Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 100
________________ [ ] - एवं सूक्ष्म विचार्य स्वसम्पदमर्थिसाच्चकार येन सर्पः कञ्चुकमिव ते दारिद्रय मुक्त्वा पुनरुज्जीविता इव विरेजिरे / ततः परमसौ स्वनगरेऽभिनवं जिनालयनिर्माणमारभत / इतश्च डमरेलपुरे सूरीश्वरस्यागमनं विज्ञायासलः कतिपयैर्जनः साढे डमरेलपुरं ययौ / क्रमेण डमरेडपुरं प्राप्य सूरीश्वरस्य वन्दनं विधाय सविनय मालपुरनगरालं करणाय भूयो भूयः प्रार्थनामकरोत् / सूरिरपि भाविलामं मन्यमानो मालपुराभिमुखं प्रतस्थे / सूरिराजस्यागमनं विज्ञाय नवलक्षपरिमितद्रव्यव्ययेनासलो महामहोत्सवसहितमस्य नगरप्रवेशं कारयामास / कानबरावप्रभृतीनां संघस्थानां श्रावकाणामाग्रहमभिवीक्ष्य तत्रैव चतुर्मासो विहितः / श्रासलश्चात्मनं धन्य मन्यमानो भन्यसमारोहपुरःसरं श्रीभगवतीसूत्रवाचनामहोत्सवमारेमे / ज्ञानार्चने संप्राप्तद्रव्येण प्रन्थान् लेख. यित्वा ज्ञानकोशेऽस्थापयत् / प्रतिदिनं सूरीश्वरस्य व्याख्यानं शृण्वतो रावकानडस्येहशी भक्ति ता यया स्वकार्याणि विहाय नियतसमये तन्मयो भूत्वा व्याख्यानमशृणोत् / ततः स्वगुरोर्वाममार्गानुसारिणः स्वेच्छाचारयुतां लीला स्मृत्वा तद्धान्निवृत्य जिनधर्ममङ्गोचकार / व्यतीते चतुर्मासे शत्रुञ्जययात्रार्थ संघ सूरेरनुमत्याऽसलो निष्कासयामास / शत्रुजये महामहोत्सवं ध्वजारोपणपूजाप्रभावनादीनि कर्माणि समाप्य स्वनगर प्रति न्यवर्तत / तत्र चाभिनव जिनालयप्रतिष्ठाकार्यारम्भमकरोत् / एवमसौ गृहस्थाश्रमोपयुक्तानि धर्मकायाणि कृत्वा स्वज्येष्ठपुत्रं पोलाकं गृहव्यवहारकार्यभारवहनोचित विधाय शुभे मुहूर्ते द्विचत्वारिंशत्संख्याकैर्जनैः साई दीक्षितोऽभूत् / ततः परं तस्य ज्ञानकलशमुनिरिति प्रसिद्धिरासीत् / स्वस्य कुशाप्रबुद्धिबलेनाल्पेनैव समयेनासौ विविधभाषाविशारदः शास्त्रगूढरहस्यमर्मको विपश्चिद्वरेण्यो बभव / तपःसाधनकवतस्तपस्विनां मूर्धन्यधन्योऽसौ स्वयशो दिगन्तविततमकरोत् / तपःप्रभावोत्पन्नालौकिकज्ञानशक्तिः क्रमेणाऽभिप्रहपुरःसरं तपस्तप्तुं प्रयत्न चकार / तथाहि 1 एकदा रक्तवस्त्रालङ्कता काचित् सौभाग्यवती वनिता मे भर्त्सनपूर्वकं भिक्षा दास्यति तदैव पारणां विधास्थामीत्यभिप्रहमकार्षीत् / चतुर्विशतिदिनानन्तरमस्यायमभिप्रहः फलितः / 2 घनघटाच्छादितं नभोमण्डलमालोक्यैव मे पारणा भविष्यतीत्याकारकोऽभिप्रहः पञ्चचत्वारिंशदिवसानन्तरं सफलो बभूव / 3 भूमिपतिः स्वयमेव मां पारणाविधि निर्वतयेत तदैवाऽयमभिप्रहः संपूर्णो भवेदिति सोऽपि पश्चचत्वारिंशदिनैः सफलीभूतः। 4 अभिनवपाणिग्रहणविधिमङ्गलप्रन्थिबन्धनौ जायापती पारणां मे संपादयेतां तदा मेऽभिप्रहः फलिष्यतीति सोऽपि षोडशभिर्दिवसैः फलितोऽभूत् / / एवंविधैर्विविधैरभि हैः शरीरकायता प्राप्य शाणोल्लिखितमणिरिव वाह्याभ्यन्तरशुद्धिमान् सर्वजगन्मएडलं चमच्चकार / अणिमायैश्वरसाधारणमहामहिमशाली तापसव्रतानां चरमां सीमामवाप / किं दुष्कर तपस्विनाम् ! / येनाऽस्य तपःप्रभाववशीभूता देवा देव्यश्च सदेवास्य सन्निधिं स्थितास्तदभिलषितपूरणार्थब्रतोद्यता इवाभवन् / अन्येषां बौद्धमतानुयायिनां वामाचाररतानाञ्च किं वक्तव्यम् / ते तु तदीयाभिधानश्रवणमात्रेणाकुतोभयं स्थानमवलोकयामासुः। कालान्तेर बलाहकगोत्रीयेण लालाशाहेनानुष्ठिते महामहोत्सव उपकेशपुरे महावीरमन्दिरे श्रीदेवगुप्तसूरिणा स्वपट्टे प्रतिष्ठापितः / सम्प्रदायपरम्परानुसारेणास्य श्रीसिद्धसूरीत्यभिधानपरिवर्तनं कृतम् / / अथासावासाद्य सूरिपदं पूर्वाचार्याणामादेशमनुपालयन् मेदपादसौराष्ट्रकच्छसिन्धपञ्चालकुणाललाटकोकणावन्तिकाशौरसेनमत्स्यादिषु देशेषु स्वतपःप्रभावोत्पन्नदिन्यतेजसा सर्वान् दर्शनमात्रेणैव धर्माचरणसमवानकरोत / सर्वत्र वदीया विजयवैजयन्ती समुत्ससर्प / जिनसिद्धान्तसूर्योदयः सर्वान दिख स्वकीयधर्मापा

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150