Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 122
________________ [ 107 ] सूरीश्वरालौकिकप्रभावेण प्रकृतिमापनः 'जिनधर्माचरणप्रभावमुदितमानसो जिनदीक्षां स्वीचकार / ब्राह्मणाश्वाचार्यप्रभावमुग्धचेतसो यथाप्रतिज्ञं जिनधर्म सिषेविरे / अस्य परम्परा नक्षत्रजात्या सर्वत्र प्रसिद्धिं लेभे / धीया-जातिः / अस्या एव नक्षत्रजातेरियं जातिः प्रादुर्व भव / यथा व्यापारार्थ स्तम्भतीर्थ (खंभात. नगरम् ) ययुनक्षत्रजातीयाः केचित् / व्यापारे च प्रचुर द्रव्यमवाप्य तत्रैव न्यवात्सुः / जिनधर्मानुरागिणा दल. पतशाहेन जिनालयनिर्माणमाब्धम् / तदर्थ च शिल्पिनः कर्मकराश्चादिष्टाः / जातं च भूखननम् / तदनु कश्चिच्छिल्पी श्रेष्ठिनो गृहमाजगाम यावदसौ भोजनमकरोत् / घृतपात्रे पतिता मक्षिकामसौ निष्कास्य स्वपादेऽस्थापयत्। संपाच भोजनविधिमसौ बहिरागच्छत् / शिल्पिना तत्सर्वमेवास्य चेष्टितमवलोकितमासीत् / श्रेष्ठिन् ! भूखननं संपन्नम् / प्रातरवोष्ट्रशतभारवाह्यप्रमाणं तत्र घृतमपेक्षितं यतो मूलदाय स्यात् / एवमस्य शिल्पिनो वचः श्रुत्वा प्रभाते तत्र प्रेषयिष्याम ति तमाह श्रेष्ठ / असौ च गृहं गतः / जातं प्रभातम् / श्रेष्ठी च प्रातस्तत्र गत्वा तावरप्रमाणं घृतं नीत्वाऽब्रवीत्तम / भोः शिल्पिन् ! अधिकमपेक्षितं तर्हि वक्तव्यं किन्तु मलदाय विधेयम् / श्रुत्वा चासौ विस्मितः सन् जहास / हासकारणं च तं पप्रच्छ श्रेष्ठी / तेनोक्तम् - घृतान्मक्षिका निष्कास्य पादे स्थापयता भवतेदृशं स्नल्वौदार्य प्रकटितमिति हेतो, हासः। श्रुत्वा च श्रेष्ठी तमाह-भवन्तो जानन्तु वयं महाजनाः / धर्मकार्ये धनोपयोगार्थ न किंचिद् विचारयामः / धनाद् धर्मोऽधिकतरः / अत एव च मक्षिकायाः पादे संस्थापनेन चर्मसृदुत्वं पिपीलिकाम् तद्ग्रहणार्थमागतानां हिंसनश्च न स्यादिति श्रुत्वाऽसौ लज्जितोऽभूत् / दलपतशाहेन द्विपञ्चाशदुपमन्दिरयुक्तो भव्यो जिनालयो निर्मापिता यस्य प्रतिष्ठाविधिराचार्येण सम्पादितः / एतदीया परम्परा घीयाजात्या व्यवहृता / घटनेयं वैक्रमे 1123 समे संवत्सरेऽजनीति विभाव्यम् / संघी-जातिः-नक्षत्र जातीयो मालाशाहो विक्रमस्य 1145 तमेऽब्दे नागपुरान् महान्तं संघ निष्कासयामास तो तद्वंशजाः संघवीजातोया इति प्रसिद्धिमगमन् / गरीया-जाति:-नक्षत्रजतीयः सवलाशाहो गरीयाप्रामाध्यक्षेण सह वैमनस्यं प्राप्य पाटणनगरं निवासाय गत इति हेतोस्तत्रत्यास्तं गरीयेत्युपनाम्नाऽजुहवुः / तत्परम्परा गरीयानाम्मा विश्रुता बभूव / खजानची-जाति:-विक्रमस्य संवत्सरे 1242 तमे गरीयाजातीयो रूपणशीशाहो धारानगर्या तदधिपतिना कोषाध्यक्ष पदे नियुक्ततता कोषाध्यक्षं खजानचीपदे नाह्वयन जनाः / अस्य पुत्रेणोदयमाणेन धारा. नगर्या भगवतः पार्श्वनाथस्य भव्यो जिनालयो नि पितो यस्य प्रतिष्ठामहोत्सको वि० सं० 1282 माघशुक्लपंचम्यामनुष्ठितः / एतद्वंशीया खजानचीपदेन प्रसिद्धः।। कागजातिः-एकदा सूरीश्वरो विहरन लोद्रवापत्तनं प्रतस्थे / मध्ये कागनाम्नी सरित्समागता / यस्यास्तटे कागनामा महर्षिः शिष्यमंडलसहितोऽग्निकुण्डं संस्थाप्य स्थितः / अनेन सूरये सत्कारार्थमासनं दत्तम् / स च रजोहरणेन भूमिशोधनं कृल्या स्वकीय भासन स्थापयित्वोपविष्टः / तापसेन तत्कारणं पृष्टम् / सूक्ष्मजीवानां हिंसापरिहारायेदं समाचरणमिति कथितोऽसौ स्वासनं पश्यति तावदसंख्याः पिपीलिका ददर्श / पश्चात्तापयुवमानसोऽसौ श्रीकक्कसूरिमहिंसातत्त्वस्वरूपमपृच्छत् / तेन च सयुक्तिं सप्रमाणं जिनधर्मतत्त्वपुर:सरमहिंसास्वरूपं वर्णितम् / आत्मकल्याणसाधनायायमेव, जिनधर्मः कल्याणकर इति मत्वा सर्वशिष्यमंडल * सहितो दीक्षां जप्राह / तस्य तापसगुणानुरूपं तपोमूति नामकरणं कृतम् / अस्य परिचर्यारतो रोलीग्रामाण्यवः पृथ्वीपालोऽपि सूरीश्वरप्रभावप्रभावितो वासःक्षेपपूर्वक शुद्धि प्राप्त उपकेशवंशे समाविष्टः सूरिणा। कागर्षे: स्मृतिचिह्नर्थ पृथ्वीपालादयः क्षत्रियाः कागनाम्ना लोके प्रथिताः / पृथ्वीपालस्याग्रहमनुमान्याचार्यों रोलीग्राम गत्वोपदेशदानेन सर्वान् जिनधर्मतत्वं बोधयामास / बहवश्च सूरीश्वरवरदहस्तेन दीक्षामहिषुः / श्रस्चा घटनाया विक्रमस्य 1011 तमः संवत्सरः सम /

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150