________________ [ ] शरीरमहणपरम्परा प्रवर्तते। तापसः-पञ्चभिस्तत्वैः पञ्चभिर्भूतैश्च शरीरमुत्पद्यत इति किं नाम सत्यमिदम् ? मुनिः-सत्यम् / अत्राप्यपेक्षाऽन्त्येव / सूक्ष्मेक्षिकया भवत्कथनानुसारेणैव विचार्यताम् / यदि पञ्च. भिस्तत्वैः शरीरमुत्पन्नं तदा तत्त्वनाशे शरीरस्य नाशः स्वाभाविक एव / तथापि शाश्वतोऽनादिर्जीवोऽवशिष्ट एव / तत्ववादिभिश्च शरीर स्थितान्यस्थिमांसादिरूपाणि तत्वानि मतानि / तेषां च नाशे शरीरनाश एवायातः / निमित्तापाये नैमित्तिकस्याप्यपायः स्वत एव / तापसः-स्थलशरीरमित्युत्तेऽपरमपि किमस्ति शरीरम् ? मुनि:-एवम / शरीराणि च पंचविधानि / औदारिकम, वैक्रियम, आहारकम, तैजसम, कार्मणञ्चेति / तत्राद्यानि त्रीणि स्थलशरीरमणि / अवशिष्टे चतुर्थपञ्चमे सक्षमशरीरे / श्राहारकं च शरीरं लब्धि पात्राणां मुनीनाम् / शेषाणि च सर्वेषां जीवानां भवन्ति / तत्रौदारिकवैक्रिययोः शरीग्योहपत्तिविनाशौ / लोकाश्च जन्म मरणचेति व्यवहरन्ति / तैजसकाणे शगैरे च सदैव जीवेन सह वर्तेते / यस्मिन काले जीवात्ते पृथकत्वमापते तदा ते शरीरे रिक्त भवतः / तदा जीवस्य मोक्षो भवति. अर्थाज्जीवोऽशरीगे भवति / य च / जीव निगलनं निगकारं चाहः शरीरविषयकमिदं तत्वार्थसूत्रे द्वितीयाध्याये-औदारिकवैक्रियाऽऽकारकतैजसकार्मणानि पञ्च विधानीत्युपक्रम्प शुभं विशुद्धमव्याघाति चाहारक चतुर्दशपूर्वधरस्यैवेत्यन्तेन स्फुटीकृतम् / तापस:-जीवात शरीरं भिन्नं तदा शरीरस्य सुखदुःखयोः सद्भावे जीवस्य ते कथमनुभूयेते ? मुनिः-जीवात्मना सह कर्मणः संबन्धः संयोगाख्यः / शरीरश्च कर्मणः प्रकृतिः। भ्रान्तश्च जीवात्मा ममेदं शरीरमिति मन्यते / तेनैवाहं सुखी दुःखीत्यादि भ्रान्त्यात्मकं ज्ञानमुपपद्यते / तापसः-शरीरेऽस्मिन जीवात्मा कुत्र कथं स्थितः ? मुनिः-यथा तिलेषु तैलम, पयसि घृतम, पुष्पे च सौरभमिव सार्वत्रिकी शरीरेऽस्य नीरक्षीरन्यायेन स्थितिः प्रसिद्धा। तापस:-जीवात्मनः शरीरस्य चोभयोः कुत प्रारभ्य संयोगः ? मुनिः-नानयोनूतनः संयोगः, अनादिकालादेवोभयोः संयोगः / तापसः-संयोगो हि वियोगपूर्वकः / तत्र यदि संयोगाभावस्तदा वियोगाभावे कथमस्य जीवस्य मोक्ष. प्राप्तिः संगच्छते ? मुनिः-यद्यपि जीवास्यानादिः संयोगस्तथापि वियोगस्तु सम्भाव्यत एव / यथा तिलेषु तैलस्य कदा संयोगः ? अर्थात्तत्र तैलं केन निक्षिप्तम् ? न केनापि / तथापि यन्त्रादिना संपेषणेनोभयोः पृथक्करणरूपो वियोगस्तु भवत्येव / एवं जीवात्मनः शरीरस्य च संयोगस्यानादित्वेऽपि सम्यग्दर्शनज्ञानचारित्ररूपाणां मेलनेन वियोगो भवति / अत एवोक्तमस्मच्छास्त्रे-सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः। तत्वार्थसूत्रप्रथमाध्याये 1 सूत्रम् / तापसः-तर्हि सर्वेषामेव जीवानां मोक्षप्राप्तिर्भविाते ? ___ मुनिः-ये हि सम्यग्दर्शनज्ञानचारित्राणामाराधनं कुर्वन्ति त एव मोक्षप्रापका भवन्ति / संसारासक्तचेतसां तत्रैव परिभ्रमता जनानां पूर्वोक्तसाधनत्रयाराधन प्राक्तनजन्मशुभसंस्कारप्राप्तव्यं कथकारं सर्वेषां संभवेद् येन मोक्षः स्यात् / जीवाश्चात्र चतुर्विधाः-१ निकटभावी 2 दुर्भावी, 3 जातिभव्यः, 4 अभव्यः / तत्र जातिभव्याभव्ययोर्ज्ञानादीनामाराधने संयोग एव दुर्घटः / ततश्च मोक्षप्राप्तेः का कथा / जीवस्याष्ट. संख्यकानां कर्मणां मध्ये मोहनीयकर्मण एव प्रभावेण ते संसरणशीला ज्ञानादीनामाराधने नैव शक्ता भवन्ति /