________________ [ 42 ] अथैवमाचार्यपदारूढः श्रीरस्नप्रभसरिः विहरणक्रमेण भित्रमालनगरमुपागमत् / तत्र स्वव्याख्यानश्रवणाख्यातधर्मप्रभावः श्रीभिन्नमालाधिपोऽजितदेवो, महिषी रत्नादेवी तथा चान्ये नागरिका जिनधर्मोपासका अभवन् / नृपात्मजो गंगदेवोऽपि विप्राणां संसर्गप्रभावेण मधुमासाअभक्ष्यभोक्ता निशाहारी चासीत् / एकदा पाचकस्यासावधानत्वात्पाके कश्चिद्विषमिश्रो जन्तुः पतितः पाकेन सह पक्कोऽभवत् / पाकश्च विषावलीढो जातः / रात्रौ कृताहारोऽसौ विषमविषदुःसहवेगावलीढसवोवयवो बभूव / / अथ प्रातःकाले ब्रामणा मन्त्रतन्त्रादीनुपायान् बहून कृत्वा विफलजीवनाशा मृत एव कालदष्टोऽसौ गंगदेव इत्युच्चेरवादिषुः / ततस्तत्पितरौ सरिसमीपमाजग्मतुः। सर्वमेव तस्य दुराचरणादिकं ब्राह्मणसंसर्गत एवेति सर्वमुदन्तजातमाख्याय कथमपि जीवेदयं ततः कुशलं मवेदित्यूचतुस्तमाचायम् / आत्मयोगवलमास्थाय पूरिस्तं लन्धसंज्ञं व्यधात् / सर्वे ते प्रणम्योपकारं स्मरन्तो राजगृहमाययुः। अथापरस्मिन् दिने रात्रिभोजननिषेधविषयकं व्याख्यानमारब्धं समायाम् / अहो ! तीर्थङ्करा अपि रात्रिभोजनं निषेधन्ति न केवलं वयम् / स्वास्थ्यरक्षणेनापि तनिषेधो रागप्राप्तः / शास्त्रेष्वप्यस्य विषये सुविशदं निरूपणं विद्यते / दिङ्मात्रन्तु-चत्वारो नरकद्वाराः प्रथमं रात्रिभोजनम् / परस्त्रीगमनं चैव सन्धानानन्तकायके / मृते स्वजनमात्रेऽपि सुतकं जायते किल / अस्तं गते दिवानाथे भोजनं क्रियते कथम् / एवं शास्त्रयुक्तिपुरःसरं सुस्पष्टमिदं व्याख्यानं श्रुत्वा न केवलमसौ गंगदत्तोऽपरे च रात्रिभोजनं तत्यजुः / एवं धर्मरहस्यं सर्वेभ्यः श्रावयित्वा सरिर्जाबलीपुरमगमत् / तत्र झालाश्रावकेण भगवतीसूत्रभवणेच्छा सूरये प्रदर्शिता / अतः सूरीश्वरस्य तत्रैव चतुर्मासो जातः / पूर्व तावतेन ज्ञानपूजा कृता। कोटिसंख्यका मुद्रास्तत्र विनियुक्ताः / आरब्ध उत्सवः / प्रारंभो भगवतीसूत्रवाचनाया जातः / सर्वे तत्र श्रवणार्थमुत्सुका बभूवुः / श्रीसंघोऽप्यत्र संयुक्तोऽभूत् / अन्ते च श्रेष्टी नीलहीरकपारागादिमिः प्रभूत रत्नैः पूजामकरोत् / सर्वे समारोहसमागता वस्त्राभरणादिभिः संमानिताः / मिलितेन द्रव्येणागमपुस्तकानि लेखयित्वा स श्रेष्ठी ज्ञानकोशेऽस्थापयत् / एवं महताऽनन्देनोत्सवः समापितः। ततः परं प्राग्वटवंशीयेन पोमाशाहेन निर्मापितस्य श्रीविमलनाथदेवस्य मन्दिरे प्रतिष्ठाविधिः सरेरेव पवित्रकरकमलेन विहितः / ___अथ मरेः पमहंस-मङ्गलकलशनामानौ द्वौ मुनी लब्धिसंपन्नावास्ताम् / एकदा शौचादिनिर्वाहार्थ दरं जग्मतुः / तत्राखेटरमणाः पशुघातकाः क्षत्रियाः समागच्छन् / सम्मुखमागतान् एनो तावूचतुः-भोः क्षत्रियाः ! विचिन्तयन्तु भवन्तो यः यावन्ति पशुरोमाणि पशुगात्रेषु भारत ! / तावद् वर्षसहस्राणि पच्यन्ते पशुपातकाः॥