Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 127
________________ [ 112 ] यात्रा प्रतिनिवर्वतां भवान् इत्युत्तवा तमारोप्यपीठमयं जंबुद्वीपः, अयं लवणोदधिः अतः परं धावकीखण्डः एवं मार्गागतान् द्वीपसागरान् दर्शयम् प्रमाणं सूर्याचन्दमसोर्गतिप्रदेशमपि वर्णयन्निक्षुसमुद्रादमन्तरं नन्दीश्वरद्वीपमाजगाम / मध्यमस्य गत्वाञ्जमगिराववातारयत् / अत्र यात्रां विधाय देवादेशेन सुरभिपुष्पमादाय पुनस्तथैव प्रतिन्यवर्तत / देवोऽसौ गुरुनिवासस्थलेऽवतार्य वं यथागतं ययौ। चरणकमलवन्दनं कृत्वा भवत्कृपया मे मनोरथः फलित इत्युत्तवा तदेव पुष्पं तत्संमुखं स्थापयामास / देवप्रसादरूपस्यास्य पुष्पस्य रत्नमयस्य वर्णगन्धरसस्पर्शाश्चिरकालादपि वथैवासान / प्रमुदितान्तरंगः सूरीश्वरः सभायां नन्दीश्वरद्वीपवर्णनाय तमादिशत / असी च नमस्कृत्य तं श्रोत नुद्दिश्योवाच-भव्याः ! द्वीपोऽयं 1638400:00 योजनपरिमितो दृश्यते / अस्य मध्ये चतुर्दिक्षु चत्वारोऽजनगिरयः। प्रतिपर्वतमत्र 1000 योजनपरिमितायो भूमौ 84000 योजनप्रमाणोच्छ या भमिः / उपरितले नीलरत्नखचितं यत्र भव्यं सिद्धायतनं विराजते / यद् दृष्ट्वा प्रमुदितमानसोऽहमभवम् / यच्च शतयोजनविस्तीर्ण पञ्चशवयोजनायामं द्विसप्ततियोजनोच्छायं विद्योतते / चतुर्दिक्षु चत्वारि भव्यानि द्वाराणि / चतुर्णा मण्डपानामप्रे चत्वारः प्रक्षेपमण्डपाः / तन्मध्ये रत्नखचितमाधारपीठमास्ते / तदुपरि ! सिंहासनं सूक्ष्मवस्त्राच्छादितं वांकुशसहितञ्च विराजते / यत्रांकुशें घटप्रमाणकानि मुक्ताफलानि विद्यन्ते / प्रक्षेपमण्डपस्याने एकैकः स्तूपः। तत्र चतुर्दिक्षु रत्मप्रथितान्याधारपी. ठानि यत्र पद्मासनस्था जिनप्रतिमाः। यासा दर्शने न मयाऽत्मा प्लावितः / ताश्वस्तूपसंमुखा विराजन्ते / प्रतिस्तूपं चत्वारि रत्नजटितान्याधारपीठानि / तत्र रत्न प्रभोद्भासितसर्वाङ्गाश्चैत्यवृक्षाः संदृश्यन्ते / तत्पुरोऽष्टयोजनप्रमाण कं मणिपीठम् / अत्र सहस्त्रोपग्वजयुक्तो महेन्द्रध्वजश्चतुः पुषष्ठियोजनोच्छायो नभस्युडुयते / तदने नन्दा पुष्करानाम्न्यो वापिका बर्तन्ते / ताश्च शतयोजनायामाः पञ्चाशद्योजनविस्तीणा दशयोजनगभीराः कमलकदम्वविराजिता ध्वजतोरणछत्रचामरादिभिरलंकृता द्रष्टयां मनांसि मोदयन्ति / तत उर्ध्व प्रत्येकं वनखण्डम् / यस्य वर्णनं वाचामविषयम् / तस्य प्रतिदिशं 4000 मण्डलाकाराणि, 4000 चतुष्कोणाकृतीनि चासनानि सन्ति यत्र देवा देवांगनाश्च यात्रार्थमायाताः संविशन्ति / सर्वमिदमेकस्य चैत्यालयस्य बहिःस्थं वर्णनम् / चैत्यालयस्यान्तः षोडशयोजनपरिमितं मणिपीठम् / तदुपरि तावानेव देवच्छदः / / यत्र शान्तमुद्राः पद्मासनस्था वीतरागभावनामाविता 108 जिनप्रतिमाः / यासां दर्शनेन मान्तरात्माऽनन्दसन्दोहसंभृतः समजनि / देवेन सह द्वितीयमजनगिरिमयां तत्र पूर्ववदेव सर्व दृष्टवान् / तथैवतृतीये चतुर्थे च / सर्वत्र दर्शनचैत्यवन्दनादिकं सम्पाद्यात्मनः कृतार्थतामन्वभवम् / अथ प्रतिपर्वतं चतुर्दिक्षु लक्षयोजनायामाः पञ्चाशत्सहस्रयोजनविस्तीर्ण सहस्रयोजनगभीरा वाप्यश्चतस्रः सन्ति / तन्मध्ये दधिमुखनामा पर्वतः / तत्र श्वेतरत्नस्तलमास्तृतम् / अर्थात् षोडश वापिकाः षोडश दधिमुखाः पर्वताः सन्ति / तत्र च षोडश चैत्यालया अजनगिरिवर्णने यथा वर्णितास्तथैव विद्योतन्ते / षोडशानां वापिकानामन्तरे द्वौ द्वौ कनकगिरी इति कृत्वा ते द्वात्रिंशत्संख्यकाः कनकगिरयः / येषां कनकमयानि सानूनि सर्वत्र प्रकाशन्ते / तेषु तत्संख्याकानि चैत्यायतनानि / द्विपञ्चाशत्संख्यकपर्वतातिरिक्ताम्यत्वारो रत्नमयाः पर्वताः / तेषां प्रतिदिशं मिलित्वा षोडश राजधान्योऽवलोक्यन्ते / सर्वमिदं सम्यक् दृष्ट्वा लौकिकानन्दमग्नस्तत्रैव स्थिति कुर्यामिति विचारमकरवम् / किन्तु प्रतिनिवर्तनमावश्यकं मां म्यषेधयत् / एतत्कथितं नन्दीश्वरद्वीपवर्णनं सर्वपापौघहरं निशम्य श्रीसंघस्तमभिननन्द / सर्वे च तत्र समाधिकश्रद्धालयो बभूवुः / अयं सर्वत्र विहत्य स्व. प्रभावमहिम्ना जनान् जिनधर्मदीक्षितान् विधाय शासनगौरवमभिवर्धयामास / / श्रीमद्भगवतो महावीरस्य परंपरायां चतुरशीतिसंख्याका गच्छा इति कथ्यन्ते / इदं परंपरायातम् ! इदानीमत्र शतत्रयादधिका संख्या विद्यते / एषु संदेशुनामकः कश्चिदेको गच्छः / अत्र महामहिममहनीयकी य

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150