Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [ 116 ] च शब्दच्छटाबहुल भावमनोहरं प्रौढार्थनिर्भर व्याख्यानमाकर्ण्य श्रीहेमचन्द्रसूरिश्तस्मिन् पद्मप्रभमुनी समधिकादरोऽनु दिनमस्निह्यत् / धर्मप्रचाराय समभावनाभावितो तो समुचितसर्वगुणसंपन्नाय पस्पर्द्धतुः / अन्ते स्वसमीपे स्थापयितुं देवप्रभं मूरिजिनमद्रमुनि न्यवेदयत। स च तन्निषेधमकरोत / प्राचार्यस्य राज्ञः कुमारपालस्य वशवतित्वमालोच्य स मुनीश्वरः पद्मप्रभेण सहाधरात्रे सिनपल्ली (सिनवली) नामके स्थाने स्थितिमकरोत् / पश्चाद्राजपुरुषा इतस्ततोऽन्वेषयन्तो नासाद्य प्रतिनिववृत्तिरे / ___अथ यत्रोभी स्थिती तत्समीपवर्तिनो नागरिका कस्यचिद्भावुकस्य शरीरे कृतसंन्निधानया देव्या उक्ताः / भद्रमुखाः ! ह्यो मुनीश्वरौ युष्मद्प्रामसमीपमायाती तत्र पद्मप्रभ नाम मुनिं गत्वा देवी स्वमन्दिरे भवन्तमाह्वयतीति निवेदयत / भुत्वा च ते तत्र गत्वा देवीसंदिष्टं न्यगादिषुः / मुनिश्च श्रुत्वा जगाम तन्मन्दिरम् / प्रणनाम च भगवतीम् / सा तमवादीत् कल्याणिन ! अहं त्रिपुरादेवीं वन्दनार्थमगमम् / तया चाहमादिष्टा यत्तव मन्दिरे योऽयं पद्मप्रभो मुनिरागच्छेत्तं त्वं निवेदय-स्वया जन्मत्रयं म उपासना विहिता किन्त्वल्पायुषा त्वया नाहमधिगता / अतः परं त्वं मामाराधय यतोऽहं से सिद्धा भविष्यामीति / एतनिवेदनायैव मया त्वमाहूतः / असो तु विधाय वन्दनं तदारभ्यैव त्रिपुरादेव्याराधनमकरोत् / क्रमेण च सा मन्त्ररूपेणाराधिता वरमस्मा अदात् / उपाध्यायपार्श्वमागत्य सः सकलं वृत्तान्तमवोचत् / स च शिष्योत्कर्षसन्तुष्टमानसो बभूव / शिष्योत्कर्षस्तु गुरोरेवोत्कर्षसाधकः / ततो विहरन्ती तावुपाध्यायवाचको मुनीश्वरी सिन्धप्रान्ते उमरेलपुरमा जग्मतुः / तदानीं सुहडनामा नृपत्तिः प्रजाः शशास / यः प्रातः प्रतिदिनं सपादकोटिपरिमितं धनं विभज्य याचके भ्यो ददाति स्म / मंत्री च यशोदित्यः परमधर्मरुचिरस्तस्य हितैषी प्रजापालने साहाय्यमाचरति स्म / उभौ तौ महामहोत्सवपुर:सरमनयोः स्वागतविधि संपादयामासतुः / तदनु वाचकस्य पद्मप्रभस्य मुनेरश्रुतपूर्व मनोमोदकं सारगर्भितं व्याख्यानं श्रुत्वा सप्रश्रयं गजा द्वात्रिंशत्सहस्रपरिमितान् द्रम्मान (तदानींतना तन्नामिका मुद्रा) तावत एवा। श्वान् तत्प्रमाणानेव चोष्ट्रानुपायनरूपेण समर्पयामास सन्तुष्ठमानसः / असौ तु निःस्पृहो न मे धनादीनां प्रयोजनम् / धर्मप्रचार एव मे मुख्य प्रयोजनं येन तत्रैवेदं धनमुपयुक्ष्व / मंत्रिणानुमतः स राजा विचार्या. श्वोष्ट्रकप्रमाणकांश्चतुःषष्टिसहस्रसंख्यकान द्रम्मान् परिकल्प्य मिलित्वा षण्णवतिसहस्रपरिमितान द्रम्मान धर्मकर्मणि विन्ययुक्त / यशोदित्यश्च मन्त्री तेन धनेन रामरोदीनगर्या भव्यं जिनालयं निरमापयत् / यस्य प्रविष्ठाविधानं समजनि जिनभद्रवरदहस्तेन / एवं ततो यशोदित्यसहायेन पजावप्रान्तं विहरन्नाथयो / आगधयामास त्रिपुराम् / प्रसन्ना च सा वचनसिद्धिरूपं वरमदात् / एकदा मागें वृषभस्य पोठे मारिचपूर्णा गोणों संस्थाप्य प्रामान्तरं गच्छन् कश्चिन्मिलितः / उपाध्यायेनोक्तम्-भद्रमुख ! किं तव गोण्यां वर्तत इति / जातशंकः स माषा वर्तन्त इत्यवोचत् / तथास्त्वित्युक्ते यावत्पश्यति गोण्यामसो माषानेवादाक्षीत् / तत्प्रभावानभिज्ञतया मृषा वदन्नसौ क्षमामयाचत / ततश्च जातदयेनोपाध्यायेन पूर्ववदेव माषाः मारिचानि कृतानि / एवं वचनसिद्धिविद्याप्रयोगनिरतः स गुरुणा सह गुर्जरप्रान्तमाययो। तत्र भीमदेवस्य राज्ञो महिषी प्रतिदिनमध्यात्मशास्त्रनिरता वस्तुतत्वावधारणसमर्थ योगिनं कंचिदप्यलभमाना समागतानपि पण्डितान मुनीश्च नाद्रियत / न चासनादप्युदतिष्ठत् / एतदीयं वृत्तान्तं श्रुत्वा गुरुशिष्यौ तत्पाव ययतुः / सा तु पूर्ववदेवोदासीना नैव तयोः सम्माननमकरोत् / उपाध्यायेनाभ्यागतसत्कार विधावस्या नादरहेतुः पृष्टः / समीचीनतत्वविदः प्रायो यत्र दुर्लभा दृश्यन्ते योगिनो ये स्वयं तथैवाध्यात्मज्ञानाराधनैकबुद्धयो भवन्ति / स्वविद्याचमत्कारदर्शनपरोऽसावुपाध्यायम्तामवादीत्-कल्याणिनि ! अष्टांगयोगमर्मज्ञोऽहम् / अत्रैव त्वदने प्राणान् निरुन्धे / त्वया च मदीयानि प्राणवहिर्गमनस्थानानि कार्यासेन
Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150