________________ [ 21 ] 1 श्रीमद्भगवतीसूत्रसमाप्तिमहोत्सवः / 2 षष्ठिपरिमितानां मुमुक्षूणां जिनधर्मदीक्षा / 3 सहस्रसंख्यकानां नूतनमूर्तीनामजनशलाकाविधिः / 4 नूतननिर्मितानां पञ्चानां जिनालयानां प्रतिष्ठा / 5 विशालमूर्त्यादिभ्यः पञ्चभ्य उपाध्यायपदम् / 6 सोमतिलकप्रमुखाणां, साधूनां पण्डितपदवीप्रदानम् / 7 धर्मशेखरादीनां सप्तानां वाचनाचार्योपाधिवितरणम् / 8 कुमारश्रमण-प्रभृतीनामेकादशानां गणिपदप्रदानमिति / अपरञ्च मायो दशसहस्रसंख्यकान् जैनेतरान् जनान् जिनधर्मदीक्षादीक्षितानकरोत् / स्वसमीपे साधूनां महती संख्यां विचार्य तान् धर्मप्रचारार्थमसौ यत्र तत्र प्रेषयामास / अथ स विहरन् मरुधरं ययौ / संघस्वागतं सत्कृत्य तत्र धर्मोपदेशं कृत्वा धर्मे दृढ़परिकरान् व्यधात् सर्वान् / ततश्च विहारक्रमेण शाकम्भरी-मुग्धपुरादिषु स्थानेषु, पर्यटन उपकेशपुरमाययौ / तत्र संघस्यानुज्ञां स्वीकृत्य चातुर्मासके स्थितः / सुचन्तिगोत्रीयेण आम्रशाहेन सानन्दं श्रीभगवतीसूत्रवाचना कारिता / सूरिणा व्याख्यानेषु तात्विक-दार्शनिकाध्यात्मिकैतिहासिकविषयाणां सुविशदं विवेचनं विवेचितम् / आत्मकल्याणाय विरक्तिमार्गोपदेशस्तु प्रथमं स्थानमोप्नोद् व्याख्याने / बहबस्तत्मभाववशीभूतमानसा दीक्षां जगृहुः। बहुसंख्याका गृहस्थाश्रमिणोऽपि जिनधर्मे दृढादरा बभूवुः। चातुर्माससमाप्तावेकादशभिर्भावुकैरपि दीक्षा गृहीता / नूतनानां जिनमन्दिराणां प्रतिष्ठाऽपि सूरेवरदहस्तेन जाता। ___ तस्मान्निगतो विहरन्नसौ सूरिन गपुरमगमत् / व्याख्यानादिना धार्मिकान संतोषयामास / हंसावतीनगर्याः संघाधिपतेर्जसाशाहस्य सप्रश्रयां विनतिमादृत्य तत्र संघानुमत्या तेन सूरिः श्रीभगबतीसत्रवाचनां कारितः। तन्निर्मिते महावीरमन्दिरे मूर्तिप्रतिष्ठा महता समारोहेणाजनि / अथ स कोरण्टकपुरमागतः / तदधिपतिना श्रीसंघेन च भन्यसमारोहेण स्वागतेन संमाननं कतम् / कोरण्टकगच्छीयो नभप्रभसूरिरपि समीपदेशे विहरन् ककसूरेरागमनं ज्ञात्वा तत्राजगाम सशिष्यः। महताऽनन्देन हर्षयुतमानसः सूरिः संघेन स्वागतसहितं नगरप्रवेशमस्य कारयामास / ततो व्याख्यानपीठमारूढी प्रसन्नवदनपुण्डरीको तौ पूर्णिमायां नभस्थलस्थितौ शशिदिवाकराविव सभामण्डलसमुपस्थितानां सकलजनमनांसि मोदयामासतुः / अहो ! विविधगच्छीयानां सूरीश्वराणां पारस्परिक सौमनस्यं दृष्ट्वा को नाम मुदं न प्राप्नुयात् / श्रीमतः ककमरेरत्र प्राथमिकमेवागमनमिति कत्वा तत्रत्यः संघश्चतुर्मासाधिवासार्थ तस्मै प्रार्थयामास / सोऽपि तदीयां धर्मभावनां पोषयितुं तरङ्गीचकार / सकलजनमनोऽवस्थितगाढान्धतमसो विभेदकं रमणीयतरं व्याख्यानमाकानन्दसागरनिममा वभूवुः सर्वे / / विहारक्रमेण भिन्नमालासत्यपुरीशिवगढादिषु ग्रामनगरेषु धार्मिकमनासि व्याख्यानेन रज्जयमसौ परमतीर्थभूतमबुंदाचलमगमत् / तत्र तीर्थयात्रां विधाय पुनश्चतुर्मासस्थितये कोरण्टकपरमवजत् / तत्रोभौ सूरीश्वरौ जनानां हृदये जिनधर्मभावनायाः संवर्धनं स्यात्तथैव महान्तं प्रयत्न छत्वा स्वकर्तव्यपालनस्य चरमां सीमां प्रापतुः। ततश्च समाप्ते चतुर्मासे निर्गत्य मथुरानगरीं स्वप