Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 114
________________ [ -] प्रेषिता धर्मप्रचारकाः साघवोऽपूर्वोत्साहपरिपूर्णमानसा बभवुः / आचार्यश्च तानभिननन्द / अस्यागमनेन श्वेताम्बरदिगम्बरमतावलम्बिनो साधूनां मिथ समधिकं सौमनस्यमभूत् / ततः सर्वतोभावेन सौकर्येण च धर्मप्रचार कार्य समपद्यत / येन वैदिकधर्मों लब्धपूर्णप्रचारोऽपि सहसाऽदर्शनमलभत / व्याख्यानेऽप्यस्यापूर्वी शास्त्रतस्वबोधिका शेमुखीमालक्ष्य राष्ट्रकूट-चोल-पाण्ड्य-पल्लव-चोलुक्य-कलचुरी-होयल-गंग-कदम्बवंशीया गजानो महाराजाश्च श्रद्धाभक्तियुता जिनधर्मोपासका बभूवुरिति प्रत्नतत्वविद्भिर्गवेषकैलब्धेभ्यो दानपत्रादिभ्योऽवगम्यत इदानीमपि।विस्तरभिया विरम्यतेऽत्र विषये / स्वधर्ममूलदृढीकरणार्थ पञ्च चतुर्मासनतानि महाराष्ट्रप्रान्त एव चकार। तत्र भ्रष्टमार्गाः सर्गिस्थापिता जैनेतरा जिनधर्मानुरागिणः, अन्ये च धर्मेऽधिकरुचिमापादिताः / अस्मिन् प्रान्ते श्रमणानामुभयपक्षीयाण सभामकारयदुपदिदेश च भव्याः ! विषमे छुपस्थिते काले नाममात्रभेदे न मढबुद्धय इव पारस्परिकविरोधाचरण कधियो भवन्तु / प्राप्य च परस्परमेकतां जिनधर्म एक एवेति मत्वा तदर्थमेव कृतोत्सा हाः प्रयत्नाः मिथः साहाय्यमत्राचरन्तु / येनापरे छिदान्वेषिणो न भवेयुः। संघे शक्तिः कलौ युगे-इति निश्चितमेव जानन्तु / भगवतो महावीरस्थाहिंसा, स्याद्वादः, तद्रक्षणं पोषणब्चोभयत्र समानमिति दृढं विश्वसन्तु / तथैव प्रयत्नेन प्राप्मुवन्तु सर्वे सफलतामित्येव युष्मत्सकाशादाशासे भूयो भूय इति / तेऽपि तथैव प्रतिपेदिरे / अन्ते च समुचितयोग्यता प्राप्ताः गणि-गणावच्छेदकोपाध्यायादिभिः पदैः सत्कृता दृढ़ोत्साहाश्च बमुवुर्मुनयः ते च यत्र तत्र विहारार्थ सूरीश्वराज्ञां प्राप्य प्रययुः / आचार्यश्च विदर्भकोकणदेशयोर्विहृत्य सौपारपत्तने चतु सिं करवा सौराष्ट्रदेशे तीर्थराजस्य श्रीशत्रुब्जयतीर्यस्य गिरिनालस्य च यात्रा व्यधत्त / तत्र कियन्तं कालमुषित्वा विहरणक्रमेण लाटावन्तिकामेदपाटप्रान्तेषु धर्मभावनाभिवधनं कुर्वन् मरुधरप्रान्ते डिडूनगरे नागपुरे च चतुर्मासं फवा पश्चादुपकेशपुरमयासीत् / देवी सच्चापिका परोक्षरूपेण तमभ्यनन्दत् / भवदीया वृद्धावस्था वर्ततेऽतोऽत्रैव विहार उचित इत्युक्त्वा साऽदर्शनमगात् / असावत्र साधूनां शिथिलाचारमालक्ष्य माघशुक्ल पूर्णिमायां श्रमणसमायोजनमकरोत् / अत्रोपकेशपुरशाखीयभिन्नमालगच्छीयाः, कोरण्टकगच्छीया, अन्ये च वीरधर्ममनुसरन्तः पञ्चसहस्राधिकाः साधवः समाजग्मुः ! धर्मशैथिल्थमुहिश्य विस्तृतं व्याख्यानं चकार येन ते शैथिल्यं दूरीकृत्य नूतनोत्साहा बभूवुः / योग्यतां गतेभ्यः पदवीप्रदानं कृत्वा सभा विसर्जिता / उपकेशपुरीयेण 'श्रीसंघेन सर्वेषां भावभव्य स्वागतं विहितम् / सर्वच धर्माचरणं तत्प्रचारश्चेति परममस्मत्कर्तव्यमिति निश्चित्य विजह : / अनन्तरमसो मरुभूमावेव विजहार / एतवधिमण्यमेकवारं मथुरायां पश्चात्संघेन सह शत्रुञ्जय. तीर्थयात्राया उल्लेख: पट्टावलीतो ज्ञायते / अन्ते चोपके शपुरे चतुर्विधसंघसमक्ष भगवतो महावीरस्य मन्दिरे विक्रमस्य 892 तमे संवत्सरं माघशुक्लपूर्णिमायां सर्वागममर्मविदे कल्याणकुम्मनाम्न उपाध्यायाय सूरिपदं दत्वा स्वयं 27 दिनान्यनशनेन पञ्चपरमेष्ठिमहामन्त्रस्मरणेन चातिवाह्य दिवं ययौ / श्राचार्यवर्येण श्रीदेवगुप्तसूरिणा 55 वर्षपर्यन्तं महता परिश्रमेण जिनशासनस्यातिमहती सेवा बिहिता यां वर्णयितुं नास्माकं शक्तिः परिमिता। कुंकुमजातिः-अडकमलराठौड़ः कतिपयैर्वयस्यैः सह चौर्यमाचरति स्म / एकदा तदर्थ निर्गतो मध्य एव विहरणक्रमेण संमुखमागच्छता मुनीनां दर्शनं कृत्वाऽद्यानिश्मेषां दर्शनं तदङ्गच्छेदनलब्धरुधिरेण परिहरणीयमिति वयस्यानाह / सूरीश्वरश्च तद्धार्ता नापेन विदित्वा तेषा मनोरथं निर्भीकमना-भावका ! सुखेन गृह्वन्तु रुधिरं, भवारशा एव प्राहका अस्मद्भाग्येनैव प्रापिता इति नानवादीत् / श्रुत्वा चेदं बचो लन्जावनमुखोऽसौ न किंचिदप्यत्रवीत् / पश्चान्महता प्रयत्नेन सन्तुष्टः / भवान् मनोरथमस्मदीयं सफली कर्तुं दयतामित्यगादीत् / तेन च धर्मापदेशं सर्वाभिलाषापूरकं निखिलदुःखदलनक्षमश्च दत्वा कस्यचित्तरोस्तले स्थितिमाभित्य

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150