________________ [ 2] नियुज्य चतुर्दशसंख्यकैर्भावुकैः सह दोक्षामग्रहीत् / एकदा रात्रौ निद्रामुक्तमाचार्यमुपेत्य देवी सच्चायिका तत्र वन्दनं विधायात्रवीत्-सरे ! कल्याणकलशं मुनिमाचार्यपदे संस्थाप्य भवांस्तु पूर्वदेशे विहारं करोत्विति / ततः साऽन्तर्दधे / आचायोऽपि संघमेकत्र कृत्वा कल्याणकलशं स्वपट्टे स्थापयामास / देवगुप्तसूरिरिति तदभिधानमकरोत् / पञ्चशतसंख्यकैः शिष्यैः सह श्रीकक्कसूरिस्तत्र स्थितः / देवगुप्तसूरिरवशिष्टान् शिष्यानादाय संघेन सह प्रतिनिवृतः महादेवस्य ज्येष्ठपुत्रो लाखाशाहो डमरेलपुरमागत्य स्वामिवात्सल्यं विधाय प्रतिजनं पञ्चसुवर्णमुद्रापभावनां कृत्वा संघं विससर्ज / अथाचार्यः पूर्वदेशे बौद्धधर्मस्य प्राधान्यमासीदतः पूर्वपान्तीयग्रामनगरेषु योग्यान् शिष्यान् प्रेषियत्वा स्वधर्मप्रचारं कारयामास / स्वयमपि तत्र तत्र विहरन राजगृह-चम्पा-वैशाला-कपिलवस्तुवाणिज्यपुरादिषु जिनधर्माभिवृद्धिकराणि व्याख्यानानि दत्वा स्वकर्तव्यपालनं यथार्थमकरोत् / योगवलेन स्वमृत्युसमयं विचिन्त्य सम्मेतशिखरमेत्यानशनेन समाधिना च दिवमगमत् / __ आचार्यस्य शासनकाले वंशावल्यामेका रमणीया घटनोङ्किता-यथा सिन्धदेशे वीरपुरनगरे वाममार्गानुयायिनां सोमरुद्रनामाऽग्रेसरः समागच्छत् / स मन्त्रविद्याबलेन चमत्कारं दर्शयितुमेकदा सायंकाले जिनमन्दिरात प्रतिमां तडागे नीत्वा पश्चान्मन्दिरमानयति स्म / जनांश्चावादीत्-जैना जिनालयस्थं देवं जलमेव न पाययन्ति तत एव प्रतिमा स्वयं जलं पातुं तडागमागच्छति / एवं हि दिनान्यष्टौ व्यतीतानि / जैनाश्च परमदुःखिताः ‘कमपि विद्याविचक्षणं जिनमुनिमानेतुमितस्ततः प्रयतमाना विफलप्रयत्ना बभूवुः / अथ कदाचित्तः कर्णपरम्परया श्रुतं यद् डमरेलपुरे सर्वागमनिपुण आनन्दनामा मुनिः सर्वातिशायिविद्याबली वर्तत इति / ते च संघस्याप्रेसरं प्रेषयित्वा तमानाययामासुः / कृतश्च समारोहपूर्वकं तस्य स्वागतम् / असौ सोमरुद्रो दैनंदिनक्रमेणाद्यापि तां प्रतिमां तडागं प्रति नेतुं कृतमन्त्रबलो बभूव / प्रतिमा तु मन्दिरान्निर्गत्यापण एव स्थिरीभूता प्रयत्नेनाप्यग्र नेतुमशक्याऽसीत् / अपरत्र आनन्दो मुनि गरे स्थितानि यावन्ति शिवलिंगानि देवा देव्यथा सन्तानि सर्वाण्येव स्वविद्याबलेन नीत्वा तत्रैवास्थापयत् यत्र जिनप्रतिमा स्थिताऽभूत् / उभयत्र चोभौ स्थितौ / जनाश्च दर्शनाय बहव उपस्थिताः / जिनमुनिः सोमरुद्रमब्रवीत्. महात्मन् ! सर्वा इमाःप्रतिमा भवान् तडागं स्वमन्त्रबलेन नेष्यति तर्हि भवदीयः शिष्योऽहं भविष्यामि / अहं यदि ता जिनालये मदीयविद्याबलेन नयेयं तर्हि भवता मदीयं शिष्यत्वमङ्गीकर्तव्यम् / लोकनिन्दया यद्यपि स्वीकृतमिदं सोमरुद्रेण किन्तु किमपि कर्तुं नासौ समर्थोऽभूत् / अथ मुनिरानन्दः सर्वान् देवीन् देवीश्चादिदेश-भो देवताः! यूयं सर्वे प्रतिमामेतां जिनालयं प्रापयत / एवमुक्ते सर्वे ते जिनालयं मस्थिताः। मन्दिरमागत्य प्रतिमा स्वस्थाने स्थापिता / असौ दीनवदनः सोमरुद्रोऽपि मुनेः शिष्योऽभवत् / अनेन चमत्कारेणातिमहती जिनधर्मप्रभावना जाता। वंशावलीकारो लिखति यदधुनापि जिनमन्दिरे देवा देव्यश्च विद्यन्त एव /