________________ एवमादिकानुपदेशयुतान् श्लोकान् तदर्थाश्चाकये ते सर्वे मुनिचरणयोः शिरो निवेश्य पूर्वकृतानां पापानां पार्याश्वतमकार्षः। ततो जिनधर्मस्वरूपं ज्ञात्वा मनोऽनुकूलानि श्रावकवतानि स्वीचक्रुः / मुनीभ्यां सहैव तत्रागत्य सूरये स्वमुखेनैव सर्व वृत्तान्तं ते निवेदयामासुः / सूरिणा च धर्मोपदेशस्तेभ्यः कृतः / एवं धर्माचरणानुरूपं जिनालये तेऽष्टाह्निकामहोत्सवमारेभिरे / सन्तुष्टेनाचार्येण ताभ्यां पद्महंस-मङ्गलकलशाभ्यां मुनिभ्यां पण्डितपदवी श्रीसंघसमक्षमर्पिता। . एवं सत्यवती-पद्मावती-चन्द्रावत्यादिनगरेषु धर्मप्रचारं विधाय सिन्धप्राते विहारं कुर्वन् सूरिवीरपुरमाययौ तत्र बप्पनागगोत्रीयः श्रेष्ठी गोशलनामाऽसीत् / राहुली नाम्नी पतिव्रतपरायणा भायां परमधर्मानुरागिणी। धरणो नाम तयोः पुत्रो निखिलगुणगणालंकारभूतश्वासीत् / तस्मै दीक्षामाचार्यों ददौ / तं च निखिलागमतत्वानि क्रमेणाध्यापयत् / परमप्रतिभोपपन्नोऽसौ गुरुपदेशशिक्षाग्रहणपटुरल्पकालेन विद्वदग्रेस बभूव / शास्त्रार्थविजयी भविष्यतीति हेतोर्जयानन्देति नाम कृतं सरिणा / ततश्च विहरन् नागपुरमगमत् / सर्वे श्रावका भव्य स्वागतं व्यदधुः / तत्र धर्मसंवर्धनप्रचुरा उपदेशा अनेकशी विहिता आसन् / सूरिरसौ व्यतीते काले निजनिधनकालमागतं वीक्ष्य सच्चायिकाकथनानुसारेण श्रीसंघानुमत्या जिनानन्दं श्रीयक्षदेवसूरीति नाम परिवर्त्य स्वपट्टे शुमेऽहनि स्थापयामास / अस्मिन् भव्ये महोत्सवे सहर्षमादित्यनागगोत्रीयेण मेराशाहेन लक्षत्रयपरिमितं धनमुपयुक्तमासीत् / सूरीश्वरस्ततः परं 27 दिनान्यनशनं कृत्वा नश्वरमिमं देहमुत्ससजे / [वि० सं 310 तः 27 प्राचार्यः श्रीयक्षदेवसूरिः। (पञ्चमः) 326 प.] श्रीरत्नप्रभसरिपट्टपदं श्रीयक्षदेवसरिभूषयामास / असौ वीरपुरवास्तव्यो भूरिगोत्रीयश्वासीत् / अस्थ पिता बुद्धौ बृहस्पतिरिव सक्ष्मेक्षणीयकार्यविचक्षणः श्रीकोकरावस्य राज्ञः प्रधानसचिवो गोशलशाहनामा / माता च क्षत्रियवंशोद्भवा सतीशिरोमणीभूता राहुलीदेवी / तयोरङ्गजो धरणनामा धरणोधरणक्षमोऽभिनवेन्दुनिभाननश्वासीत् / ___ असौ सूनुर्धरणो बाल्यकालादेवाननुभूतसंसारसुखो मुनिखि वीतरागो बभूव / एकदा स मात्रा सह कमप्युद्वाहादिपसंगमुद्दिश्य स्वमातुलगृहमगमत् / तत्रोपस्थिताः क्षत्रिया मांसाद्यभक्ष्यभोजनमकार्षमिलिताः / ते च तमवादिषुः वत्स ! गृहाचैतद् भोजनम् / अथ तदनु ते तमाग्रह व्यदधुः / असौ करुणाद्रचेताः सर्वानज्ञानोपहतहृदयान् बोधयामास / भो! मान्याः किमिदं जगतीतले भगवता भवतां कृते निर्मितं भोजनं येन अन्यस्य क्षणिका तृप्तिरन्यः प्राणैर्वियुज्यत इति भवदाहारार्थ के नाम कृपणा दीनदीना मुकाः पाणिनः कामवस्थामनुभूताः / अहह भगवता जगदीश्वरेण नाम्ना तु क्षत्रिया रक्षणार्थ स्थापिताः। किन्तु शब्दस्य प्रवृत्तिनिमित्तं किं तेनैव परिवर्तितं वा स्वच्छन्दचारिभिस्तैरेव क्षत्रियैः 1 क्षतात् किल त्रायत इत्युदनः क्षत्रस्य शब्दो भुवनेषु रूढः इति दुःखे निमग्नानामुद्धरणेनैव क्षत्रियः सार्थकःक्षत्रियशब्दवाच्यो भवति / न केवलं नाममात्रधारणेन / जीवदया तु क्षत्रियाणामेव मुख्यो धर्मस्तदर्थमेव सर्वेषां संरक्षणमारस्तेषामुपरि स्थापितः