Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 72
________________ एवं वस्तुतत्त्वविवेचनक्षम व्याख्यानमाकण्यं को नाम मुदं न प्राप्नुयात् / अस्यैव प्रभावेण पैराग्परागरजितान्तरङ्ग; ठाकरसिंहो मात्रा पित्रा भार्ययाऽन्यत्रयोदशभिः श्रावकैश्च सह दीक्षामग्रहीत / ततश्चासौ अंशोकचन्द्रमुनिरिति प्रसिद्धिमगात् / सूरीश्वर श्यैनं सर्वागमतत्वसंग्रहणक्षममाघार्यगुणगणरुपशोभित सिद्धसूरीति नाम्ना पट्टेऽस्थापयत् / श्रीसिद्धसूरि: देव्याः सच्चायिकाया अनुमति प्राप्य दक्षिणस्यां दिशि धर्मप्रचाराय जगाम / तत्र प्रामनगरेषु विहारक्रमेण सर्वेभ्यः श्रावकेभ्यो धर्मोपदेशं कुर्वन् मानखेटनगरमाससाद / सर्वोपासकानामादरातिशयवशात्तत्रैव चर्तुमासाषस्थानमङ्गीचकार / सर्वागमरहस्यपूर्णानि व्याख्यानानि तावदवधिकं कृतानि / येनात्राष्टभिर्जनैर्दीक्षा गृहीता। ततश्च विहत्य क्रमशो मदुरामागच्छत् / यशोदेवश्रेष्ठी भगवतो महावीरस्य मन्दिर निर्मापितवान् / तस्य प्रतिष्ठामहोत्सवः सरेरेवाध्यक्षत्वे जातः / प्रतिमा च शुभे मुहूर्ते वरदहस्तेन स्थापिता। ततश्च महती श्रमणसभा कारिता। तत्र कर्तव्यज्ञानमुपदिश्य, समुचितेभ्यः पदवीप्रदानमपि कृतम् / विरक्तिजनकव्याख्याने नात्रापि द्वादश भावुका दीक्षा स्वीचक्रः / ततो विहरन् सौपारपत्तनमेत्य चतुमोस समाप्य दीक्षितानकार्षीदष्ट भावुकान् / एवं दक्षिणस्यां दिशि सर्वत्र प्रामनगरेषु विहारं कृत्वा सर्वतोभावेन धर्मप्रचारमाधाय शिष्यमण्डलसहितः सूरीश्वरो रैवताचलं विहारक्रमेणाजगाम / तत्र श्रीमद्भगवतो नेमिनाथस्य यात्रां चकार / अथैकदा तन्त्र योगिनां महान संघः समागतः। तत्रैकस्तरुणवयास्तापसोऽधिगतविद्योऽपि सर्वथाऽत्मानं पण्डित मन्यमान आसीत् / कदाचित्सूरीश्वरस्य साधारणः कश्चित् शिष्योऽन्यैः साधुमिः सार्द्ध पहिः शौचादि निवर्तयितुमगमत् / भाग्यवशादसावपि मध्ये संगतः / ततो विद्वदप्रेसरस्तापसो मुनिमवादीत्-मुने ! भवदीयधर्मस्य कस्तावन्मुख्यः सिद्धान्तः ? .. मुनि:-अस्मदीयधर्मस्य स्याद्वादो नाम प्रथमः सिद्धान्तः / अपरमपि तस्य नामानेकान्तवादः / तापस:-प्रथम तस्य स्वरूपं विवेचयतु / / मुनिः-वस्तुन्यनन्ताः धर्माः, यत्रैकमेव धर्ममुश्श्यि कथनमसौ स्याद्वाद इत्युच्यते / . तापस:-सोपपत्तिकमुदाहरणमपेक्षितमत्र / मुनिः-यथा एकस्यामेव वनितायां मातृत्वस्वसृ त्त्वपुत्रीत्वभार्यात्वादयोऽनेके स्वभावाः / तत्र मातेय. मिति मातृत्त्वज्ञाने पुत्रस्यापेक्षाऽपेक्षितव / अपरञ्च तत्र मातत्वे निर्धारितेऽपि स्वसृत्वादयो धर्मा नेवापलपितुं शक्याः अन्येषामपेक्षया तत्र स्वसृत्वादीनां विद्यमानत्वाद / एक यस्मिन् वस्तुनि वर्ण्यमानेऽन्येऽपि तत्रान्यापेक्षया विद्यन्त एव धर्माः। यथा-श्रात्मा ज्ञानवानित्युक्ते ज्ञानस्य विद्यमानत्वेऽपि दर्शनादीनामन्येषां सत्ताऽस्त्येव / १-तापसः-भवन्मते को नामात्मा ? किमस्य स्वरूपम् ? २-मुनिः-आत्मा तावन्नित्योऽक्षयः सच्चिदानन्दोऽसंख्यातः प्रदेशी शाश्वतो नित्यं द्रव्यम् / ३-तापसः-यद्ययमात्मा नित्यः शाश्वतं द्रव्यमित्युच्यते तहिं जीवस्य जन्म मरणश्च कथमुपपद्यते ४-मुनिः-न जायते म्रियते वा कदाचिन्न हन्यते हन्यमाने शरीरे / ___ अजो नित्यः श्वाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे // तापस:-कथमत्र निश्चीयते ? प्रत्यक्षन्तु तथैवोपलभ्यतेऽयं जायते म्रियते / लोकव्यवहारेऽप्येवं व्यवड़ियतेऽयं मृतः अयमुत्पन्न इति / ___ मुनिः-अस्तु / व्यहरन्ति सर्वे तथैव / किन्त्वेतत् स्थूलशरीरापेक्षयैवाभिधीयते / कर्मण उदयादस्य शरीरप्राप्तिः। ततश्चायुषा सहसंबन्धोऽपि / तस्य स्थिती समाप्तायां पूर्वशरीरं विहायान्यदाश्रयति शरीरमेवमस्य

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150