________________ [30] अथासौ यक्षदेवसूरिविहारक्रमेण भिन्नमालनगरं भूषयामास / तत्र महामहिमशालि व्याख्यानमभवत् / अत्र वेदधर्मानुयायिनो विप्रास्तेषां जिनधर्मानुरागिणामुत्कर्षमसहमाना एवं मिथोऽब्रुवन्-महतीमपि योग्यतां दधाना जैनाचार्या गौरवेणास्मानुल्लङ्घयितुं कदापि न शक्ताः, “वर्णानां ब्राह्मणो गुरुः, "ब्राह्मणश्च जगद्गुरुः" इत्यनेन गुरुपदभाजामस्माकं तु ते शिष्यभूता एवेति ब्राह्मणानां परमार्थतस्तदानीन्तने समये भ्रष्टचारित्र्यादहंभावयुक्तानि वचांसि श्रुत्वा श्रावकास्तथैवाचार्य निवेदयामासुः / सूरिस्तानाह सभायां सप्रमाणम्-"सत्यं ब्रह्म तपो ब्रह्म ब्रह्म चेन्द्रियनिग्रहः / सर्वभूतदया ब्रह्म एतद् ब्राह्मणलक्षणम्" क्षमा दमो दया दानं सत्यं शीलं धृतिघृणा / विद्या विज्ञानमास्तिक्यमेतद् ब्राह्मणलक्षणम् / इति तद्धर्मशास्त्रोक्तानि लक्षणानि स्युस्तेषां तावश्यमेव ते जगद्गुरुत्वेन संमाननीया एव सः / किन्त्विदानीं ये हि दृश्यन्ते ते तु नाममात्रधारका ब्राह्मणमात्मानं मन्यमाना ब्राह्मणब्रुवा एव / न खलु ब्राह्मणत्वेन ब्राह्मणोऽसौ कथ्यते, शास्त्रप्रतिपादिताचारानुष्ठानेनैव स तथैव तत्वतो ब्राह्मणपदवाच्यो भवति / अन्यथा-सत्यं नास्ति तपो नास्ति नास्ति चेन्द्रियनिग्रहः / सर्वभूतदया नास्ति एतच्चाण्डाललक्षणम् // चतुर्वेदोऽपि यो भूत्वा चण्डं कर्म समाचरेत् / चण्डालः स तु विज्ञेयो न वेदास्तत्र कारणम् // इत्यादिभिः प्रमाणैर्ज्ञायते यद् वेदाध्यनशीलोऽपि तपःसत्यदयादिगुणेहींनश्चाण्डाल इत्युच्यते शास्त्रेष्वपि / अस्मदीयशास्त्रेष्वपीदं मतमेवं प्रतिपादितम्-नवि मुंडिएण समणो-न ऊंकारेण बंभणो, न मुवणीरण्ण वासेणं कुस चिरेण ताबसो / समयाए समणो होइ बंभचेरण बंभणो, नाणेण मुणी होई तवेण होई तावसो। कम्मुणा बंभणो होई कम्मुणा होई खत्तिओ, वइस्सो कम्मुणा होइ सुद्दोहोइउ कम्मुणा // इत्येवं, प्रचुरप्रमाणपूर्ण वस्तुतो ब्राह्मणधर्मनिरूपणरूपं व्याख्यानमाकर्ण्य ते ब्राह्मणा स्वस्वरूपं वुबुधिरे। अन्यान्यपि स्वमताक्षेपपरिहाराय दृढ़तरप्रमाणपुरं व्याख्यानान्यदात्सूरिः सभायाम् / अन्ते ते ब्राह्मणाः पञ्चदशशतपरिमिता जिनधर्म स्वीचक्रुः। _____ एवं सर्वत्र परमार्थतो धर्मप्रचारेण विहारं कुर्वन् चक्रवर्तीव चतुर्दिक्षु दुन्दुभिनादमिव जिनधर्मव्याख्याननादं कुर्वन् क्रमशश्च स्तम्भतीर्थमाययौ। तस्मिन्नेव समये बौद्धाचार्यों जयकेतुरपि बुद्धमतप्रचारार्थ तत्रागतोऽभूत् / अपरेयुः शौचादिक्रियायै बहिर्गच्छद्भिः सूरेः शिष्यैः सह मतमतान्तरविषयको वार्तालापोऽभूद् बौद्ध भिक्षुकाणाम् / तत्र जिनधर्मरहस्यावेदकानि वचनान्याकर्ण्य तैरनुमितं यन्नात्र वयं सफलप्रयत्ना भविष्याम इति विचिन्त्य तेऽपरेऽहनि पलायिताः / ततः श्रीसंघस्य प्रार्थनां स्वीकृत्य तत्रैव चतुर्मासमकरोदाचार्यः / चतुर्माससमाप्तौ प्राग्वटवंशीयस्य धरणशाहस्य संघपतित्वे शत्रुञ्जययात्रार्थ संघः प्रस्थितः। महताऽनुकूल्येन तत्र तीर्थयात्रां कृत्वा संघः प्रतिनिवृत्तः / ___ अथ शिष्यमण्डलयुत आचार्यस्तु सौराष्ट्रदेशमगच्छत् / तत्र धर्मव्याख्यानादिना महती धर्मवृद्धिः सम्पादिता / पूर्वमेव धर्माभ्युदयार्थ विहरद्भि : सूरिशिष्यः सप्रश्रय सेवा विहिता / ततः कच्छदेशे रहीड-नडिया-कोमनपुरादिषु ग्रामनगरेषु धर्मतत्वं बोधयन्नसौ तत्प्रान्ते सर्वत्र धर्मजागृति