________________ वेदपुराणस्मृतिशास्त्रपारदृश्वा पण्डितप्रकाण्डो यज्ञधर्मस्योपदेशं ददाति स्म / अथैकदा भूपप्रवरस्य "अदीनशत्रोः" सभायां लोहित्याचार्यस्य हरदत्तमरिणा सह शास्त्रार्थोऽभूत् / लोहित्याचार्यस्य हिंसाविषयकं मतं खण्डितं तेन सूरिणा स्वबुद्धिप्रभावेण / छात्रसहस्रपरिवृतं तं जित्वा दीक्षया दीक्षयन् अनेकान् शिष्यान् महाराष्ट्रप्रान्ते स्वधर्मप्रचारार्थं च स पाहिणोत् / एवमतीते काले च मोक्षपदवीमवाप / वि० पू० 626 तः] ३-समुद्रसूरिः [वि. पू. 554 प० श्रीसमुद्रपरिः काव्यकलाकोविदः परमसौभाग्यवान् भव्यसहस्रपत्रप्रकाशकः द्वादशांगमर्मज्ञः समागतः / तच्छिष्यो जिननिगमनिगदितयमनियमतत्परो विदेशी मुनिः। स चैकदा पश्चशत 500 संख्याकैः शिष्यैः परिवृतः उज्जयिनीमगच्छत् / तत्र च राजानं जयसेनं केशिकुमारं राजकुमारमनंगसुन्दरीं राज्ञी च पार्श्वप्रभुदर्शितशिक्षोपदेशेन चातुर्यामतत्त्वं सम्बोध्य जिनधर्मदीक्षादीक्षितामकारयत् / एवं सोऽपि मोक्षमार्गमनुससार / वि० पू० 554 तः ] ४-केशिश्रमणाचार्य [वि० पू० 470 50 4 केशिश्रमणसूरिः परमयशोभाजनं विविधविद्याविद्योतितः परमोपकारनिरतो जिनशासनोन्नतिकर्ता तपःकर्मसंलग्नो बालब्रह्मचारी बभूव / तदा हिंसाधर्मस्य यज्ञादौ पशुविशसनरूपस्य प्राबल्यमासीत् / तत्तद्देशीयाः सर्वेऽपि राजानो वेदमार्गानुसारिणो यज्ञधर्मसमर्थकाश्चासन् / पशुप्रधानैर्यज्ञैः सर्वत्र मेदिनीरुधिरप्रवाहपरिपूर्णा नदीवादृश्यत / अस्मिन् संघर्षसमये बहुसंख्याकाः साधवोऽहिंसाधर्मस्योपदेशकाः सर्वत्र धर्मप्रचाराय पर्यटनमकाः / अथ स्वकीयप्रकृष्टज्ञानवलात् श्रीकेशिश्रमणसूरिणा प्रदेशिप्रभृतयोऽनेके महीपालाः प्रबोधिताः जिनमतानुयायिनोऽभवन् / तत्रापरोऽपि केशिश्रमणसरिरभूद् यो गौतमस्वामिना सह शास्त्रचर्चा विधाय पञ्चमहाव्रतधर्म श्रीवीरकथितमङ्गीकृत्य मुक्तिमलभत / अस्मिन्नेव समये चरमतीर्थंकरस्य भगवतो महावीरस्य, बौद्धधर्मप्रवर्तकस्य दयाधर्मनिरतस्य बुद्धस्य च जन्मासीत् / श्रीकेशिश्रमणसूरिरपि मोक्षपथप्रवासी जातः।। वि० पू० 470 तः] ५–श्रीस्वयंप्रभसूरिः [वि. पू० 418 प. स्वयंप्रभसूरिविद्याधरकुलसमुद्रवः जिनशासनप्रचारकोऽतिभाग्यवान् व्याख्यानविचक्षणस्तपस्तेजोराशिः सञ्जातः / सकलशिष्यगणयुतः स पूर्वदेशे विहरन् व्यचिन्तयद् यदस्मिन् देशे बहवः माधवोधर्मप्रचारकाः सन्त्यतोऽन्यत्र गन्तव्यम्" इति पञ्चशत 500 संख्यकान् शिष्यानादाय स शत्रुञ्जयं प्रति प्रतस्थे / विधाय च शत्रुञ्जययात्रामय्दाचलं प्रत्यागतस्तत्राहिंसातच्वं सर्वान् बोधयामास / एवं प्रयाते च काले श्रीमालनगरनिवासिनो गृहस्था दर्शनाय तत्र समागच्छन् / मरीश्वरस्य च प्रभावोपेतं व्याख्यानमाकर्ण्य ते प्रार्थयान्ति स्म प्रभो ! भवानागमनेन श्रीमालपत्तनमप्यलंकरोतु,