Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 120
________________ [ 105 ] निष्कासयामास / रैवतकतीर्थयात्रामपि विधाय स्वजातीयानां सन्मानं कृत्वा महाजनसंघेन सह भोजनोद्वा. हादिभिः व्यवहारैः संबंधमकार्षीत् / अस्यैकादशो नौघणरावो महाभाग्यवान् विविधव्यापारकुशलो बभूव / असौ ढेलडियाग्रामे स्थित्वा कुसीदव्यवहारमकरोत्। ततस्तन्निवासिनो जनारत-ढेलडिया वोहरा-पदेन संबोधयामासुः / तत प्रारभ्यास्य सन्तानपरंपरा तथैव प्रसिद्धिमगात् / अत्र बहवो हि गजकर्मचारिणो महामात्या, ब्यापारिणो राजनैतिका, धार्मिकाच महापुरुषाः प्रसिद्धिमवापुः / अस्या अपि बहव्यः शाखाः प्रशाखाश्च विस्तृता बभूवुः / एवमस्याचार्यवर्थस्य शासनकाले तदीयाद्वितीयप्रभावेण बहव उपकृता जिनधर्मसंसेवका गजानो महाराजानश्चात्मकल्याणमधिजग्मुः / संप्रदायशैथिल्यमपि सर्वथा दूरीकृत्य सर्वतोभावेन जिनधर्मदायमापा. दितम् / आज्ञापालनतत्परा अनेके शिष्याः सर्वत्र भारते धर्मप्रचारार्थ विजहः / स्वयमपि तथैव सर्वत्र विहरणेन धर्मप्रचारं, जनताया धर्मेऽधिकां च रुचिमापादयन् बाहुल्येन जिनधर्मसाम्राज्य स्थापयामास / षष्टिवर्षपर्यन्ते शासनकालेऽनेके मुमुक्षवो दीक्षा जगृहः। मंदिराणा मूर्तीनां च निर्माण संस्थापनश्च प्रबलतरेणोत्साहन संपन्नम् / बहूनां संघानामप्यायोजनेन जनहितसाधनमपि संपादितम् / वादिनां विजयेन तदा सर्वत्र जिनधर्मपवाका समुल्लसति स्म! अन्ते च तत्रभवानाचार्यवर्यः श्रीसिद्ध सूरिन गपुरे श्रादित्यनागगोत्रस्य चोरडियाशास्त्रीयेन श्रद्धाभक्तिसमन्वितेन मलुकशाहेन नवलक्षद्रव्यव्ययेन समनुष्ठिते आदित्यनाथस्य भगवतश्चैत्यालये महामहोत्सवे चतुर्विधसंघसमक्षं मुक्तिसुन्दरं नामोपाध्यायं संस्थाप्य श्रीककसूरीति नाम च कृत्वा स्वपट्टे संस्थापयामास / मस्मिन्नेव शुभावसरे समुचितेभ्यः शिष्येभ्य चितपदवीप्रदानमध्यकरोत् / अन्तिमसंलेखनासक्तोऽसौ चतुर्विशतिदिनान्यनशनेनातिवाय स्वर्गपथप्रवासी बभूव / वि. सं. 152 तः ] 45 प्राचार्यः श्रीकक्कसूरिः (दशमः) वि. सं. 1011 प.] - अत्रभवानाचार्यवर्यः श्रीककासूरिः प्रखरतपःक्षपितमनोमलः शासन शुभाभ्युदयेक कर्ममर्मपारगो हिंसादयाक्षमादिसकलगुणगणालंकृतो रुचिरमूर्तिराचार्यपदं भूषयामास / असी गोसलपुरवास्तव्य आर्यगोत्रीयश्वासीत् / अस्य पिता धर्मकर्मसमासक्तचेता व्यापारलब्धाधिकद्रविणराशिजंगमल्लशाहो माता च मनोवाकायकर्मभिः पतिहि / तनिरता धर्माचरणप्रिया सोनीनामिका / पूर्वजन्मकृतसुकृतप्रभावेण संप्राप्तसंपत्समन्वितोऽसौ जगमलोऽपरो धनाधिप इवात्र पुरे व्यराजत / धनव्ययेनात्मकल्याणाय स वारत्रयं तीर्थयात्राथै संघ निःसारयामास / स्वजातीयेभ्यस्तथैव सुवर्णमुद्रिका वस्त्रालंकारादिकं च दत्वाऽत्मकर्तव्यमन्वतिष्ठत् / अस्य सप्त कुलभूषणाः पुत्राश्च. तषश्च कन्यका आसन् / तत्र मोहननामा सूनुः परमभाग्यवान् प्रचण्डप्रभावश्वासीत् / एकदा तदीयपुण्यानुयोगादाचार्यवर्यः श्रीसिद्धसूरिगोसलपुरमाजगाम / तदीयमुपदेशमनुमान्य जगमल्लशाहः संमेतशिखरयात्रायै संघ निष्कासयामास / मोहनश्च बाल्यादेवाप्तधर्मसंस्कारः सूरीश्वरशुश्रषायां स्थितो धार्मिकवार्तालापेन परमसौख्यं प्राप / सूरेः पादत्राणाभावे कण्टकाद्यावृते पथि संचरणेन द्वाविंशतिपरिमितानां परिषहाणामनुभवेनाश्चर्यान्वितः सः सूरिमगादीत् / भगवन् ! साधारणया वृत्त्या निर्वाहं कुर्वन् भवान् किमर्थमीदृशानि दारुणानि दुःखान्यनुभवति ? तदीयमज्ञातमुनिभावं वचनं श्रुत्वा सूरिस्तमाह-वत्स ! मुनिजीवनत्य चारित्रविषयिणी सूक्ष्मतमा वृत्ति त्वं न जानासि चैनैवं वदसि / श्रावयोः सुखसमृद्धियुतः पन्था भिन्न एष / साधुजीवनजीवनाय महाप्रभावैश्चक्रवर्तिभी राजभिरक्षयो धननिधिः समृद्धिमद्राव्यमपि, दूरमुत्सारितम् / न धनमेव धनमाहुः शास्त्रकाराः किन्तु यस्य निरुपमसुखसाधनमा त्मज्ञानमेव वियते तदेव तस्येह परत्र च कल्याण

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150