Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 74
________________ [ 56 ] एवमादिन शास्त्रतत्वावबोधनेनात्मकल्याणमार्गोऽस्मै उपदिष्टप्रायः / द्वितीयश्चास्माकं सिद्धान्तः-अहिंसा परमो धर्मः / ज्ञानस्येदमेव मुख्यं प्रयोजनम् / अतो जिनागमपरायणाः साधवः सजीवमनुष्णीकृतं जलमग्निं बनस्पतिश्च नैव स्पृशन्ति / आत्मकल्याणसाधकस्यायमेव प्रधानतमो मार्ग इति / येन च धर्माश्रयणेन तदात्मकल्याणं शक्यं साधयितु स एव निष्पक्षपातेनादरणीयः / अत एव जिनागमे सुव्यक्तमेवावगम्यते / सुच्चा जणइ कल्लाणं सुच्चा जणइ पावयं / उभयपि जाणइ सोचाजं सर्व समायरे // स एव धर्मः सत्यदयादानक्षमादिभिरूत्पद्यते, वर्धतेऽवस्थाप्यते च / यथा सत्येनोत्पद्यते धमा दयादानेन वर्धते / क्षमयाऽवस्थाप्यते धर्मः लोभक्रोधाद्विनश्यति // एवं मुनिनिरूपितं जिनागमतत्वं निरुप्याऽसौ तापसस्तेन सहैव गुरुसमीपमगच्छत् / अन्येऽपि तापसास्तत्र तेन सहैव.समायाताः / अयमेव श्रेसः पन्था इति निश्चित्याचार्यसमीपे शुभे मुहूर्ते एकादशभिस्तापसैर्दीक्षा गृहीता तेन तापसेन / अत्र भगवतः सूरेरेव प्रधानः प्रभावः / तस्य तापसस्य शान्तिमूर्विनाम परिवर्तितं सुरिणा / पूर्वमेव कृतशास्त्रपरिश्रमोऽल्पेनैव समयन जिनागमशास्त्राण्यधीत्य सर्वशास्त्रार्थपारगो बभूव स मुनिः / अथ सूरिरसी सौराष्ट्रदेशादारभ्य सर्वत्र विहारेण धर्मसंवधनप्रयोजकानि कर्माणि सम्पादयन् क्रमेण माण्डव्यपुरमाससाद / तत्र श्रीष्टगोत्रीय : पारसशाहो महामहोत्सवं विधाय सूरेः स्वागतं चकार / अन्तिमवतुर्मासश्वात्रैव कृतः। स्वायुषोऽस्थैर्य परिलक्ष्य शान्तिसागरमुनि रत्नप्रभसूरीति नाम विधाय स्वपट्टे स्थापयामास / स्वयमेकोनविंशतिदिनान्यनशनं कृत्वा समाधियोगेन महाप्रस्थानमकरोत् / देव्याः सच्चायिकायाः परामर्शनावगतं संघेन यदसौ सूरीश्वरः पञ्चमं स्वर्गमारूढः / महाविदेहक्षेत्रे च मनुष्यजन्मोपभुज्याऽसौ मुक्तिमेष्यतीति / सूरिरयं स्वस्य शासनकाले सर्वतोमुखप्रयत्नेन धमाभ्युदयाय परिकर आसीत् / परितो धर्मप्रचारेण जिनधर्मस्य पूर्णतया मूलदाढ्य कृतवान् / पट्टावलीकारेण विस्तरतो वर्णितमस्य चरित्रमतो प्रन्थगौरवभिया विरम्यतेऽत्र / संक्षेपतः श्रय ह्याचार्या महान् युगप्रवतेको बभूवेत्यलं पल्लवितेन / [वि. सं. 400 तः] 31 प्राचायः श्रीरत्नप्रभसूरिः। (षष्ठः) [वि० सं० 424 प०] ___ श्रीसिद्धसूरिपट्टे तप्तभट्टगात्रोद्भवो रत्नसन्निभतेजोमूर्तिः काव्यकलाकोविदः श्रीरत्नप्रभसूरिः शंखपुरवास्तव्यः समायातः / अस्य पिता महावैक्रयिक आगमप्रदर्शिताचारनिपुणो धन्नाशाहः पूर्वजन्मकृतपुण्यप्रभावान्नानावस्तुजातव्यापारेणापरा धनाधिप इव सर्वत्र कीर्विमवाप / माताऽस्य धर्मपरायणा फेंफादेवी / तयोरयं सूनुर्भीमदेवः / एकदा सवयोभिः सुहृद्भिः पर्यटनसमये दीर्घकायं महाभुजङ्गस ददर्श / मिथो वार्तालापनिमग्नाः सर्वे मार्गमध्यपतितं तमदृष्ट्वाऽगताः / यदा भीमदेवेनेदं ज्ञातं तदा विचारितम्-अहो ! अद्य करालकाल इव व्यालो दृष्टः / भाग्यादेव जावनं रक्षितम् / एवं चन्चलेऽस्मिन् जीवने को नाम विश्वासः / अत आत्मश्रेय एव विधातव्यम् / येन निरुपद्रवा शाश्वती शान्तिः स्यादिति विमृशन्नसो गृहमागत्य मातापित्रोरप्रे सर्पवृत्तान्तं न्यवेदयत् / वाभ्यामसो सावधानत्वेनोपदिष्टः / किन्तु विगतसंसाराभिलाषोऽयं सर्वथाऽत्मचिन्तनेन दिनान्यत्यवाहयत् / इतश्च तस्यैव सद्भाग्यवशादाचार्यः श्रीसिद्धसूरिः शंखपुरमाययो / सर्वश्रावकसमम्पादितस्वागतसत्कारोऽसौ संसारसंसरणभजिकां दशनां ददो यथा- असंखयं जीवियमापमा यये जरोवणीयस्सह णस्थि ताणं / एवं वियागाणि जणे पमचे करण विहिंसां अजय गहिति / /

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150