Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [ 120 ] निरोद्धव्यानि / ब्रह्मरन्ध्रेणैवाहं प्राणाम् प्राणनिरोधानन्तरं बहिर्मोक्ष्यामति / तया च कौतुहलाकृष्टचेतसा तथैव स्वीकृतम् / प्राणायामविधिसमाप्तिकाले प्राणवायुब्रह्मरन्ध्रेण बहिर्निगतः / तदुपरि स्थितं कार्पासं दूर पतितम् / सा राजमहिषो मटित्येवासनादुत्थाय साष्टाङ्गं प्रणाम / प्रभूतं च द्रव्यमुपायनं ददौ / निःस्पृहेण तेन प्रद्मप्रमेण मुनिना सन्मार्गव्ययस्तस्य धनस्योपविष्टस्तस्यै / शुभलक्षणे काले गुरुत्वेम पूजयामास / एवं विद्यायोगसाधनवचनसिद्धिसमन्वितो महाप्रभावाकृष्टसकलजनहृदयोऽसौ जिनधर्मस्य प्रभावमभिवर्धयामास / बहवो मुनयः श्रीजम्बुनागाचार्यस्य परम्परायां महाप्रभावसंपन्ना जिनधर्मप्रचारकार्यसमर्थकाश्च बभूवुः / अनेन सुस्पष्टं विज्ञायत एव श्रीसिद्धसूरीश्वरस्य शासन कार्य समुचितशिष्यमण्डलेनैव सौकर्येणानुष्ठितम् / आचार्य श्री सिद्धसूरीश्वरश्चित्रकोटनगरे श्रेष्ठिगोत्रीयेण मांडाशाहेन समनष्ठिते सूरिपदमहामंगलोत्सवे भुवनकलशनामानं सकलविद्यापारहश्यानमाचार्यगुणभूयिष्ठं 1074 तमे वैक्रमेऽन्दे वैशाखे शुलत्रयोदश्या दिनानि षोडशानशनेनातिवाह्य दिवमगात / वि० सं० 1.74 तः] 48 प्राचार्यः श्रीकक्कसूरिः [एकादशः वि० सं० 1108 तः प्राचार्यः श्री कक्कसूरिः प्रतिभासंपन्नो बालब्रह्मचारी तीव्रतपस्वी हिमांशुरिव मृदुप्रकृतिः सहस्त्रांशुरिव प्रचण्डप्रतापो मेरुरिव दृढस्वभावः श्रीसिद्धसूरिपट्टपदं भूषयामास / असौ गुर्जरदेशालं कारभूताणहिलपुर (पाटण) निवासी। एतन्नगरनिर्माणविषये संक्षिप्तमितिवृत्तमिदम्-राजा जयशिखरः परमशौर्यसंपन्नो प्रतिपक्षीयेण नृपतिना भुवडनाम्ना सहसाऽकान्तो तुमुले युद्धे स्वर्गपथप्रवासी बभूव / रूपशीलसौजन्योपेता महिषी रूपसुन्दरी मौलै रक्षिता संपूर्णगर्भदिवसाऽरण्यवसतिमकरोत् / पूर्णेकाले वनराजनामकं केशरिकिशोरमिव पुत्र प्रासूत / एकदा पंचासर चैत्यवासी शीलगुणसूरिविरन् यत्र वृक्षे प्रन्थिबद्धवने सुप्तमेनमपश्यत् / वृक्षछायां तस्योपरि स्थिरतां गतामालोक्याऽयं शिशुमहामहिमशाली भविष्यतीति निश्चिकाय / तदनु तत्रागतां रूपसुन्दरीं तद्वृत्तान्तमसावप्राक्षीत् / तया च सर्वमुदन्तमश्रुमुख्या सकरुणं निवेदितम् / ताञ्च समाश्वास्य सूरिः पंञ्चासरं गत्वा तत्रत्यान् श्रावकान् घृतान्तमिमं निवेदयामास / जातदयास्ते च तत्र गत्वा रूपसन्दरी नवजातशिशुसहितामानीय साहाय्यं विधाय स्वप्रामे वसतिमकारयन् / सा च जिनधर्मानुरागिणी जिनदेवमाराधयन्ती दिनान्यनैषीत् / व्यतीते च काले गोपालकानां सवयस्कानां साहाय्येन अणहिलनामकस्य गोपालाप्रेसरस्य स्मृतिचिन्हरूपेणाणहिलपुरनगरनिर्माणमकरोत् स वनराजः / वैक्रमे 802 तमे वत्सरे वैशाखशुक्लतृतीयायां रोहिणीनक्षत्रे शीलगुणसूरेसिःक्षेपपूर्वकं वनराजस्य राज्याभिषेकोऽभूत् / वनराजश्च गुरूपदिष्टमार्गेण मरुधरदेशादुपकेशवंशीयान् प्राग्वटगोत्रीयान मालववंशजांश्चाहूय स्वनगरे विविधमानुकूल्यं कृत्वा तत्रापिवासमकारयत् / दिने दिने चास्य सर्वजनमनोमोदप्रदाऽभ्युन्नतिर्बभूव / चावडोपाह्वो वनराजः क्रमेणाचार्योपदेशानुष्ठितप्रकारेण स्वकीयाद्वितीयपौरुषबलेन च पितुः समपं राज्यं प्राप / अस्मिन्नेव समृद्धिमति नगरे बप्पनागगोत्रीयश्चन्द्रनामा वाणिज्यकर्मनिपुणः कोट्यधिपः श्रेष्ठी प्रति. वसति स्म / अस्य पिता पुनडशाहो व्यापाराथै विदेशं गत्वा महामूल्यानि रत्नानि प्रभूतान्याससाद / तेन च सप्तांगुलप्रमाणा माणिक्यमयी प्रभूप्रतिमा गृहे पूजार्थं स्थापिता / श्रेष्टिनश्चन्द्रस्य पंच पुत्रा आसन् / कनीयान् भोजश्च पितुरिव व्यापारकर्मसंलग्नोऽपरिमितं द्रव्यमलभत / विदेशेषु परिभ्रमणेनासौ हीरकनीलपनरागादीनि रत्नान्युपार्जयामास / ततश्च जिनदेवदृढानुरागया धर्मपत्न्या मोहिन्या विविधरत्नमयी माला निर्माय प्रमुकंठे समर्पिता / तदर्थ च भगवत आदीश्वरस्य चैत्यालये महानुत्सवो विहितः। मोहिनीप्रणयमनुमान्य तेनैव
Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150