूर्वमेव सम्प्रेषिता आसन् / तैस्त विद्याविचक्षणः सूरेः कार्यभारो लघूकृतः / सूरेरागमनं ज्ञात्वा श्रावकाणामुत्साहोऽधिकतरं ववृधे / शिष्यः सम्पादितं कार्य ज्ञात्वा सूरिः सहर्ष योग्यपदवीदानेन तान् प्रोत्साहयाश्चकार / यदा सूरिः कच्छ