Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 107
________________ [12] 'अथ समधिकानन्दसन्दोहसन्तुष्टान्तरङ्गोऽसो, मुकुन्दः सूरीश्वरस्य स्थान परम्परया ज्ञात्वा भृगुकच्छमलकर्तुमाह्वानपत्रिकया सह भृत्यान् प्राहिणोत् / आज्ञापाल काश्च भृत्यास्तत्र गत्वा मुकुन्दसन्दिष्ठं निवेदयामासुः / श्रद्धाभक्तिसमन्वितमिदं संदिष्टं समाकाचार्यस्तानवोचत्-वकाः ! चन्द्रावतीचतुर्मासानन्तर. मुपकेशपुरस्थस्य भगवतो महावीरस्य यात्राभिलाषा मे वर्ततेऽतोऽस्मिन् समये तत्रागन्तुमहं न शक्नोमि / ते च सूरिसंदिष्टं मनसि कृत्वा स्वनगरं प्रत्याययुः / चतुर्मासानन्तरमुपके शपुरयात्रायै सूरीश्वरस्यागमनं विज्ञाय मुकुन्देनाप्युपाध्यायमेरुप्रभमुनेरध्यक्षत्वे संघनिष्कासनं विनिश्चितम् / सर्वेभ्य आमन्त्रणं कृत्वा शुभे दिवसे संघ उपकेशपुरं प्रतस्थे / अस्मिंश्च संघे सहस्राधिकाः साधवो विंशतिमहस्राधिकाश्च श्रावकाः संगता आसन् / मुकुन्दोऽप्यनुक्रमेणोपकेशपुरमाजगाम / प्रथमतस्तत्रागतं सूरीश्वरं मिलित्वा प्रणम्य ततो भगवतो महावीरस्य दर्शनार्चनाप्रभावनमहोत्सवादिकं धार्मिक कृत्यमाचरत् / प्रभूतधनव्ययेनासाधारणं पुण्यगनेनासादितम् / पश्चादाचार्य भरुचपत्तनागमनाय सविनयमभ्यर्थयामास। सशिष्य पाचर्योऽस्य प्रार्थनामनुमान्य संघेन सह भृगुपुराभिमुखं विहारमकरोत् / सूरिराज उपकेशपुरचतुर्मासानन्तरं मेदपाटप्रान्तमाययो। तत्र देवपट्टनपत्तनपार्श्व दशसहस्राधिकान क्षत्रियान्स स्वधर्ममवषोध्य जिनधर्मानुयायिनश्चकार / तत्रतो निर्गत्य चित्रकूटे चतुर्मासेन सर्वान् स्वधर्मदृढभावनान्वितान् ब्यवत्त / एवमवन्तिकादिप्रान्तीयचतुर्मासानन्तरं मथुगयां सौगताचार्येण सह शास्त्रचर्चा विधाय तं पराजित्य जिनधर्मपताकामुल्लासयामास / ततो भगवतः पार्श्वनाथस्य कल्याणभूमिस्पर्शनार्थ वाराणसीमगमत् / चतुर्मासश्च तत्रैव कृत्वा तदीयप्रभावमीर्षयाऽसहमानान् ब्राह्मणान् पराजित्य विवादे पञ्चालदेशमत्राजीत् / तत्र महतीं श्रमणसभां कृत्वा सर्वेभ्यः साधुभ्यः समागतेभ्यः समयोचितं धर्मप्रचारोपदेशं दवा सिन्धदेशाभिमुखं विहारमकार्षीत् / सूरीश्वरस्य समवसरणेन तत्र धार्मिकी रुचिजनानामभूतपूर्वा बभूव / अस्मिन्देशे जिनधर्मप्रचारमुद्दिश्याचार्येण चत्वारश्चतुर्मासा (वर्षचतुष्टयमिति यावत् ) विहितास्तत्र तत्र धर्मोपदेशादिना / ततः क्रमेण विहारं कुर्वन् गोसलपुरमाजगाम सशिष्यः / परमधार्मिक आसलो महामहोत्सवपूर्वकमस्य नगरप्रवेशमकारयत् / तदीयामभ्यर्थनां स्वीकृत्य तत्रैव चतुर्मासो निर्णीतः / समाप्ते च चतुर्मासे काजलप्रभृतिभिः कतिपयैर्भव्येभगवती दीक्षा गृहीता / अनन्तरं डमरेलपुर-वीरपुरोच्चकोटादिषु विहृत्य कच्छदेशे भद्रावतीमागच्छत् / तत्र धर्मप्रचारेण सकलधार्मिकाणां मनांसि धर्मव्याख्यानेन मोदयित्वा सौराष्ट्रप्रान्ते शत्रुजयतीर्थमागत्य तत्र यात्रां विधाय शान्तिमनुभवितुं तत्रैव वसतिं चक्रे। __ अथ कश्चित् कालमुषित्वा शत्रुक्षयं ततो भृगुपुरं मृषयामास / श्रीमुकुन्दश्रेष्टिना नवलक्षपरिमिता. भिर्मुद्राभिरस्य भव्यः स्वागतविधिग्नुष्ठितः चिरादेवास्याचार्यागमनाभिलाषाद्य फलितेति महानानन्दस्य विषयः / ततः सप्तभिस्तनयैः सह सुरिपार्श्व मागत्य कृतज्ञतासूचकभावेन प्रार्थयामास भगवन् ! ममाभिलाषां पुरयितुमहति भवान् / सूरिस्तमवोचत् श्रेष्ठिन् ! का तेऽभिलाषा ? / स चावादीत् प्राचार्यवर्य ! सम्मेतशिखरयात्रार्थ महासंघनिष्कासनरूपा स्वात्मनः श्रीमते समर्पणरूपाश्च मे कामना पूरयिष्यति पूजाचरण इत्यहमाशासे / सूरिश्च तमुवाच कल्याणिन् ! समीचीनैव तेऽभिलाषा किन्त्वात्मश्रेयःसम्पादनं परमं प्रयोजनं तेऽवशिष्यते / सूरेर्वचः श्रुत्वा स ाह-जराजर्जरितावयवोऽहमधुना दीक्षा प्रहीतुं नेच्छामि / आचार्यश्च तद्वचनं समाकर्ण्य तमगादीत. . श्रेष्ठिन् ! पच्छाषिते पयाया खिप्पं गच्छन्ति अमरभवणाइ / जेसि पिओ तथो सञ्जमो खंतिअ चम्मचेरञ्च //

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150