Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 87
________________ समीपम् / संघश्च क्रमेण खटकुम्पं प्रति निववृते / सूरीश्वरश्च धर्मप्रचारार्थ सौराष्ट्र-सिन्धादिषु देशेषु विहरन पुनराजगाम शत्रुजयतीर्थम् / सम्पूर्णसमापितस्वधर्मप्रचारसंवर्धनप्रभावनकार्यः शाहदेवराजेन प्रारब्धे महामहो सवे परमधर्मरुचिं सकलशास्त्रविचारचारुचरितं गजहंसं स्वपट्टे स्थापयामास / परम्पराप्राप्तकमेणास्य श्रीदेवगुप्तसूरिरिति नाम चकार / ___ अथ नवोदितानवद्यप्रकाशविद्योदितजगन्मण्डलो भगवान् दिवसकर इव ज्ञानप्रकाशविद्योतकः सर्वत्राप्रतिहतगतिः समरे सुभट इवासी सूरीश्वरः पञ्चशतसंख्याकैर्मुनिभिः सह विहारं कुर्वन् बहुषु प्रान्तेषु क्रमशः धर्मप्रचारं सर्वतोभावेनाभिवर्धयन् खटकुम्पमाजगाम / अस्यैव नगरस्य सुपुत्रत्वात्सर्वसम्प्रदायमर्मकुशलत्वादाचार्यपदाधिरूढत्वाच्च सर्वे नागरिका अधिकप्रमोदमोदमाना अलौकिकमस्य स्वागतमकार्षुः। तदीयं च गभीरभावपूर्ण श्रेयःसाधकं व्याख्यानच्चाद्य सुधामपि मुधाऽमन्यत / पौराश्चात्मानं कृतार्थ मेनिरे / प्रशशंसुश्च तन्मातापितरौ धन्यमेव तयोर्जीवनमनेनेति / एवं सर्वान्सम्भाव्य ज्ञानामृतेन मरुधरप्रान्ते प्रामनगरेषु विहरन्नाचार्योऽसौ स्वकीयज्ञानप्रभावेणात्मसा. उचकारा / तदाज्ञां देवाज्ञा मन्यमाना नूतनानि जिनायतनानि निर्मापयाञ्चक्रुः / मुमुक्षवश्व बहवो जगृहुर्दीक्षाम् / इतरानपि जिनधर्मानुरागिणः कृत्वा महाजनसंघस्यातिशयमभ्युदयमकरोत् / अपरच पद्मावतीनगयो (पुष्कर). ' चतुर्मासस्थितौ शतत्रयपरिमितान् समागतान् सन्यासिनः शाने विजित्य श्रमणसंघस्यापि वृद्धिमकरोहीक्षादानेन / ततश्च वैदिकी हिंसा सर्वत्र सूरीश्वरप्रभावान्नामशेषतामाप / एकदाऽचार्यवर्यः सभायां यात्रामाहात्म्यमलौकिपुण्यपुञ्जप्रचुरं वर्णितवान् येन श्रेष्टिगोत्रीयोऽर्जुननामा मन्त्रिप्रवरः परमश्रद्धालुः समाप्ते व्याख्याने सप्रश्रयं तीर्थयात्रायै सूरिमभ्यर्थयामास / भगवन् ! भगवतो महावीरस्य निर्वाणभूमीभूतस्य श्रीसम्मेतशिखरस्य यात्रामहं भवदीयाज्ञामनुसृत्य कर्तुमिच्छामि / कः खलु श्रेयःसंपादने प्रतिबन्धकः स्यात् , शुभस्य शीघ्रमित्येव वरमिति तं तदर्थमन्वमन्यत / सर्वत्रामन्त्रणानि कृत्वा महान संघो मार्गशीर्षशुक्लत्रयोदश्यां शुभे मुहूर्ते यात्राभिमुखं प्रयाणमकरोत् सूरेरध्यक्षत्वे / क्रमेण तत्र गत्वा ध्वजारोपणाष्टाह्निकामहोत्सवपूजाप्रभावनादिभिः पुण्यैः कर्मभिः प्रक्षालितानि पातकानि / अनन्तरं चम्पापुरीपावापुरीराजगृहादीनां तीर्थस्थानानां यात्राब्च विधाय संघः पद्मावतीमाजगाम / प्रजिजनं पञ्चमिर्मुद्रिकाभिः सुवर्णमयीभिः संमानं कृत्वा दत्वा च दीनेभ्यो बहु दानं यात्राकार्य सुखेन सम्पादितमनेनार्जुनेन मन्त्रिणा। श्राचार्यवों देवगुप्तसूरिस्तु पञ्चशतसंख्यकैः शिष्यैः सह सम्मेतशिखरसमीपस्थेषु प्रामनगरेषु धर्मप्रचारमकार्षीत् / जिनधर्मानुरागिणां श्रावकाणामहती संख्या सम्पादिता / ते चाधुना सराकजातीया सच्यन्ते / ततश्च बङ्गदेशे विहृत्य हिमा लजिनालयानां दर्शनं विधाय कलिङ्गदेशेऽकरोद्विहारम् / तत्र चोदयगिरिखण्डगिर्योर्दर्शनं व्यधाद्यत्र भगवतः श्रीपार्श्वनाथस्य परम्परायां समागताः सर्व एवाचार्या मुहुर्मुहुः समागत्य धर्मप्रचारमकार्षुः / ततो विहरन्नसी श्रीपार्श्वनाथस्य कल्याणभूमिमात्मनाऽलंचकार, / स्पर्शनादीनि चात्र कृत्वा. कुरुपचालकुनालदेशेषु धर्मप्रचारार्थ विजहार / तत्रोपकेशगच्छीयाः साधवो धर्मप्रचाराय पूर्व संस्थितास्ते सूरिणा प्रोत्साहिताः स्वकार्ये / नूतनानि मन्दिराणि, प्रतिष्ठाः, अन्यमतानुयायिनामपि जिनधर्मेऽधिका रुचिश्च सम्पादिता / ततः सिन्धदेशमाययो सशिष्यः सम्मानितश्च स्वागतादिभिः / प्रथमन्तु मांसभक्षकाणां मांसाहारोऽहिंसाधर्मस्वरूप. ज्ञापनेन दूरीकृतः। परितश्च साधुभिरीदृशी धर्मभावना समुत्तेजिता यतो बह्वी संख्या जिनधर्मावलम्बिना समपद्यत / सिन्धदेशोपवनं धर्मोपदेशामृतसिञ्चितं सदाचारफलं परं रामणीयकमवापेत्यत्राऽसौ सूरीश्वर एव मुख्यं निदानम् / सम्पाद्य च धर्मरुचिं लोकानां कच्छदेशमगात् / तत्रापि धर्मोपदेशेनाभिनवां धर्मभावनामुद्वोध्य सौराष्ट्रदेशमयासीत् / तत्र सर्वत्र विहरन्नसो क्रमेण श्रीशत्रुजयतीर्थमाजगाम / दर्शनयात्रादिकं विधायाक्षयो लाभः समासादितः।

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150