________________ [27] इदमेव केवलं न, अपितु तन्नगराधिपतिर्नृपतिरसौ रामदेवोऽपि मांसमदिराद्यभक्ष्यपरिहारपूर्वक "न हि केनापि राज्येऽस्मिन् जीवहिंसाऽप्रमादेनापि कर्तव्येति सर्वत्रादिदेश / अयमेव वन्दनीयचरणस्य सूरीश्वरस्यालौकिकः कोऽपि विलक्षणः प्रभावविशेषः / परश्च किं वक्तव्यम्-यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जन-इति / संक्षेपतः सूरेरुपदेशतः श्रेष्टिना “सन्निमित्त वरं त्यागश्चञ्चले विभवे सति" न्यायप्राप्तमिदं सार्थकतामापादितम् / ___ अथ सर्वकार्यसमाप्तौ मूरिः क्रमेण लाट-सौराष्ट्र-सिन्ध-पञ्जावशौरसेन-प्रभृतिषु देशेषु धर्मप्रचारं कुर्वन् मथुरायामाजगाम / अपरत्र राणाशाहोऽधीतनित्यक्रियो जिनागमकृतप्रवेशस्तत्वजिज्ञासु धर्मभावनाभावितहृदयश्चतुर्मासाधिवासार्थ सूरिं निमन्त्रयामास / सूरिश्च तद्विज्ञापनमङ्गीकृत्य तत्राजगाम। अपूर्वस्वागतविधिना नगरप्रवेशमकारयदसौ श्रेष्ठिपुत्रः। तत्र क्रमशो धर्मरतिसंवर्धनानि व्याख्यानानि जातानि / पश्चाद् राणाशाहस्य संघपतित्वे महान् संघः शत्रुञ्जययात्रायै शुभेऽहनि संपादितप्रस्थानमङ्गलः प्रतस्थे / यस्य कमलाधिवासभृते गृहे पूर्वमपि धर्मकार्याण्यभूवन तदेवावालोच्य संघे कियती जनसंख्येति कथनमनावश्यकम् / एवं क्रमेण शत्रुञ्जयं गत्वा तीर्थयात्रा सम्पाद्य राणाशाहः सूरीश्वरचरणसमीपे दीक्षामगृह्णात् / सूरिणा च रत्नभूषणमुनिरिति तन्नाम कृतम् / / निसर्गत एव तीक्ष्णबुद्धिं सरस्वतीलब्धवरप्रसादं रत्नभूषणमुनिमसौ व्याकरणतर्कसाहित्यादीनि शास्त्राण्यध्यापयत् / अल्पेनैव कालेन स्वप्रतिभातिशयात् सूरेश्च कृपया स एकादशाङ्गपूर्वकं पूर्वाध्ययनं कण्ठेऽकरोत् / एवं सकलशास्त्रकलाकलापकलापिनमसौ श्रीसिद्धसूरिर्वाचनाचार्यपदेन भूपयामास / शास्त्रार्थतत्ववेत्तारश्च तं शाकम्भरीनगर्यधिपतिर्नागभट्टोऽपि वादिचक्रवर्ती-इति पदवीप्रदानेन संमानयामास। . आचार्यः श्रीककसरिः स्वनिधनकालं ज्ञात्वा स्वपट्ट उपाध्यायपदविभूषितं विशालमूर्ति संस्थाप्य तस्य देवगुप्तसूरीति नाम कृत्वा तदनु एकविंशतिदिनान्यनशनं कृत्वा समाधिना स्वर्गमगमदिति पूर्वमुक्तम् / श्रीदेवगुप्तसूरिस्तु -स्वपट्टे वर्षत्रयमेवाधिष्ठितः / तदनन्तरं श्रीसिद्धसूरिस्तत्पट्टमलंचकार / तस्यैवाल्पवयस्के रत्नभूषणमुनावतिमहती कृपाऽतीदिति सुधीभिर्विभाव्यम् / . अथ श्रीसिद्धसरिरासनमृत्युसमय योगदृष्ट्या विज्ञाय रत्नभषणवाचनाचार्यस्य रत्नप्रभसूरिरिति नामपरिवर्तनं विधाय पट्टे प्रतिष्ठाप्य दिवमगमत् / आचार्य श्रीरत्नप्रभसरिरपि गुरोः पद्धतिमनुसरन् क्रमेण धर्माभ्युदयाय विहरन् सत्यपुरमाययौ / चतुर्मासा नन्तरमष्टादश भावुकान् दीक्षयामास / तत्र लक्ष्मणशाहस्य तनुजस्य धर्मसिंहस्य धर्ममयैकजीवनत्वाद् धर्ममूर्तिरति नामाकरोत् / तत उपकेशपुरं गत्वा श्रीमहावीरदर्शनं विधाय सूरिनागपुरमाययौ। तत्रादित्यनागगोत्रीयस्य सहजपालस्याग्रहातिशयाच्चतुर्मासाथ स्थितिं चकार / सहजपालेन च श्रीभगवतीसूत्रवाचना सपादलक्षव्ययेन कारिता / भद्रगोत्रीयेण देवाशाहेन सुरेरनुमोदन माप्य महान् संघः शत्रुञ्जययात्रार्थ निष्कासितः। यत्र सहस्राधिकाः साधवो लक्षपरिमिताश्च भावुका