Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 102
________________ [7] मुनिकथित भार्याथै सविस्तर निवेदयामास / सा च संसारसुखाभिलाषिणी मटित्येव विवाहोऽस्य कर्तव्यो येन न गृह्णीयादसो दीक्षामिति पतिमुवाच / लक्ष्मणेन प्रोक्तम् अन्तु किन्त्वसौ किमिच्छतीति प्रथमं ज्ञातव्यम् / एवं मिथो विवदमानयोः कालो व्यतीतः तत परं 629 वर्षे दुर्भिक्षमभवत् किन्तु सामान्यरूपं तदतिवाहि येन केनापि प्रकारेण जनैः। तथापि 630 वर्षे निखिलप्राणिघस्मर एकपद एव जगद् प्रसितुं तत्परो भयानको दुष्कालः पपात / तत्र नववर्षवयस्कः करुणाईचेताः खेमाशाहः पितरं द्रव्यस्यायमेव समुचितस्त्यागसमय इत्युवाच / पुत्रस्येहशीं भव्या जनहितप्रवणां भावनां दृष्ट्वा स च तथैव व्ययमकार्षीत् / एवं सोऽपि कालः सवैर्महता कष्टेनातिवाहितः / प्राप्ते चतुर्दशे वर्षेऽस्य पाणिपीडनविधये जनकजनन्योमिथः प्रादुगस विवादः / अस्मिन्नेव समये भगवतः श्रीकक्कसूरेरागमनं जातम् / मव्यस्वागतेन सूरेरागमनमहोत्सवः श्रावकैः कृतः / ततः परं व्याख्यानसमये सुरिणा संसरणशीलानां संसारिणां विषयोपभोगेन निरयमात्रफल के जीवनम् / ए सर्वथा सशास्त्रं संसारनिःसारता प्रतिपादिता। ततः सूक्ष्मदृष्टया विचार्यमाणे दीक्षाग्रहणपूर्वमात्मकल्याणमार्गानुसरणमेव वरमिति सर्वान् भावुकान बोधयामास / स खेमाशाहः प्रथमत एव प्राप्तवैराग्यः सूरीश्वरोपदेशामृतरसास्वादलुब्धः पितरौ विबोध्य ताभ्याां कृताभ्यनुज्ञ श्रात्मना सह त्रिंशत्संख्यकैर्भावुकैः सह दीक्षामाहीत / दिक्षामहोत्सवे लक्षनवकं धनमुपयुक्तमवशिष्टं पुण्यक्षेत्रे व्ययीकृतम् / अनन्तरमस्याभिधेयं दयारत्न. मुनिरिति सार्थकमेव कृतं सूरिणा / ब्रह्मचर्यप्रभावविद्योतितशिष्यमण्डलोऽसौ क्रमेण व्याकरणन्यायादीनि शास्त्राएयधीत्य सर्वातिशायितेजा बभव / अस्यासाधारणदीप्तिप्रोद्भासितदिङमण्डलं मुखं सर्वजनानां नयनेषु हृदयेषु च स्थानमवाप / शास्त्रेष्वकुण्ट्रितबुद्धिविभवः सर्वगुणसंपन्न इति कृत्वा सूरिणा नागपुरनगरे स्वपट्टे प्रतिष्ठापितः ककसूरीति नाम्ना। - अथाऽचार्यपदावाप्तिसमयादारभ्य विविधप्रान्तेषु पर्यटन सम्पादलक्ष अजमेर) नाम्नि प्रान्ते विहारं कृत्वा शाकम्भरीमाजगाम / तत्र धर्मरुचिसंवर्धकं व्याख्यानमदात् / येन तत्रत्यो राजा गेंदारावोऽमात्यवरश्च जेसलोऽन्ये च जिनधर्मस्यौदार्य पूर्णान्सिद्धान्तान् दृष्ट्वा जिनधर्मेऽधिकरुचयोऽभवन् / व्याख्याने षड्दर्शनसारश्चाद्वितीयांडित्येन वर्णयित्वा सर्वान् स्वधर्मरुचिरुचिरहृदयान व्यधत्त / अस्य कालनिरूपणात्मवादकर्मवादक्रियावादादयो विविधा जनमनोमोदका विषयाः स्थानमलभन्त व्याख्याने / अतः सूरीश्वर प्रभावसमासादितधर्माचरणवृत्तिरसौ गेंदारावो जीवहिंसाविधायकाखेटकादीनां कृत्यानां प्रत्याख्यानं सूरीश्वरसाक्षिपूर्वकमकरोत् / गेंदारावप्रमुखस्य श्रीसंघस्याप्रहातिशयं दृष्ट्वा तत्रैव चतुर्मासावस्थानं प्रत्यपात / चतुर्मासे डिडूगोत्रीयेण सालगशाहेन पञ्चमाङ्गस्य श्रीभगवती. सूत्रस्य वाचनामहोत्सव श्रारब्धः / प्रभूतद्रव्यव्ययेनापूर्वो लाभः सर्वैरपि लब्धः / श्राचार्येणापि सषां धर्मरुचिमवलोक्य विविधोपदेशप्रसङ्गपुरःसरं सूत्रवाचनाकार्य समापितम् / श्रात्मकल्याणेच्छया गेंदारावप्रभृतिभिः कतिपयैर्भावुकैर्जिनधर्मः स्वीकृतः / समाप्ते चतुर्मासवते सूरीश्वरो मेदपाट-मत्स्य-सौराष्ट्र-कच्छ-पञ्चाल-बुदेल. खण्डादिषु प्रान्तेषु शिष्यमण्डलीसमन्वित आचार्गे धरुचिर्लोकानामभिवर्धयामास / बहूनां देवालयाना जीर्णोद्धारो, नूतनानां प्रतिष्ठापनं, धर्माभिरुचिरिति त्रितयप्रयोजनेनाचार्यत्वं सार्थकं व्यधत्त / ____ एकादा विहारक्रमेणासौ सूरीश्वर उपकेशपुरमाययो / तत्रासातावेदनीयकर्मोदयात् शरीरे दाहवेदना प्रादुर्बभव / अतो निजमृत्युकालं विज्ञाय चोरडियाशाखोद्भवस्य भेराश्रावकस्य महोत्सवपूर्वकं विमलप्रभमुनये सूरिपदं ददौ / परम्परानुसारेणास्य श्रीदेवगुप्तसूरिरिति नाम परिवर्तितम् / समाध्यनशनव्रताचरणपूर्वकं सप्त - दिनान्यतिक्रम्य क्षणभङ्गुरं देहमुत्सृज्य श्रीकक्कसूरिः स्वर्गमगच्छत् / / वि० सं०६८० तः] 4. प्राचार्यः श्रीदेवगुप्तसूरिः (अष्टमः) वि० सं० 724 प.] श्रीककसूरिपट्टे न्यायव्याकरणाष्टमहानिमित्तादिशास्त्रपारङ्गतः प्रवरपाण्डित्यप्रतिभासंपन्नो जिनधर्म

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150