Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ चानुष्ठितं भवेत्तदधिकतरं सुसमंजसं स्यात् / अस्तु / दुर्विषोऽस्मिन्कली सत्ययुगमाचरणेन सम्पादयते कुकुन्दा. चार्याय मे कोटिशो धन्यवादाः / संघाय मे शुभाशंसनमेवं धन्यवादश्च, यत आत्मकतापराधस्याङ्गीकारः सर्वथा दुःशक एव दृश्यते / ततः सूरीश्वरो नन्नप्रभसूरिमवोचत्-मान्यवर ! वयोवृद्धो ज्ञानवृद्धश्व भवान् स्वकीयकरकमलेन कुकुन्दाचार्यायाचार्यपदं समर्प्य मे कार्यभारं लघूकर्तुमर्हति / कुकुन्दाचार्यस्तु सप्रश्रयमगादीद् भगवन् ! आचार्यपदापेक्षयाऽचार्यचरणयोरुपासक एव भवितुमिच्छामि, अत्रैव मे महद्गौरवमिति मन्ये / तदीयं प्रश्रयोपेतं वचनमाकर्याचार्यों नन्नप्रभसूरिणा चतुर्विधसंघेन चाभ्यर्थित उभयोः सूरीश्वरयोर्वासःक्षेपपूर्वक कुकुन्दाचार्यमाचार्यपदे स्थापयामास / सर्वत्र च भगवतो महावीरस्य जयध्वनिना सर्वे संघस्था जना आचार्य तं सम्भावयामासुः। अथैवमाचार्यपदमहोत्सवं समाप्य श्रीसंघमाचार्यः श्रीकक्कसूरिरवदत-स्वनामधन्याः सर्व सदस्याः! श्रीसंघश्च पञ्चविंशतितमस्तीर्थङ्कर इति साभिमानं सप्रश्रयमहं मन्ये / येनात्र सर्वेषां श्रावकाणां पुरतो यत् किंचित् प्रतिकूलं वच उक्तमपि तत् सर्वैः क्षन्तव्यम् / अस्मिन् विषये साफल्यं न प्राप्स्यामीति मे सन्देहः परिहतो महानलीकिकश्चानन्दोऽनुभूत इति विनयमाहात्म्यप्रचुरमिदं वचः समाकर्ण्य श्रीसंघः कुकुन्दाचार्यश्च सूरीश्वरमचतुःअहो! धन्या वयमद्याचार्येणानुगृहीताः स्वकर्तव्यज्ञानं च लम्भिवाः किमधिकं महे गुरवो बहवः सन्ति शिष्यविचापहारकाः / गुरवो विरलाः सन्ति शिष्यसंतापहारकाः // यतो नगरमिदं स्वयमेवालकृत्योपदेशेन वयमज्ञानात्स्वस्वरूपं बोधिताः / एवं नन्नप्रभसूरिमपि विनयप्रणत्यादिभिः सम्भाव्य सभा विसर्जिता बभूव / कतिपयदिवसानन्तरं श्रीसंघ आचार्यत्रयस्य चतुमासार्थमभ्यर्थनामकरोत् / भाविलाभकारणं विज्ञाय तैराचार्यैरपि स्वीकृतम् / तत्र श्रीमालवंशीयो दुर्गाशाहः श्रीभगवतीसूत्रवाचनामहोत्सवमारभत / सपादलक्षं द्रव्यमस्मिन् धर्मकार्ये विनियुक्तम् / श्रीभगततीसूत्रं हस्तिन उपरि संस्थाप्य नगरयात्रामकारयत् / नीलमर कतपद्मरागाद्यैर्मणिभिः पूजाप्रभावनादिकं चकार / दूरदेशस्था जैनेतरा अपि लोकाः सूरीश्वरस्य तास्विकदार्शनिकादिविषयकं व्याख्यानमाकर्ण्य परमसन्तुष्टान्तरङ्गा / संसारस्य मिथ्यात्वं मन्यमाना आत्मश्रेयोऽनुसन्धाने मतिमादधुः / सर्वेषां भिन्नरुचीनां जनानां मनोरजनं नाम दुःशकम् / / तथाहि-स्तुवन्ति गुर्वीमभिधेयसम्पदं विशुद्धिमुक्तेरपरे विपश्चितः / इति स्थितायां प्रतिपूरुषं रुचौ सुदुलेभाः सर्वमनोरमा गिरः॥ तथापि महामहिमशालिना विपश्चितां तदेव वैशिष्टयं यत्सर्वचेतोऽनुकूलतापादनम् / अत एवोच्यते भवन्ति ते सभ्यतमा विपश्चितां मनोगतं वाचि निवेशयन्ति ये / नयन्ति तेष्वप्युपन्ननैपुणा गभीरमर्थ कतिचित्प्रकाशताम् // मधुरकोमलं वीणाशब्दं हरिणा इव सरसरमणीयं भावानुबन्धि विरक्तिरतिसंवर्धकं व्याख्यानमाकर्य बहवो जना दीक्षाद्यता बभूवुः / सर्व धर्माचरणसंसक्तहृदया अभूवन् / ___. अर्थकदा सूरीश्वरस्य मनस्येवमभूत्- यदहमाचाम्लसहितं षष्ठं तपो विदभ्याम् / कर्मपुञ्जक्षयार्थ तपःसमाराधनमेव श्रेयः / एवं विचारयति सा सच्चायिका प्रणतये समागता / सूरिश्च तां तपोऽनुष्ठानार्थ पप्रच्छ / भगवन् ! तपोऽनुष्ठानेन व्याख्यानादिना धर्मभावनाभिवर्धनमवरुद्धं भविष्यति / गच्छस्य सर्वब्यवहारभारश्च भववषीनोऽतोऽधुनाऽनावश्यकं वदिति देवीवचनमाकार्य यथाकथंचित् तां प्रबोध्य तयानुमोदितस्तद्रूतमन्वतिष्ठत् /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/8383c6b3dc6a5071255e3e57271ce3f02dc76b34233d2a4802d288b8555c85c9.jpg)
Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150