Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 88
________________ अत्याचार्यस्य शासनसमये विहायैकादशाग पूर्वाध्ययनस्याभाव एवासीत् / स्वयं च पूर्वद्वयाग्ययनस्तदीयमर्मज्ञश्चाभवत् / येन स्वपरगच्छीया बहवो मुनयोऽध्येतुमागच्छन् / पठताच तेषां मध्ये श्रार्यों देववाचकः परममेधावी विनयरुचिर्यस्मिन्नाचार्यो भृशमस्निात् / सूरेश्चेदृशी भावना यदसौ पूर्वद्वयाध्ययनं संपूर्णतया विध्यात् / परं देवमत्र प्रतिकूलम् / यतोऽनेन सार्धपूर्वमध्ययनं कृतमतः परं प्रमादो विहितः / प्राचार्येण मुहुर्मुहुर्दत्तोत्साहोऽसौ धृतिं न दधार / सूरिश्च चेतसि दुःखेनाशोचत्-महत्कष्टमिदं यद् दृष्टिवादश्चतुर्दशपूर्वाणां ज्ञानं च पात्राभावेनाचार्यचरणैः सहैवाभावं गतम् / अवशिष्टं च पूर्वद्वयज्ञानम् / प्राहकश्चैको देववाचकः सोऽप्यद्य प्रमादप्रस्तः, किमत्र विधेयमिति / मुनिर्ममलकुम्भो नाम तदासीयेन पूर्वमेकं मूलतोऽधीतम् / आचार्यश्च तमध्यापयामास तदर्थान् / यतोऽस्य देववाचकस्याभिरुचिरवर्धत / ततोऽनेन सार्धपूर्व सार्थमर्धश्च मूलतोऽधीतम्, एवमपि कृत्वा स्वधर्मशास्त्र संरक्षितम् / अद्य तु धर्मप्रन्थानां दाहो, ज्ञानं तु दुरापास्तमित्यहो साहसम् ! विहरणक्रमेणाससाद भरुचनगरमसौ सूरीश्वरः / तत्रत्येन/चतुर्विधेन संघेन च महता समारोहेण स्वागतं विहितम् / सकलजनमनोमोदकं धर्मरुचिसंवर्धकं सुविशदविचारचारु समुपासकानां परमसुखकरं व्याख्यानं दत्तमाचार्यवर्येण / ततः परं संघसमक्षमेव निम्नलिखितेभ्यः पदवीप्रदानेन द्विगुणितधर्मप्रचारप्रोत्साहनमकार्षात् / यथा मंगलकुम्मादिभ्य एकादशभ्य उपाध्यायपदम् / देववाचकादिभ्यस्त्रिभ्यो गणिपदं क्षमाश्रमणपदम् / देवसुन्दरादिभ्यः पञ्चदशभ्योः पण्डितपदम् / आनन्दकलसादिभ्यः पञ्चदशम्योः गणावच्छेदकपदम् / सुमतितिलकादिभ्यः पञ्चदशभ्यो वाचनाचार्यपदम् / एवं पदवीप्रदानं समहोत्सवं समाप्य सर्वान् तान् सर्वत्र धर्मप्रचाराय प्राहिणोत् / अन्ते च तत्रैव चतुर्मासो निर्धारितः / अन्येभ्यश्च समीपप्रामनगरेषु चतुर्मासार्थ प्रबन्धो विहितः / व्याख्याने दार्शनिकतात्विक योगसमाधिप्रभृतीन विषयानवलम्ब्य धर्मोपदेशो दत्तः,राजा तथा प्रजाश्च सोत्साहं श्रुत्वाऽत्मानं धन्यं मेनिरे। अन्यमतानुयायिनश्च जिनधर्ममङ्गीचक्रुः / तत्र विद्यमाना बौद्ध धर्मानुयायिनोऽपि निमिलितनयना शिथिलितधर्मप्रचाराश्चाभूवन् / तत आवन्तीदेशे विहरणक्रमेणोजयिनी-माण्डवगढ़-महेन्द्रपुर-दशपुरादिषु धर्मव्याख्यानादीनि कृत्वा मेदपाटप्रान्ते चित्रकोटाघाटपत्तनादिषु च विहरन्नसौ उपकेशपुरमगमत् / तत्र भगवतो महावीरस्य सूरीश्वरस्य श्रीरत्नप्रभसूरैर्देव्याः सच्चायिकायाश्च दर्शनं विधाय श्रीसंघमुपदेशनादिभिः संतानयामास | अनुमान्य च प्रार्थनां तत्रैवाबासीद् वर्षाणां चतुरो मासान् येन धार्मिकाणां महानलभ्यो धर्मलाभो जातः / एकदा भगवती सच्चायिकामपरोक्षरूपिणीमवादीदायुषो ज्ञाने / सा च भगवन् ! त्रयोदशदिनाधिकैः पञ्चभिर्मासैरेव पूर्ण भवदीयमायुरतो भवान् मंगलकुम्भायोपाध्यायपदविभूषितायाचार्यपदे स्थापयतु संघसमक्षमिति / श्रीसंघानुमत्या कुमटगोत्रीयेण वर्धाशाहेन समनुष्ठिते महोत्सवे सूरीश्वरस्तं सकलसमुचितगुणमङ्गलायतनं मंगलकलशमुपाध्यायमाचार्यपदे स्थापयामास / अभिधानमस्य श्रीसिद्धसूरीति परिवर्तितम् / . समाप्ते चतुर्मासवते ततो निर्गत्य खटकुम्पनगरमगच्छत् / कृतश्च सबहुमानमस्य सत्कारविधिः सर्वैः पौरः। अवशिष्टानि च द्वात्रिंशदिनानि / बारम्घमनेनानशनं येन सर्वे महहःखमनुवभवुः / अन्ते पाचपरमेधि

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150