________________ [ 47 ] प्रान्तमात्मना भूषयत्यधुनेतिवृत्तं सिन्धपान्तीयैः संपाप्तं तदातस्तत्रागत्य निवेदितम् / भगवन् ? एकवारं जन्मभूमिमागत्य सर्वेषां धर्मतत्वामृतोपदेशेन वधंयतु धर्मभावनाम् / लोकवादरता अपि वयमेवं जानोमो यत्-जननी जन्मभूमिश्च स्वर्गादपि गरीयसो / ततः परं कल्याणभूति ( राजाकोकरावः ) रपि विज्ञापितः- पूज्यवर ! किमुच्यतेऽस्माभिः / सिन्धदेशस्तु भवदीय एव / राजत्वे सर्वसन्मानपात्रं भवानधुना तु सविशेषत इति / परमतपःक्षपितमनोमलो ज्ञानध्यानमात्रनिरतो मुनिराह-अत्रैव गुरुकृपापूर्णमानसो मानसन्माननिःस्पृहोऽहं-प्रतिजन्म जिनधर्म एव भूयो भूयः शाश्वतं शरणमित्यभिलषाभि ।संसारार्णवतारकस्तीरप्रापकः सर्वश्रेष्ठसाधनभूतः सर्वधर्ममार्गशेखरीभूतः स एव एको विजयतामित्येव मामकीनं हृदयम् / एवं जिनधर्मभावनारञ्जितहृदयं प्रणम्य, सूरिं च पुनः पुनरभ्यर्थ्य यथागतं जग्मुः / आगमनस्वीकरणेनानन्दमग्नास्ते गतमप्यध्वानं न बुबु धिरे / एवं कच्छदेशं स्वावस्थानेन पावयित्वा सूरिः सिन्धप्रान्ते ग्रामनगरेषु विहरन् वीरपुरमाससाद / सूरेरागमनं विज्ञाय राजा राहूपो, मन्त्री गोशलशाहः सपरिवारः, श्रीसंघश्च नगरप्रवेशमहोत्सवाय सप्रवृत्तिका बभूवुः / इदमेवात्र विशेषप्रवृत्तौ निमित्तं यदेकतस्तु नगरीनाथो राजा पश्चाच धर्मराजोऽसौ मुनिनगरीमिमामलङ्करिष्यतीति / माता राहूली पुत्रमागतं दृष्ट्वा परमप्रमोदमुदितान्तरङ्गा बभूव / सवैनगरवास्तव्यैः स्नेहभरितं भव्य स्वागतं सम्पादितम् / ततः क्रमशो मिन्नविषयमवलम्व्य व्याख्यानमदात् / इदमेव सर्वतोऽधिकं वैशिष्टयमासीत् तत्र यदा सरिरसौ संसारस्य निःसारतापतिपादकं तादृशं व्याख्यानमकरोत्तदा तद्विचार्य जना हृदयमर्मप्रत्याघातेन सञ्जातरोमाञ्चा अभूवन् / इदमसारताबोधकं व्याख्यानं श्रुत्वैव तत्र चत्वारो भावुका दीक्षोद्यता बभूवुः / अतो दीक्षाव्रतमुण्डनाय पञ्च नापिताः समाहूताः / दीक्षागृहीतारश्च चत्वार आसन् / अतोऽवशिष्टो नापितः खिन्नमानसो वभ व / तदा समीपस्थेन श्रेष्ठिना केनचित्तस्य दैन्यकारणं पृष्ठम् / नापितश्चाह-लाभाशया समागतोऽहं निराशोऽस्मि ततः खेदमुपागतः / श्रेष्ठिना तदैन्यापहरणार्थं दीक्षाव्रतग्रहणार्थञ्च तत्सकाश एव मुण्डनं कारितम् / ईदृशा अपि कारुणिकास्तदानीन्तने कालेऽभवन् / एवं पञ्चमिर्भावुकैः सूरीश्वरसमीपे दीक्षा गृहीता। ततः प्रणतिततिपुरःसरं विज्ञापितो जनानामभिलाषां पूरयितुमसावाचार्यस्तत्रैव चातुर्मासिकी स्थितिं चक्रे / / परमधर्माचरणशीला गहूलीदेवी स्वसम्पदनुसारेण श्रीभगवतीसूत्रवाचनामहोत्सवमारभत / मन्त्री गोशलशाहोऽत्रोत्सवे नवलक्षसंख्यकान रूप्यकान् विन्ययुक्त, प्रतिप्रश्नं तत्र सूवर्णमुद्रामदानं तु किं वक्तव्यम् / नागरिकैरयं पुण्यप्रदोयकमहोत्सवस्यालभ्यो लाभो लब्धः किन्त्वामन्त्रितैः समीपग्रामनगरवासिभिरपि स धन्यमात्मानं मन्यमानैरपि लब्धः / एवं सूरिणा श्रीभगवतीसूत्रवाचनानिमित्त न समग्रः सिंधदेशोऽनुगृहीतः। समाप्ते चतुर्मासे देवी सच्चायिका सविनयमुपकेशपुरागमनप्रार्थनामकरोत् महानलभ्यो लामो भविष्यति, तत्राहमपि सहयोगार्थ सदा सन्निहिताऽस्मीति / ततः पञ्चालदेशे पूर्वस्यां दिशि च विहारस्येच्छां दूरीकृत्य तत्रैव मरुधरप्रांते विहारं व्यधात् / मार्गागतानि ग्रामनगराणि हृदयङ्गमेन