Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [13] एवं सूरीश्वरवचनं श्रुत्वा विचारयिष्याम्यहमस्मिन्विषयेऽधुनेति तमवोचत् / अथ श्रीसंघस्यादरातिशयमालोच्य तत्रैव चतुर्मासः कृतः / चतुर्मासानन्तरं मार्गशीर्षमासस्यै कादश्यां मुकुन्दस्य संघपतित्वे महान् संघः सम्मेतशिखरयात्रायै निर्जगाम / यत्र पञ्च सहस्त्रसंख्यकाः साधवो लक्षाधिकाश्च धार्मिकाः संगता बभूवुः / समेत्य च सम्मेतशिखरं विधाय च पूनाप्रभावनाध्वजतोरणार्पणादीनि धार्मिकाणि कृत्यानि, ज्येष्ठपुत्राय नकुलाय संघपतिमालामारोप्य मुकुन्दो लल्लकल्लादिभिः पुत्रैरष्टादशभिश्च भावुकैः सहाहतीं दीक्षामाहीत् सूरीश्वरपार्वे / संघेन सह निर्गत्य मथुरापुरीमाचार्य श्राजग म / संघस्तु स्वपुरमभिप्रतस्थे / सूरिणा च मथुरायामेव चतुर्मासः कृतः / व्याख्यानेन धर्मरुचिमभिवर्धयन् स मेदिनीपुरमगमत् / तत्र योगबलेन स्वमृत्युसमयं विचिन्त्योपाध्यायपदालतं मूर्तिविशालनामानं मुनि कक्कसूरीति नाम कृत्वा स्वपट्टे समारोप्य स्वर्गमयासीत् / वि० सं० 778 तः] ४२-प्राचार्यः श्रीकक्कसूरिः (नवमः) वि० सं० 837 प०] श्रीसिद्धसूरिपट्टपदं द्वादशतपोव्रताराधकोऽष्टप्रवचनमातृपाल कोऽष्टसंपत्समन्वितः षट्त्रिंशत्सूरिगुणालतः कल्पतरुरिव सकलार्थिजनाशापूरको मलयरुह इव शीतलप्रकृतिः सूर्य इव तेजस्वी चन्द्र इव रुचिरमूर्तिः श्रीकक्कसूरिरलञ्चकार / असावार्यगोत्रीयो गोसलपुरवास्तव्यश्वासीत् / अस्य पिता धार्मिकप्रवरः सर्वसंपत्समन्वितोऽग्रगण्यो भीगदेवनामा माता च वनिताजनललामभूता रमणीगुणगणोपमण्डिता सेणीदेवी / तयोरयमात्मजः,कज्जलो दोगन्दुकदेव इव शैशवोचितक्रीडारतः सकलपुरवासिजनमनोमोहकः क्रमेण पितरा. विव धर्मकर्माचरणनिष्ठः सुशीलो. बभूव / . अथैकस्मिन् काले प्राक्तनपुण्यपुञ्जपरिणामादाचार्यवर्यस्य सिद्धसूरेगगमनं तत्र पुरे जातम् / सूरीश्वरस्य जगन्निःसारताबोधकं वैराग्योत्पादकं व्याख्यानमाकये कज्जलो विरक्तिमवाप / एकदा मध्याह्नकालेऽसौ सूरिपार्श्वमेत्य स्वस्य वैराग्यभावनां प्रकटीचकार / सूरिपि यौवनं नाम गिरिनदीवेग इव चञ्चलं जीवतञ्चानवरतसञ्चाल्यमानगजकर्णयुगलभिवानतिस्थिरम् / विषयाश्चापातरम्याः परिणामदारुणाः सर्वथा हेया एवेति मनुध्येणात्मकल्याणप्राप्तये प्रयतितव्यम् / अनेन प्रकारेण तस्य विरक्तिभावनामवर्धयत् / सूरीश्वरस्यैवं वचः श्रुत्वा स आह सूरीश्वर ! संसारादुद्विग्नोऽहं दीक्षां वान्छामि किन्तु जनकादेशाभावे दीक्षाग्रहणं भवति न वेत्यत्र सन्देहो भवतैव दूरीकरणीयः / तस्करवृत्तिमाश्रित्य व्यवहारविरुद्ध धर्माचरणमपि तवानुचितं मे प्रतिभाति / पुरा मेघकुमारजम्बुकुमारप्रभृतयो महापुरुषाः स्वजनकस्यैकाकिनः पुत्रा अष्टवधूका अपि दीक्षोत्कृष्टभावनोपपन्नमानसाः सांसारिकान् पौद्वलिकानर्थान् झटिति त्यत्तवा पितरावापृच्छच मोक्षमार्गानुयायिनोऽभूवन् / त्वं तु वैवाहिकपाशनिर्मुक्तोऽस्मिन् काले / अतः पितृकृताभ्यनुज्ञस्यैव ते दीक्षास्त्रीकरणं न्याय्यमित्यवादीदाचार्यः / असौ कजलः परमार्थसारं सूरिवचनमङ्गीकृत्य पितरावामन्य कतिपयैर्मुमुक्षुभिः सह दीक्षा स्वीच. कार / मूर्तिविशाल इत्यभिधेयेनात्र विश्रुतो बभूव / दीक्षाग्रहणादनन्तरं गुरुकुलमुषित्वा जैनशास्त्रमर्माध्ययनकुशलः कविनिसर्गप्रतिभासमन्वितोऽचिरादेव विपश्चिच्चक्रवालसंभावनीयकीर्तिः सूरीश्वरमप्रीणयत् / प्राप्त समये मेदिनीपुरे सिद्धसूरिणा स्वपट्टे प्रतिष्ठापितः / श्रीककसूरिसमये चैत्यवासिनो मुनयो व्रतनियमेषु शिथिलाचारिणोऽभवन् / अतश्चन्द्रावत्यां तेषामुत्साहवर्धनाथै श्रमणसभा विहिता / सूरीश्वरश्च तान् स्वधर्मप्रचाराय तेषां स्वेच्छाचारादीन् दूरीकर्तुमगादीत्महानुभावा मुनयः ! यत्र तत्र विहरता मया या हि दुरवस्था दृष्टा सा न कदाचिदपि पूर्व श्रुताप्यासीत् / धर्मो हि जगतः प्रतिष्ठा, वयञ्च तदीयस्तम्भभूताः। आधारस्तम्भशैथिल्य स्थिरांशरहिते न तदुपरि स्थापितं गृहं प्रतिष्ठित दृढमूलञ्च भवति / स्थानपरिहमात्रेणात्मलाभं मन्यमानानामस्मदादीनां शिथिलाचारत्वादोदासीन्यादात्मयश:
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/dd4ebd475e9ec624266231bbd5a4af293897dc11b80fbbc5fcec3b3c1a85741a.jpg)
Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150