________________ [31] मकार्षीत् / तदनु सिन्धप्रान्तमेत्य केषांचिन्नूतनमन्दिराणां प्रतिष्ठा बहुसंख्यकानां धार्मिकाणां दीक्षाप्रदानमप्यकरोत् / ततोऽसौ पञ्जाबदेशे विहरन् लवपुरं [लोहाकोटं] जगाम / तत्रैव चतुर्मासो विहितः / सूरिकृतज्ञानोपदेशेन मंत्री नागसेनः पञ्चदशपरिमितेर्भावुकैर्दीक्षामग्रहीत् / तस्य निधानकलशेति नाम चकार / पश्चात् तक्षशिलायां यात्रां विधाय हस्तिनापुरे सिंहपुरे च धर्मोपदेशं कृत्वा क्रमेण मथुरामात्मना भूषयाञ्चकार। तत्र बौद्धाचार्यों जयकेतुरपि स्वशिष्यमण्डलीयुतः समाजगाम / तेन स्तम्भतीर्थेऽपमानस्य प्रतीकारार्थमाह्वानं दत्तम् / ततो बलभद्रमहीपालस्य सभायां शास्त्रार्थो निश्चितोऽभवत् / तत्रापि सूरीश्वरशिष्यौ वीरभद्र-देवभद्रौ तं पराजय प्रापयामासतुः / मथुरायामेव चतुर्मासं विधाय भावुकान् दीक्षयामास, अभिनवजिनालयाना प्रतिष्ठां च संपादयामास / ततो विहरन् सूरीश्वरोऽवन्तिदेशमलंचकार / धर्मोपदेशमदात् भावुकेभ्यः / भक्तजनवचनमाकाऽसौ चित्रकूटमगात् / श्रीसंघेनादरातिशयानगरपवेशः कृत आचार्यस्य / असाधारणचमत्कारजनकं धर्मभावनाभावितं व्याख्यानं श्रुत्वा श्रोष्ठिगोत्रीयः सादामन्त्री श्रीभगवतीसूत्रवाचनां कारयामास / सपादलक्षव्ययेनासौ शाश्वतं कल्याणमाससाद / तदनन्तरमेकविंशतिसंख्यकैनैः सूरीश्वरपार्श्वे दीक्षा गृहीता। पश्चादसौ सरिराघाटपत्तनमाययौ / तत्र समुचितयोग्यतां प्राप्तेभ्यो मुनिभ्य उचितपदार्पणविधिमकरोत् / अध्यापितसकलागमतत्वं सर्वगुणसंपन्नं निधानकलशं मुनि कुमटगोत्रीयेण मन्त्रिणा रणदेवेन सम्पादित महामहोत्सवे उपाध्यायपदेन भूषयामास / ततश्च मरुधरमाजगाम / तत्र व्याख्यानदानेन सर्वे भक्तजना आदृताः कृताः / पश्चादुपकेशपुरं सशिष्यः सूरीश्वरोऽगमत् / श्रीसंघो भव्यमहोत्सवेन नगरप्रवेशमकारयत्। तत्रोपाध्याय निधानकलशं सरिपदे संस्थाप्याऽनशनेन समाधिना च स्वर्गमगमत् / पट्टावलीकारैः श्रीयक्षदेवसूरिशासनकाले बह्वयो धर्मोपदेशादिभिः परिपूर्णा घटना उल्लिखिताः किन्तु तत्र दिक्प्रदर्शनमात्रमत्र प्रदर्श्यते / / आभानगयां बप्पनागगोत्रीयस्य देशलशाहस्य- पुत्रो जगाशाहः, पितुरिव परमधार्मिको दानवीरश्वासीत् / देशलशाहस्य व्यापारकाले महद् दुर्भिक्षमभूत् तदा कोटिद्रव्येणाऽसौ प्राणिनां प्राणत्राणमकार्षीत् / तथैवाऽस्य जगाशाहस्य समयेऽपि तादृश एव भयंकरो दुष्कालोऽभवत् / दानवोरो परमकारुणिकः स महता द्रव्येण सर्वान् प्राणिनः पोषयामास / अन्नादिकमपि तदालभ्य जातम् / तथापि समुद्रयानद्वारा तदानेतुं प्रयत्नमकरोत् / दुर्भाग्यवशात्तान्येव समुद्रयानानि मध्य एवामजन् / ततः परमदुःखितो जीवानामुद्धाराय स्वदयिताया मणिमौक्तिकसुवर्णमयान्याभूषणानि भूभ्यादिकमपि च विक्रीय कर्तव्यपालनोत्सुकोऽभवत् / तथापि दुष्कालोऽसौ न पूर्णतां प्राप / याचका गृहमायाता निष्फला प्रतिनिवृत्ताः / असौ श्रोष्ठिपुत्रः स्वप्राणानुद्दिश्येदमस्मरत्-व्रजत व्रजत प्राणा पर्थिनि व्यर्थतां गते / पश्चादपि हि गन्तव्य पुरस्ताद् गमनं वरम् / अन्ते देवीं सच्चायिकां मनसा चिन्तयामास / देव्या च तस्मै द्रव्यकोशोऽक्षयो दर्शितः / ततः सर्वानन्नादिभिः परिपोष्य दुष्कालभविवाहयाञ्चकार /