________________ [ 33 ] नमपश्यत् / राज्ञा निवारितोऽन्ते चानुज्ञातः शुमेऽहनि प्रवज्यामङ्गीचकार परिकरकमलेन / पश्चान्निधानकलशेत्यभिधानकोऽभूत् / क्रमेण काव्यव्याकरणतर्कशास्त्रकुशलो जिनागमधर्ममर्मावेदनकर्मपारगो गुरुकृपाप्राप्तपूर्णप्रसादोऽसौ श्रीककसूरिरितिनाम्ना विश्रुतयशोनिधिरोचार्यों बभूव / ___ अथोपकेशपुराद् विहरन् मरुधरप्रान्ते धर्मोपदेशं कृत्वा सर्वान् सत्पथमार्गानुगामिनश्चकार श्रीककसरिः / तस्मिन्नेव कर्मणि स सफलयत्नो बभूव / शुभोज्ज्वलभावनानुष्ठितं कविश्यमेव सफलं भवति। ___एकदाटवीं गच्छन्नसौ देव्यै बलिकरणायोग्रतान् बहून् जनान् विलोक्य दयार्द्रचेतास्तान् सद्धर्ममुपदिश्य सन्मार्गेऽस्थापयत् / . ____ ततश्चन्द्रावती भूषयामास / श्रीसंघस्याग्रहातिशयं दृष्ट्वा तत्रैव चतुर्मासावस्थितिं व्यधात् / तत्र सूरीश्वरस्यालौकिकप्रभावपूर्ण व्याख्यानमाकर्ण्य डाबराशाहस्यात्मजः कल्याणादिभिर्दीक्षा गृहीता / डाबराशाहोऽपि शत्रुञ्जययात्रायै संघं निष्कासितवान् / एवं तीर्थयात्रां कृत्वा सूरिः सौराष्ट्रदेशं ययौ / तत्र वर्धमानपुरे देदाशाहेन श्रावकेण महावीरमन्दिरं निर्मापितमासीत्तस्य प्रतिमास्थापनपुरःसरी प्रतिष्ठामकरोद् वरदहस्तेनाचार्यः / ततो विहरन्नसौ कच्छपान्ते माण्डव्यपुरमाजगाम / तत्र चतुर्मासो विहितः / धर्मतत्वं च पोधिताः सर्वे / / : एकदा व्याख्याने कश्चिद् एवमवादीत जिनधर्मः केन कदा प्रचारितः 1 सूरिस्तमाह अनादिकालादेव प्रवृत्तो जिनधर्मः / सृष्टेरनादित्वेन तत्सहकृतसंबन्धेन धर्मोऽयमप्यनादिरेव / तत्र का ते शङ्का वर्तते / अस्तु, तर्हि कथमेवमुच्यतेऽत्र प्रथमस्तीर्थङ्करः ऋषभदेव इति / सूरिरुवाच कालापेक्षामाश्रित्यैवमुच्यते / जिनागमे द्विविधः कालो वर्णितः-उत्सर्पिणीकालः, अवसर्पिणीकालश्चेति / अवसर्पिणीकाल एव 24 तीर्थङ्कराः प्रादुर्भूताः। व्यतीता एवमनन्ता उत्सर्पिणीकालावसर्पिणीकालाः / व्यतीतेषु तेषु चतुर्विंशतिपरम्परास्तीर्थङ्कराणामपि व्यतीताः / एवं सुविशदीकरणेन व्याख्यानेन तत्र सर्वे सूरेरसाधारणागमकौशलं ज्ञात्वा विस्मयान्विता बभूवुः / अत्र प्रान्ते विहारकाले बहूनां नूतनमन्दिराणां प्रतिष्ठा, भावुकानाञ्च दीक्षाप्रदानमुपदेशेन च धर्मप्रचारश्च सूरिणा कृतोऽभूत् / - अथैवं धर्माभ्युदयाय दृढमत्यत्नः सूरिः सिन्धदेशमलंचकार / डमरेलपुरे चातुर्मासी निर्धारिता / महादेवनामा श्रावकः संपत्तिशीलस्तत्राऽसीत् / एकदा सूरिं प्रणम्यावदद् भगवन् ! यक्षदेवसूरिपार्श्वे मया परिग्रहवतं स्वीकृतमासीत् / अत एतावत्कालावशिष्टं प्रभूतं द्रव्यं सञ्चितं कस्मिंश्चित्सत्कर्मणि विनियोक्तव्यमास्ते / तद् भवानेवादिशतु / तीर्थङ्करनिर्वाणभूमिभृतश्रीसम्मेतशिखरयात्रायै संघायोजनमेवातिश्रेयस्कर कार्यमिति सूरिस्तमाह। एवमाचार्यवचनमादृत्योपस्थितं चतुर्विधं संघमामन्त्र्य च सूरीश्वराधिष्ठातृत्वे संघो शुमेऽहनि निष्कासितः। प्राप्य च सम्मेतशिखर विधाय च तीर्थयात्रामाचार्यः संघपति महादेवमाहूयाब्रवीत् / विचार्यमाणे सत्ययमेव तेऽभिप्रेतकल्याणसाधको दीचाकालः / सूविचः समधिकश्रद्धयाऽनुमान्य पुत्रानापृच्छ्य भार्यासहितोऽसौ ज्येष्ठं पुत्रं संघपतित्वे