Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 141
________________ [ 126 ] पर नपुण्यमाससाद / अष्टांगयोगविद्यायां निमित्ताने च तथैव कुशाप्रबुद्धिः सर्वानत्यशेत / विक्रमस्य 1108 तमेऽब्दे चन्द्रावतीस्थः संघस्तं महामहोत्सवपूर्वकमुपाध्यायपदविभूषितमकार्षीत / तस्मिन्नेव संवत्सरे भिन्नमालनगरे वैशास्त्रशुक्ल पूर्णिमायां भैंसाशाहेनानुष्ठिते सूरिपदमहोत्सवे श्रीककसूरिराचार्यपदे स्थापयामास / परम्परानुसारेण तस्य देवगुप्तसूरीति नाम चकार / / आचार्यः श्रीदेवगुप्तसूरिः प्रवरप्रतिभान्वितो बालब्रह्मचारी पण्डितधुरन्धरो धर्मप्रचारकः शासनसमुन्नतिकारको बभूव / तदीयालौकिकतपस्तेजःप्रभावेण जनानां मानसानि स्वयमेव तं प्रति समाकृष्टान्यासन् / व्याख्यानशैली च मधुरा हृदयप्राहिणी चतुरस्रपाण्डित्यपूर्णा श्रोतृजनमनोरलिजकाऽभूत् / सर्वत्र शिष्यमण्डलीमण्डितो विहरणेन जनान् धर्मतत्वमुपदिश्य सत्पथानुसरणशीलान् व्यधत्त। एवमसौ विहरन् भैसाशाहस्याग्रहमनुमान्य भिन्नमालनगरे चतुर्मासावधिकमवास। सपादलक्षपरिमितधनेन सः श्रेष्ठी श्रीभगवती. सत्रवाचनामकारयत् / श्रेष्ठिनो जनन्या प्रतिप्रश्नं सुवर्णमुद्रया ज्ञानपूजा कृता / समाप्ते चतुर्मासे तस्य मातुः श्रीशत्रुब्जयतीर्थ प्रति संघनिष्कासनस्याभिलाषो जातः। तदर्थ तस्मै सान्यवेदयत / परमधर्मरुचिरसौ. प्रसन्न मनसा तदी वचः स्वीचकार / सूरीश्वरस्यापि संमतिः प्राप्ता / संभृतानि घार्थमुपकरणानि / मात्राऽसावुक्तः पुत्र ! संघनिष्कासनार्थमुपयक्तं धनं विद्यत एव किन्तु मार्गेऽकस्मादावश्यकता स्यात्तदर्थमपेक्षितम् / भैसाशाहेन सा प्रोक्ता। अम्ब ! यत्रावश्यकता तत्समीपस्थे प्रामे नगरे वा मम नामकथनेन तत्रत्यः कश्चिदपि धनं तेऽश्वयं दास्यति / सा च तथास्त्वित्त्युक्त्वा शुभे दिने महता संघेन सह यात्रार्थमभिप्रतस्थे / क्रमशो मार्गागताना देव " मन्दिराणां दर्शनादिकं कृत्वा संघः सिद्धाचलमाययो। तत्राशतिकामहोत्सवपूजाप्रभावनादीनि कृत्वा प्रभत पुण्यलाभमलभत सा श्रेष्ठिनो माता / यात्रां विधाय संघो निर्गतः क्रमेण पाटणनगरमाजगाम / तदानीं तन्नगरं कोट्यधिपैः परिपूर्ण समृद्धिसमन्वितमभत् / तैः सह स्पर्धमाना सा तत्र धर्मकर्मणि धनमधिकं विन्ययुंक्त / कोशोऽपि रिक्ततामगमत् / सा च संघप्रबन्धकै: सह नगरं गत्वा श्रेष्ठिन ईश्वरदासस्य समीपमुपस्थिता / प्रबन्धकैश्चोक्तम्-इयं धनकुबेरस्य भैसाशाहस्य जननी तीर्थयात्रा सम्पाद्य धर्मार्थ धनं विनियुज्य रिक्तकोशा वर्ततेऽतो मान्यो भवान् अस्यै द्रव्यमुपयुक्तं ददातु / स्वस्थानं गत्वा वयं तद् द्रव्यं प्रेषयिष्यामः / एवमप्यविश्वासश्चेदिमा पेटिकां न्यासरूपेण गृह्णातु भवान् / स च तदीयं वचाऽनाहत्य तानवोचत् सोपहासम्-नाहं तं भैसाशाहश्रेष्ठिनं जानामि / अस्माकं नगरे बहवो भैंसा जलभरणकर्मकराः सन्ति / सा च समाकये गर्वपूर्ण वस्य वचनं यथागतं प्रत्याययो प्रबन्धकैः सह / द्रव्यप्राप्तये श्रेष्टि नो माता नगरं गतेत्युपलभ्य सर्वे संघस्थाः स्वसमीपस्थं धनालंकारादिकं सव प्रत्यागतायै तस्यै समर्पयामासुः / सा च क्रमशो भिन्नमालनगरं प्रत्याजगाम / सर्वे च संघस्थाः सुवर्णमुद्रावस्त्रादिमिश्च सत्कृताः स्वगृहं ययुः / कुशलप्रश्नानन्तरमसौ श्रेष्ठी स्वमातरमगादीत् मातः ! मम नाम्नः प्रसिद्धिः कियद. वधिका कीडशी च 1 अस्मदीयनगरद्वारावधिकस्त्वन्नामप्रचार इति साक्षेपं सा तमवादीत् / स च ग्लानिमापन्नो मुहुर्मुहुरत्र कारणमप्राक्षीत् / जननी च सर्व पाटणनगरे श्रेष्ठिन ईश्वरदासस्य वृत्तान्तमस्मै श्रावयामास / स च वाहत इव तस्य प्रतिकारार्थ घृततैलक्रया स्वकीयकर्मकरान् तत्र प्राहिणोत् / ते च गत्वा क्रयार्थ तन्नगरव्यापारिभ्यः प्रभूतं द्रव्यं ददुः / स्वयंञ्च समीपस्थप्रामेभ्यः प्रमाणाधिकं धनं दत्वा घृततैलसंचयं चक्रुः / येन लाभलोलुपास्ते पाटणनगरनिवासिनों व्यारारिणो घृततैलसंचयं कृत्वा तेभ्यः प्रत्यर्पयितुं नालंबभूवुः / ततः खिन्नमानसास्ते भैंसाशाहस्य कर्मकरानवादिषुः मान्याः ! धनमिदं गृह्णन्तु भवदीयं भवन्तो, नास्माभिघृततैलसंचयः कर्तुं शक्यते येन भवद्भयोऽर्पयितुं वयं समर्था भवेम। व्यापारिणामिदं वचनमाकये ते प्रोचुः जानन्ति भवन्तो वयं भैंसाशाहस्य कर्मकराः स्मः / यस्य माता संघमत्र संस्थाप्य रिक्तधना धनार्थ याचमाना

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150