________________ [4] असौ लुम्बाशाहः क्रयविक्रयादिवाणिज्यकलाकुशलोऽभूत् न केवलमत्र भारत, पाश्चात्यदेशेष्वपि वाणिज्यप्रचार आसीत् / सदैव धर्मरतेरस्य पञ्च पुत्रा आसन् / तत्र खेमानामकः सूनुः सर्वगुणसम्पन्नः परममेधावी बभूव / अध्यात्मज्ञाने त्वस्य नैसर्गिको वृत्तियोगाभ्यासार्थमसौ शनैः शनैः कृतप्रयत्नोऽभूत् / नगरेन समागतानां साधूनां शुश्रूषणं त्वस्य परमं कर्तव्यमेवेति सर्वे जानन्ति स्म / येन धार्मिकसंस्काराणां प्रोत्साहनं विशेषतः प्राप्तम् / एकदा प्रबलतरपुण्योदयबलात् श्रीसिद्धसूरिः सौपारपत्तनमाययो। श्रीसंघेन समारतो नगरप्रवेशमहोत्सवेनालङ्कृतश्च स आचार्यः / तत्र नियमानुसारेण धार्मिकव्याख्यानानि प्रारब्धानि, एकदा व्याख्याने सूरिरिह दृष्टान्तमुपवर्णयामास / कश्चिदेकः श्रेष्ठी त्रीन् पुत्रानाहूय तेभ्यः सहस्रपरिमितान् रूप्यकान् पतिपुत्रं दत्वा विदेशं प्रेषयामास / एकेन संसारसुखोपभोगलिप्सनाऽहारविहारभोगविलासैश्च मूलधनं व्ययितमपरमपि तत्र-ऋणं कृतम् / द्वितीयेन साधारणतो वाणिज्यं कृतं तेनैव स्वकुटुम्बपोषणमकरोत् / तृतीयेन सूक्ष्मदर्शिना क्रमशो व्यापारे कृते मूलापेक्षया प्रभूतं धनमासादितम् / काले गते पिता तान् स्वदेशमाह्वयत् / तेजागताः / पूर्वदनं धनं जनकेन तेभ्यो याचितम् / प्रथमेनोक्तं व्ययीकृतमपरमपि मेऽन्येभ्यो देयमास्ते / द्वितीयेन सहस्ररूप्यका दत्ताः / तृतीयेन व्यापारण लब्धा लक्षाधिका जनकाय दत्ताः / एवमेवेदं 'दृष्टान्तमात्मविषये दृश्यताम् ! सहस्रसंख्यकधनसदृशोऽयं मानवो देहो लब्धः / तत्र एको भोगविलासेन व्यर्थमेव तं देहं प्राप्य मुधैव जीवनमतिवाहयति / द्वितीयस्तु शरीरं प्राप्य न पुण्यं न च पापमाचरति / ततोऽसावप्यात्मकल्याणं नासादयति / तृतीयश्च महता पुण्येन लब्धो दुर्लभोऽयं मानषो देह इति मत्वा दानने पुण्येन सेवया तीर्थयात्रया मन्दिराणां मूर्तीनां च प्रतिष्ठापनेन सार्थकं करोति / ततः कुटुम्बपोषणं भोगविलासानुभवमन्ते च संसारस्यानु. भवेन हेयतां ज्ञात्वा परमात्मकल्याणायैव दृढतरवैराग्यभावनामावितहृदयो दीक्षां च गृहीत्वा त्वधिकमात्मल्याणसाधको भवति / एवमसारसंसारसमुद्रनिमग्नानां प्राणिनामिह वैराग्यभावनासेवन विहाय न कोऽपि परमसुखसंपादकः पन्था इति स्पष्टमेवोच्यते यथा जहा य तिनि वणिया मूलं चित्तण निग्गया / एकोऽत्य लह इलामं एगो मूलेन आगओ // ___ एगो मूलं पि हारित्ता भागओ तत्थ वाणिओ / ववहारे उवमा एसा एवं धम्मे वियाणह / एवं मनुष्यदेहपरमकल्याणायुरस्थैर्यत्वादिविषयकमाचार्यस्य परमरमणीयं व्याख्यानमाकण्यं तत्र स्थितः खेमाशाहः संसारादुद्विविजे / सूरेश्चरणयोः प्रणम्य दीक्षाश्च ययाचे सूरिणानुमतः पितरावामन्त्र्य दीक्षामगृह्वात् / ततो गुणतिलकेति नाम प्राप / सरिपार्वे क्रमेण न्यायव्याकरणसाहित्यागमलक्षणादीनि शास्त्राण्यधीत्याकरोद्भवः कृतसंस्कारो मणिरिवाषनौ / तपश्चर्यायां योगाभ्यासे च परमप्रयत्नशीलो लब्धसिद्धिर्वभूव येन महामहिमानो भूमिपतयोऽप्यस्य चरणसरोजानतमस्तका आत्मानं धन्यं मेनिरे / श्रीसिद्धसरिरेनं गुणतिलकं रत्नप्रभसूरीति नाम्ना स्वपढे प्रतिष्ठापयामास / स्वयं च समाधिना स्वर्गभागभवत् /