Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [ 125 ] प्रिपदे प्रतिष्ठाप्य महाशासनकार्यभारान्निर्मुक्तो बभूव / प्रवर्तमाने च विक्रमस्य 1108 तमे हायने नरवरं देहं त्यक्त्वा सुरलोकपदे पदं चकार / [वि. सं० 1108 तः ४६आचार्यः श्रीदेवगुप्तसूरिः (एकादशः) वि० सं० 1128 प.] प्राचार्यप्रवर श्रीकक्कसूरिपट्टे महाशासनप्रभावका जिनधर्मप्रचारको नानाविधविधानवग्रहृदयो विविधलब्धिलब्धयशोराशिः श्रीमान् देवगुप्तसूरीश्वरः स्थितिमवाप / असौ सिन्धप्रान्तस्थडमरेलपुरवास्तव्य अादित्यनःगगोत्रीयो गुलेच्छाशाखीयः / जन कोऽस्य दानवीरो धर्मपरायणः सौजन्यमूर्तिः श्रेष्ठी पद्माशाहः, माता च धर्मरता पतिचित्तानुसरणशीला भोलीनाम्नी / तयोरयमात्मजश्चोखानामकः कुलदीपकः / त्रयोदशसु पुत्रेष्वयं परमधार्मिको विनयसौजन्याद्यनेकगुणभूयिष्ठः पित्रोः स्वान्ते परमानन्दं विस्तारयामास / येन तो एकोऽपि गुणवान् पुत्रो निगुणैः किं शतैरपि / एकश्चन्द्रो जगन्नेत्रं नक्षत्रैः किं प्रयोजनम् // एवं विचारयन्तौ पुत्रेणानेनात्मानं कृतार्थममन्येताम् / क्रमेण कालेऽनीते यदासी विंशतिवर्षवयस्कोऽभूत्तदाऽस्य काग्दानं भाद्रगोत्रीयस्य समदडियाशाखीयस्य गोसलशाहस्य कुलपुज्या निखिलकलाकोविदया रूपगुणसंपरसमन्वितया रोली-नामिकया कन्यया सह निर्धारितम् / विवाहार्थमपि विचारः प्रचलति स्म / अस्मिन्नेव समये श्रीमदाचार्यवयः श्रीककसूरिः शासनोद्योतभास्करः सकलशिष्यसमन्वितो डमरेलपुरमायासीत् / कृतश्च संघेन स्वागतविधिः / प्रारम्भिकी देशनां समाकये सर्व भावुकाः सन्तुष्टमानसा बभूवुः / एकदा प्रसंगवशात्सूरिणा नरकनिगोदानां वर्णनं यथार्थतया विहितम् / सर्वे च भविष्यति कालेऽस्माकमीरशी दुःखबहुला परिस्थितिर्मा भूदिति कोऽत्र प्रतीकारः कथश्चानुष्ठेय इति स्वचेतसि चिन्तयामासुः / सभायां समासीनश्चोखाशाहोऽपि सांसारिकी संसरणशीला केशबहुलामवस्था परिलक्ष्य अर्थाः पादरजःसमा गिरिनदीवेगोपमं यौवनं आयुष्यं जलबिन्दुलोलचपलं फेनोपमं जीवितम् / धर्म यो न करोति निश्चलमतिः स्वर्गार्गलोद्घाटनं पश्चात्तापयुतो जरापरिगतः शोकाग्निना दह्यते // एवं विचार्य सर्वथा धर्मध्यानमेव अयस्करमात्मकल्याणपरम्परायै इति निश्चिकाय / विचार्य च "मम तु मतिर्न मनागपैतु धर्माद्" इति भगवन्तं मुहुमुहुर्ययाचे / असारसंसारविरक्तमतिस्तीक्ष्णबुद्धिरसो गृहं गत्वा पित्रोरप्रे दीक्षामहणाभिलाषां निवेदयामास / समाकर्ण्य च दुःखितान्तःकरणौ तौ तं बोधयामासतुनशे कतुस्तं निवारयितुं निश्चयात् / जनकेन चास्य श्वशुराय सर्वो वृत्तान्तो निवेदितः / उद्वाहविधिनैवासी संसाराकष्टमानसो भविष्यतीति विचार्य शुभे दिने पाणिपीडनविधिः सम्पादितः / तेन च सा प्रथमरानावेव तथोपदिष्टा यथा दीक्षामहणाय सन्जीबभूव नववधूः / अन्ते मात्रा पित्रा चानुज्ञाती तो विक्रमस्य 1 96 तमे संवत्सरे फाल्गुने शुक्ल पक्षे पञ्चम्यां स्थिरे लग्ने श्रीकक्कसूरेवरदहस्तेन द्विचत्वारिंशत्संख्यकैर्भावुकैः सार्ध दीक्षां जगृहतुः / दीक्षाप्रहणादनन्तरमस्य देवभद्रमुनिरिति नाम कृतम्। एतदीयदीक्षाग्रहणवृत्तान्तः सिन्धप्रान्ते धर्मप्रचारकर्मणि प्रभूतं सौकर्यमकरोत् / महता हि चरितमनुकरणीयं भवति सर्वत्र / असो देवभद्रमुनिराचार्यवर्यस्य समीपे स्थितोऽल्पेनैव कालेन न्यायव्याकरणतर्कालंकारादिषु शामेषु
Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150