________________ [ ] - - इतश्चावगतं सिद्धपुरुषेण सारङ्गस्य दीक्षावृत्त तदा स तस्य पार्श्वमेत्यात्मकल्याणभावनया तद्विषये शास्त्रचर्चा विदधाति स्म / सूरेः सकाशात् सत्स्वरूपं विज्ञाय सिद्धपुरुषोऽपि सिद्धसूरिपार्श्वे सिद्धाचले दीक्षामग्रहोत् / तदनन्तरमसौ तपोमूर्तिनाम्ना जगति विश्रुतो बभूव / स आचार्यसमीप एवाध्ययनं विधाय विद्याध्ययनाद् ज्ञानबलाच्च जिनशासनोन्नत : दृढ़प्रयत्नोऽभवत् / / अथ सिद्धाचलयात्रां विधाय तपोमूर्तिमुनिसहितः सरिः सौपारपत्तनमाजगाम / तत्र व्याख्यानकाले सरिः कपिलदृष्टान्तमुपावर्णयत् ___कौशाम्बीनगराधिपतेः पुरोहितस्य काश्यपस्य कपिलो नाम पुत्रो बभूव / नानेन बाल्ये किञ्चिदधीतम् / पिता च दैववशादिवमगच्छत् / अतो राजाऽन्यं ब्राह्मणं पुरोहितपदे न्ययुक्त / स्वगृहसमीपमार्गादेव तदुत्सवसंगतं जनसमूहं दृष्ट्वा सा ब्राह्मणी म्लानमुखी जाता। तां च तथाविधां दृष्ट्वाऽसौ कपिलो हेतुमपृच्छत् / पितुस्तव पुरोहितपदं त्वद्योग्यताभावेऽन्यस्मै ब्राह्मणायापितं तदर्थमेवायं समारोहस्त्वं च मूखे एवासि येन दुःखावेगान्म्लानवदनाहमासम् / अहमपि तथाविधो भविष्यामीति कृत्वा कुत्रचिदध्ययनार्थं गच्छामीत्युक्त्वा तूष्णीं बभूव / मात्रा चादिष्टं सावत्थ्यां तव पितुः सखा पंडित इन्द्रदत्तो वर्तते तत्र गच्छाध्येतुम् / असौ तत्र गत्वा दरिद्रोऽस्मीति भवता सर्वप्रकारेणानुग्राह्योऽहमित्युवाच / गुरुणा कस्यचित् श्रेष्ठिनो गृहे भोजनप्रबन्धः कृतः / तदर्थमा. दिष्टा दासी / असौ नियतसमयेऽधीत्य भोजनास्वादलुब्धमानसो दास्या सह संभाषणादिप्रसंगेन विषयाभिमुखस्तस्यामासक्तमना आसीत् / व्यतीतः कालः / श्रेष्ठिना ज्ञातं यदेषा स च मिथः समासक्तचेतसौ विशेषतश्चेयं दासी प्राप्तगर्भा वर्तत इति कृत्वा तौ निष्कासितौ / स्वसमीपस्थितं सर्व मार्गे व्ययीकृतम् / निर्धनौ तौ कस्मिंश्चिन्नगरे रात्रावायातौ / दास्या तस्मै निवेदितं मूर्ख ! न ते देशकालादिज्ञानमहमासन्नप्रसवा धनश्च नास्ति कथं व्यवहारो विधेयः 1 अत्रत्यो राजाऽहर्निशं 'द्विमासप्रमाणं सुवर्ण ब्राह्मणाय ददाति तद् गच्छ येन सामयिको व्ययः क्रियेत / असौ तु गतोऽपि ब्राह्मणागमनात्पश्चादुपस्थितत्वान्न तदलभत / एकदा रात्रावृत्थितो बहिर्गच्छन् राजसेवकैर्धतो राजसमीपमुपस्थापितः / राजा तमब्रवीत्-अयि ब्राह्मण ! एवमर्द्धरात्रसमये परिभ्रमणं तव किं हेतुकम् ? तेन सर्व एव दासीसंगमनादिको वृत्तान्तः शुद्धभावेन राजे निवेदितः / राज्ञा च विचारितमहो! आस्मन् कालेऽपीदृशाः सत्यप्रियाः जनाः सन्ति किम् ! परमसंतुष्टो राजा तमाह-यथेच्छं यद्रोचते तद् याचस्व / ततस्तेन मनसि चिन्तितम्-किं याचे ! मासद्वयप्रमितं सुवर्ण कियदुपयुक्त स्याद् व्यवहारविषये / नैवं रूप्यकपरिमितम् / तदपि नामोत्पन्नस्य बालस्य संरक्षणवस्त्राभरणाध्यापनादिकार्ये किमुकारकं भवेत् / एवं क्रमशो विचारक्रमेण राज्ञो राज्ययाचनेच्छामकरोत् / तस्मिन्नेव क्षणे पूर्वादृष्टसंस्कारवशात्तन सिंहावलोकनेन-किं पूर्वमासीत् , कोऽहं, कुत्र समायातः, किं मया विहितम् / तदपि क्षुद्रजीवनजीवनार्थमुपभोगलिप्सयैवेति मां धिक् / द्विमासमात्रके सुवर्णेऽलभ्येऽद्य मया राज्योपभोगेच्छा क्रियते / अहो ? सत्यमिदं जिनागमे प्रोक्तम् जहालाहो तहालोहो लाहालोहो पवढइ / दोमासा कणयं कर्ज कोडिए विन निइह //