________________ [ 35 ] वि सं 260 तः] 24 श्राचार्यः श्रीदेवगुप्तसूरि:- (चतुर्थः) (वि. सं.२८२ 50 - श्रीककररिपट्टे कुमटगोत्रोद्भवः काव्यकलाविचक्षणः श्रीदेवगुप्तसरिः / चन्द्रावतीनगरीवास्तव्यः / अस्य जनकोवाणिज्यकलानिष्णातो डाबराशाहो माता च धर्मपरायणा पन्नानामिकाऽसीत् / तयोः पुत्रः कल्याणनामा प्राक्तनादृष्टवशादधिकप्रभावपूर्णमानसोऽभूत् / / ___एकदा ग्रामानुग्रामं विहरन् सूरीश्वरश्चन्द्रावतीमाययौ / अन्येद्याख्यानसमये सूरिणा सामुद्रिकशास्त्रप्रतिपादितानि शुभाशुभचिह्नानि वर्णितानि / आचार्यस्य सारगर्भितां देशनां निशम्य कल्याणः सूरेः समीपमुपेत्य सविधवन्दनां विधाय स्वहस्तं दर्शयामास / सूरिश्च हस्तस्थितानि शुभसूचकानि चिन्हानि दृष्ट्वा तमवदत्-यदि त्वं दीक्षितः स्यास्तदा महान् जिनशासनप्रभावक एवेति / भव्य ! जाजावच्चइ रयणी तसा पडिनियत्तइ / अधम्म कुणमाणस्स अफला जन्ति राइओ // जाजा वच्चइ रयणी न सा पडिनियत्तइ / धम्म कुणमाणस्स सफला जन्ति राइओ // . इति गाथां विज्ञायात्मनः कल्याणमार्गमाश्रयस्व कल्याणिन् ? एवं परमवैराग्यपूर्ण सूरेरूपदेशं निशम्य विरक्तहृदयोऽभूत् कल्याणः / पितरौ चामन्त्र्य द्वाविंशतिपरिमितैर्जनैः सार्द्ध दीक्षामगृह्णात् / परिश्च तं जिनागमसिद्धान्तरहस्यावेदकानि शास्त्राणि, न्यायव्याकरणसाहित्यादीनि चाध्यापयामास / प्रकृत्या कुशाग्रबुद्धिरसावल्पसमयेन सर्वागममर्मपारगो व्याख्यानाख्यानेतिहासादिषु पण्डितप्रकाण्डो बभूव / कालान्तरे सूरिश्च स्वपट्टे प्रतिष्ठापयामास श्रीदेवगुप्तमरिनाम्ना / ____ असावपि पूर्वाचार्य परम्परागतविहरणप्रवृत्या धर्मप्रचारं कुर्वन् क्रमेण चन्द्रावतीं प्राप / अस्य नगरप्रवेशमहोत्सवे डावराशाहेन सपादलक्षरूप्यका व्ययीकृताः। श्रीसंघपार्थनामादृत्यात्रैव चतुर्मासावस्थानमकरोत् स आचार्यः / ___ अथ तस्मिन्नेव काले कश्चिदेकोऽवधूतस्तत्रैव नर्गयां चतुर्मासार्थमाजगाम / स च स्वकीयव्याख्याने सप्त द्वीपान्, सप्त सागरान्, पञ्च देवलोकान् विहायान्यत् किमपि नास्तीति न्यरूपयत् / योगिकृतविवरणमुद्दिश्याचार्योऽसंख्यातद्वीपसमुद्रदेवलोकानां निरूपणमकरोत् / सूरितिपादितमरूपणामाकये संदिग्धमना असौ योगी समुद्रद्वीपादिविषये,पश्चादीश्वरक त्वविषये चापृच्छत् सूरेः पार्श्व गत्वा / ततः समुचितप्रत्युत्तरमासाद्य सन्यासिवेशं विहाय दीक्षामग्रहीत् / चतुर्मासानन्तरं 32 श्रावकैः श्राविकाभिश्च सह डाबराशाहेनापि दीक्षा गृहीता / डाबराशाहस्य ज्येष्ठात्मजेन कानडेन दीक्षामहोत्सवे प्रभूतं द्रव्यं व्ययीकृतम् / ततो विहरन् सूरिः कान्यकुब्जमगमत् / एकदा तदधिपतिरश्वारूढः सन् किमपि स्थानं प्रति गच्छन् सूरेाख्यानस्थानसमीपमार्गान्निःसृत्य तस्मै मनसैव प्रणाममकरोत् / सरिरपि ज्ञानदृष्टया तदीयनमस्कारं ज्ञात्वा महता स्वरेण तं धर्मलाभेन संभावयामास / राजा तु महामहिममहनीयकीर्तिरलौकिकज्ञानप्रभावोऽयमाचार्य इति निश्चित्य पासादमाययौ / सरीश्वरस्यास्य व्याख्यानं राजसभायामेव भवितुमर्हति सर्वथाइदर