Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 146
________________ कार ! अयं भिन्नमालनगरनिवासी सकलजगद्विद्योतितकीर्तिमण्डलस्य श्रेष्ठिवर्यस्य भैंसाशाहस्योदारचरितस्य परमभाग्यशाली संस्कारसंस्कृतमतिः सूनुः / अस्य माता सौभाग्यसौजन्यौदार्याद्यनेकगुणगणालंकता लळ. नाजनललामभूता परमभगवद्धर्मानुरागिणी सुगनी देवी / नाम चास्य पूर्वाश्रमस्थं धवलेति / / - यदा भैंसाशाहस्य जननी शत्रुजयं प्रति संघं निष्कासयामास तदा संघस्य व्यवस्था घवलेन स्वीकृताऽसीत् / धार्मिके कर्मणि तस्य समधिका हार्दिकी रुचिरेवाचार्थस्य देव गुप्तसूरीश्वरस्य तस्मिन् पक्षपाते मुख्यो हेतुरभूत् / सूरीश्वरस्य परमवैराग्यजनकानि संसारस्य हेयत्वपदर्शकानि परमार्थतत्वनिरूपणपराणि व्याख्यानानि प्रसंग. वशासी बहून्यशृणोत् / येनात्मकल्याणसाधनेच्छा तस्य चेतसि रदमूला शनैः शनैः पल्लविता बभूव / ___एकदा सिद्धाचले निवृत्तिमाश्रित्य समीपस्थितं धवलं सूरीश्वरोऽवोचत् कल्याणिम् ! आत्मकल्याणसापनायोचतो दीक्षाग्रहणेन बहूनां संसारसमासक्तचेतसां जनानां मोहपाशं छित्त्वोपदेशेनात्मकल्याणं प्रापयितुं मर्षया शक्ष्यत्येव भवान् / स्वार्थेऽध्यानुषङ्गिकः परमार्थोऽवश्यमेव त्वया कर्तव्यः / संसारे स्थितोऽपि बहूनि सामामिकानि कार्याणि. साधयिष्यति किन्तु तानि संसारसंसरणसमर्थानि नात्मकल्याणसाधकानि भवेयुः / सादरं समाकण्य सूरीश्वरवचः सूक्ष्मदृष्ट चाऽत्मकर्तव्यं विचार्य भवदुक्तमेव वरमिति निश्चित्य तीर्थयात्रादर्शनस्पर्शनवजारोपणादीनि धार्मिकाणि संपाद्य कार्याणि क्रमशो भिन्नमालं प्रत्याययो / प्रत्यागल्य च मातापित्रोरने बोहामहणाभिलाषा निवेदयामास / पिता तस्मै शुभकर्मणि दीक्षाया अदादाज्ञाम् / माता तु दीक्षानामभवणेनैव भशमुद्विमा पतिमुवाच स्वामिन् ! अहं धवलस्य दीक्षाप्रहणं नाभिनन्दामि, सर्वगुणसंपन्नो धवलो मे महामूल्य रत्नम्, अक्ष्णः कनीनिका, वार्द्धकस्याभयोऽन्धस्य यष्टिरिव जर्जरितशरीराया मेऽवलंबनम् ! यथा तथा वा भवतु किन्तु दीक्षाग्रहणमशक्यमेव मयि जीवितायामस्य / श्रुत्वा च वात्सल्यस्नेहभावं तस्या भैंसाशाहस्तां बहनुनीयावानील-प्रिये ! दीक्षां गृहाणेति धवलमादेष्टुं नेच्छामि, किन्तु दीक्षाग्रहणाभिलाषामनुमोदितुं तस्या. मिलपाम्येव / मोहजन्य स्वार्थमात्रसार पुत्रप्रेम दूरीकृत्यात्मकल्याणसंपादनायोद्य पुत्रमवश्यं स्वमनुमोदयस्व / यतो हि जन्म प्राध्यान्ते नियमाणाः सर्वे श्यन्ते किन्तु मातृकुलं पिभृकुलं स्वकुटुम्बश्च यशसोज्जवलीकृश्य स्वर्ग प्रान्तो पिरला एव बिलोक्यन्तेऽत्र जगति / अत एवोच्यते / स जातो येन जातेन याति वंशः समुन्नतिम् / परिवर्तिनि संसारे मृतः को वा न जायते // पत्युरेवं परमार्थसारं निशम्य वचनं सा शीघ्रमेवानुज्ञा ददौ दीक्षार्थम् / सूरीश्वरः परममांगल्योपपने मुहर्त भैसाशाहेनानुष्ठिते महामहोत्सवे जिनमन्दिर एकादशभिर्मुमुक्षुमिः सा घवलाय दीक्षा ददौ / ततोऽस्येन्द्रइंसेति नानः प्रसिद्धिरासीत् / मुनिरसौ राजहंस इव नीरक्षीरविवेकविचक्षण, इन्द्रहंसोऽस्पेनैव, कालेन, प्राक्तनजन्मकृतसुकतप्रभावेण सकलागमतत्व संग्रहणकदक्षो विद्वज्जनवरेण्यो जितानेकवादी सत्यवादी विनयगाम्भीर्यायनंकगुणविभूषितमानसः प्रमोदमानमानसोऽभिनवतर्ककर्कशीकृतद्विषद्हदयः, परमतपस्वी यशस्वी बभूव / अनेकासु राजसभासु स्वसिद्धान्तप्रतिपादनपटुः समेषां राज्ञा सभ्यानां च मनासि रजयामास। . एकदा श्री देवगुप्तसूरीश्वरो विहरन् जावलीपुरमाययो सकलशिष्यमण्डलीसमेतः / श्रीसंघेन सरकतस्तत्रैव स्वीचकार चातुर्मासिकी स्थितिम् / श्रेष्टिगोत्रीयो लिम्बाशाहो भगवतीसूत्रवाचनामहोत्सवमारभत / हस्तिन उपरि श्रीभगवतीसूत्रपुस्तकं संस्थाप्य महासमारोहेण परिक्रमणं कारयित्वा सूरीश्वराय समर्पयामास / श्रवणाभिलाषुकायापूर्ववक्तृत्वशैलीपरिपूर्ण व्याख्यानं श्रुत्वा धर्मेऽधिको रुचिमादधिरे / समाप्तिमगाश्च महोसकः / सर्वे च पथासुखं प्रवणमन्यपुरवमलभन्त / तदा लाखणशाहः सूरीश्वरस्याधिष्ठातृत्व स्वस्व च

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150