________________ [ 2 ] अन्ते चाष्टादशभिर्भावुकैरसौ कर्णो दीक्षामग्रहीत् / ततो बहुषु ग्रामनगरेषु विहरन्सरीश्वर उपकेशपुरमाजगाम / सूरेरुपदेशमासाद्य तत्रत्यो राजा मूलदेवः श्रमणसभायोजनमकरोत् / तत्र पञ्चसहस्राधिकाः श्रमणा लक्षाधिकाश्च श्रावकाः समागच्छन् / सर्वत्र धर्मप्रचार एव युष्माकं कल्याण. साधकः पन्थाः स एवाश्रयणीय इति सर्वानुपदिदेश / तत्रैव धर्ममूर्तिं स्वपदे सर्वानुमत्याऽस्थापयत् / पक्षदेवसूरिरिवि नाम चकार / ततः सच्चायिकावचनानुसारेण पट्टाभिषेककालेऽष्टमासाधिकसप्तविंशतिदिवसमध्ये केवलमेकविंशतिदिनान्यवशिष्टानीति मत्वा समीपस्थं लुणाद्रिं गत्वाऽनशनेन समाधिना च देहमत्यजत् / ____अनेन सूरिणा जिनशासनस्यैकोनविंशतिवर्षाणि महती प्रभावना विहिता / वि० सं० 218 तः] २२प्राचार्यः श्रीयक्षदेवसूरिः (चतुर्थः)[ वि० सं० 235 प. श्रीरत्नप्रभारिपट्टे श्रीयक्षदेवमूरिः समायातः / असौ सत्यपुरवास्तव्यः सुचन्तिगोत्रीयश्चासीत् / अस्य पिता लक्ष्मणसिंहः, सुशीला मांगीनामिका च माता / अस्य वाल्योचिता क्रीडा प्रतापगुणसंपन्नपुरुषसदृशी, विनयादिगुणा धार्मिकाः संस्काराश्च कुलपरम्पराप्राप्ता आसन् / अस्य जनको व्यापारेऽपरिमितं द्रव्यमवाप / ततो धर्मभावनासमन्वितमानस उपाध्यायपदवीकेन पद्महंसेन प्रेरितः सत्यपुरे जिनालयं विशालं निर्माय तत्रैकचत्वारिंशदंगुलप्रमाणां भगवतः श्रीपार्श्वनाथस्य प्रतिमां कारयित्वा प्रतिष्ठापयामास / शत्रुञ्जययात्रार्थ संघनिष्कासनमपि व्यधात् / संघस्थितेभ्यः तीर्थयात्राप्रतिनिवृत्तोऽसौ रजतस्थाली सुवर्णचषकसहितां पंचमुद्रासंयुक्तां प्रतिजनं ददौ / एवं कोटिप्रमाणं द्रव्यं धर्मकर्मणि विनियुज्य प्रभूतपुण्यमासेसाद / अतस्तस्य सूनुरपि यथा पिता तथा पुत्रः स्यादेव / / ___एकदा सत्यपुरे कश्चिद् योगी समागच्छत् / असौ स्वविद्यावलेन विविधान् पशुपक्ष्यादीनुत्पाद्य, गगगगामिन्या च विद्यया सर्वान् विस्मयतामापाद्य समतोषयत् / स धर्मसिंहोऽपि तत्र गत्वा तं पप्रच्छ-प्रभो ! आत्मकल्याणमार्ग जानाति भवान् ! / तेनोपदिष्टं ब्रह्मचर्यव्रतपालनम् / यथा = नैष्ठिकं ब्रह्मचर्यन्तु ये चरन्ति सुनिश्चिताः / देवानामपि ते पूज्याः पवित्रं मंगलं तथा / शीलानामुत्तमं शीलं व्रतानामुत्तमं व्रतम् / ध्यानानामुत्तमं ध्यानं ब्रह्मचर्य सुरक्षितम् // मैथुनं ये न सेवन्ते ब्रह्मचर्यदृढव्रताः ते संसारसमुद्रस्य पारं गच्छन्ति सुव्रताः / एकराव्युषितस्याऽपि या गतिब्रह्मचारिणः / न सा शक्रसहस्रेण वक्तुं शक्या युधिष्ठिर // इत्याकर्ण्य ब्रह्मचर्यव्रतमसौ जिनमुनिपार्श्वमाययौ / ततोऽपि जं विवित्तमणाइन्नं रहिअंयोजणेण य / बंभचेरस्सरक्खहा आलयं तु निसेवए // इत्यादिभिर्जिनागमप्रतिपादितनियमैर्ब्रह्मचर्य जग्राह / इतश्च सद्भाग्यवशाद् रत्नप्रभसरिः समाजगाम सत्यपुरम् / तत्र सूरेाख्यानं श्रुत्वा जातवैराग्यो जनकमापृच्छ्याष्टादशभिः श्रावकैर्दीक्षां स्वीचकार / ततश्च धर्ममूतिरित्यमिधानं प्राप / कालान्तरेऽधीत्य सर्वविद्यापपश्चोऽद्वितीयपाण्डित्यपञ्चाननः सरिपदमासाद्य यक्षदेवसरिरिति नाम्ना भगतीतलविश्रुतो वभूव /