Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 106
________________ दित्यनागगोत्रीय उपकेशपुरवास्तव्यश्वासीत् / पिताऽस्यामात्यपदविभूषितः संघपतिपदप्रतिष्ठितोऽर्जुनः / माता च सतीसमुदायशेखरीभूता फागूदेवी / तयोरयमात्मजोऽत्यन्ततेजस्वी प्रखरप्रतिभासंपन्नः करणः / आबालब्रह्मचारी भविष्यामीति भीष्मप्रतिज्ञान्वितः / अमात्यस्यार्जुनस्याग्रहेणास्य पाणिपीडनं कस्यचित् श्रेष्ठिनः परमसौन्दर्यसौजन्यायनेकगुणवत्या कन्यया सह जातं किन्तु विजयकुंवरीविजयकुंवगविव स्वप्रतिज्ञाविघातमुभावपि न चक्रतुः / यतो ब्रह्मचर्य नामाप्रतिहतगति सर्वातिशायि परमात्मकल्याणसाधकमुत्कृष्टं साधनम् / ब्रह्मचर्यबलात् शरीरपरिपुष्टिस्तेजोमेधावर्धनम् दुष्करस्यापि कार्यस्य सौकर्येण साधनम् / तत्प्रभावासादितापूर्वोत्साहेनैहिक पारलौकिकञ्च श्रेयः संप्राप्यते / पुराऽपि बहवो मुनीश्वराः सर्वत्र प्रबलतरान् वादिनो ब्रह्मचर्यसमेधितमेधाबलेन विजित्यात्मयशो दिक्षु सर्वासु प्रसारयामासुः / इदमेवात्मश्रेयसि प्रयुक्तं ब्रह्मचर्य नाम साधनं कियदुपकारक भवेदिति विचारयन्तौ तौ षण्मासपर्यन्तमेकशय्या स्वपन्तावपि स्वब्रह्मवर्यव्रते दृढपरिकरावास्ताम् / करणकृतो. पदेशबलादस्य भार्याऽनेन सह दीक्षोद्यता बभूव।। ___ इत परमपुण्योदयाज्जात्युद्धारको जिनगदितयमनियमनिष्ठो धर्माचार्यो देवगुप्तसूरिरुपकेशपुरमाजगाम / सूरीश्वरेण व्याख्यानेब्रह्मचर्यमाहात्म्यं विवेचितम् / तदाकर्ण्य करणो भार्यया सह पितरावापृच्छ्यैकत्रिंशत्परिमितैर्जनैः सार्द्ध सूरिसमीपे दीक्षामग्रहीत् / अनन्तरमस्याभिधानं चन्द्रशेखरेति परिवर्तितम् / असौ चतुर्दशवर्षपर्यन्तं गुरुकुलेऽधीयान एकादशाङ्गोपाङ्गादीनि जिनागमतत्त्वानि साहित्यादीनि च शास्त्राणि कण्ड स्थान्यकरोत् / प्रसन्नमनाः सूरीश्वर उपाध्यायपदापणेन तं भूषयामास / ततः परमपि सूरिसमीपावस्थानेनानुभवज्ञानजन्याद्वितीयप्रतिभासमन्वित भागमधुरन्धरोऽनेकान्तवादप्रचारको जातः / सिद्धाचलपर्वतस्य पवित्रतीर्थस्थले स्वनिधन. समयं परिलक्ष्य देवगुप्तसूरिणाऽसौ सिद्धसूरिनाम्ना प्रतिष्ठापितः सूरिपदे / सिद्धसूरिः शत्रुलयपर्वतान्निर्गत्येतस्ततो विहरन् भृगुकच्छपुरमाययो / तत्र धनधान्यसमृद्धिसम्पन्नो धनाधिप इव मुकुन्दनामा श्रेष्ठी प्रतिवसति स्म / अपरिमितधने विद्यमानेऽपि सन्तत्यभावाद् धनराशिरस्य दुःखोत्पादनायैवासीत् / अपुत्रस्य सर्वेषु वन्तुषु विद्यमानेष्वपि न तस्य सन्तोषाय किञ्चिद् भवति / अत एवोच्यते धिग् जीवितं प्रजाहीनं धिग् गृहं च प्रजां विना / धिग् धनं चानपत्यस्य धिक् कुलं सन्ततिं विना / / स च सूरीश्वरप्रशंसां जनश्रुतिपरम्परातोऽत्रबुध्यापत्यलाभाशया मन्त्रयन्त्रतन्त्रविचक्षणस्य सुरेः समीपमगमत् / पादवन्दनं विधाय विनीतभावेनासौ तस्मै स्वगृहस्थाश्रमजीवनेतिवृत्तं सकलं निवेदयामास / सूरिरपि तत्सर्वमेव श्रुत्वा "बलिष्ठा कर्मणो गतिः" प्रारब्धकर्म बलवन् मुनयो वदन्तीत्यादिभिर्नीतिवचनैस्तं समाश्वासयत् / भोगलिप्सया संसारसुखासक्तिः परमार्थतः प्राणिनां दुखायैवोपकल्पते / सांसारिका हि विषयाः श्रद्धया विप्रलब्धारः प्रिय विप्रियकारिणः / सुदुस्त्यजास्त्यजन्तोऽपि, कामाः कष्टा हि शत्रवः / / एवं सयुक्तिकमुपदिष्टो मिथ्याग्रहप्रहोन्मोचितो जिनधर्मस्य परमोपासको भक्तोऽभवत् / व्यतीते हि कियति काले दोगन्दुको देव इवानुपमलावण्यपुजः सुकुमारप्रकृतिः सुरुचिरमूर्तिः सुतो जन्म लेभे / अत एव तस्य जिनधर्मोपरि सविशेषा भक्तिरवर्घत / अयं खलु सूररेवोपकार इति मन्वानः स मुहुर्मुहुस्तं परमभक्त्याप्रशशंस / कटाक्षकटाक्षितकलुषितचित्तवृत्तयो वेदधर्मानुयायिनश्च ब्राह्मणा लज्जाभरनतानना अभूवन् /

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150