Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 60
________________ [ 45 ] मानुषं जन्म" एतद्विषयोपरि हृदयंगमं व्याख्यानमदात् / सर्वजनचेतश्चमत्कारजनक सरिषचा श्रुत्वा, सविनयं तं प्रणम्य सर्वे स्वस्थानमाययुः। कोकरावो राजा धरणं सहैव नीत्वा राजभवनं विवेश / एकान्ते च तो मिथो वार्तालापे समासक्तो बभूवतुः / राजा तमाह-सखे अद्य सरिणा यदुक्तं तत्तत्वतस्तथैव मां भाति / धरणः प्राह-ममाऽपि सैव भावना प्रबलतरा यदात्मश्रेयोऽनुसंधानम् / ततो राज्ञा प्रोक्तम्-किं विचारेण / शीघ्रमेव कर्तव्यमनुचिन्तय / श्रुस्वैवं स धरणोऽवादीत्-किन्त्वेका तृष्णा मां भृशमेव परिवाधते / सम्यगवधारिततदीयमानसो राजा तमगादोत्-मो गृहाणेदं राज्यम् / ततस्तेनोक्तम्-राजन् ! जानाम्यहं राज्य नाम विविधानां नरकाणां द्वारं तत्कथमहमङ्गीकुर्याम् / अस्तु सायमेवावां सूरिसमीपं गमिष्याव इति निश्चित्य धरणः स्वगेहमव्रजत् / अथ राजाऽचिन्तयत् अहो सत्यमुक्त राज्य नाम नरकद्वारमिति धरणेन, अहं कदाचिद्राज्यं त्यक्ष्यामि, कदाचित्तदपिमां त्यक्ष्यतीति निश्चितमेव किमर्थमेवं चञ्चले बस्मिन्निमग्नः 1 एवं बहुविधं विचार्यासौ वैराग्ये दृढमना बभूव / ततः सायमुभौ मिलितौ कृतनिश्चयौ मरिसमीपमेत्य मनोगतं निवेदयामासतुः / सूरिश्च राजानमुद्दिश्याह-राजन् तव तु राज्याधिपतित्वं किन्तु सवऽस्मिन् विश्वस्मिन् चारित्रापेक्षया न किमप्यतिरिच्यते / भरिप्रभावश्चकवतिभी राजभिश्चारित्रग्रहणोद्यतैः क्षणेनैव राज्यसमृद्धिः सुदरमुत्क्षिप्ताऽभूत् / नचायुषो विश्वासः, अत एव शुभस्य शीघ्रत्वमेव न्याय्यम् / ततस्तौ सूरिं नत्वा गृहमागच्छताम् / राजा कोकरावो ज्येष्ठं पुत्रं राहुपं राज्येऽम्यषेचयत् / तदनन्तरं तावुभौ सूरिपार्श्वे दोबामगृहीताम् / गोसलशाहेन मन्त्रिणाऽत्र दीक्षामहोत्सवः कृतः। सिन्धप्रान्ते राज्ञो रुद्राटस्यानन्तरं द्वितीयं दोक्षाग्रहणमनेनैव सम्पादितमिति दृष्टव्यम् / तस्मिन् दीक्षाकाले पञ्चत्रिंशत्परिमिता जना अपि दीक्षां प्रापिताः सूरिणा / दीक्षानन्तरमसौ धरणो जयानन्दनाम्ना, कोकरावश्च कल्याणभूतिनाम्ना विश्रुतौ / जयानन्दमसौ सरिः निखिलागमतत्वानि क्रमेणाध्यापयत् / परमप्रतिभोपपमोऽसौ गुरुप्रतिपादितोपदेशशिक्षाग्रहणमननधारणपटुरस्पेनैव कालेन विद्वज्जनमण्डलालङ्कारचूडामणिभूव / अथ क्रमेण विहरन्नसावाचार्यों नागपुरमागच्छत् / तत्र क्रमशो विचार्यमाणे स्वनिधनकालं समीक्ष्य देवी सच्चायिकाकथनानुरूपं जयानन्दं सबेलक्षणलक्षण्यं यक्षदेवसूरीति नाम विधाय शुमे मुहूर्ते स्वपट्टऽस्थापयत्। श्रीसंघेनात्र महामहोत्सवः संमानितः / अस्मिंश्च भव्य समारंभे प्रमोदमोदमानमानसेनादित्यनागगोत्रीयेण भेराशाहेन लक्षत्रयपरिमितं द्रव्यं विनियुक्तमभत् / आचार्यः श्रोरत्नप्रभसरिः सप्तविंशतिदिनान्यनशनं विधाय समाधिसंस्थोऽनश्वरं देहमुत्ससर्ज। अथ श्रीयक्षदेवसरिराचार्यः स्वकर्तव्यानुपालनमुद्दिश्य नागपुरान्निर्गत्य क्रमेण मेदिनीपुरमुग्धपुरादिषु ग्रामनगरेषु धर्मभावनामुपदेशेन संवर्धयन्तत उपकेशपुरमाययौ। नवोद्यतं चन्द्रमण्डलमिव नूतनमाचार्यमवलोकयितु समुत्सुकमानसाः सहर्षे तं जना महता स्वागतेन संमानयामासुः। आचार्यचरणशुश्रूषणशुद्धहृदयास्तेऽलभ्यं व्याख्यानामृतोपदेशं सुधालाममिव मन्यमानास्तृप्तिं नाध्यगच्छन् / अत एवोक्तं श्रेयसि केन तृप्यते / ततः सर्वेभ्यो धर्मलाभाशिषा संभाव्य विहरन् माण्डव्यपुरमलंकृत्य धार्मिकी भावनां श्रावकाणां प्रबलयन् ततः पाल्हिकानमरीमाजगाम / अनतिप्राप्ताचार्यचरणशुषमा

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150