Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 68
________________ कषायचतुष्टयाधीनमनस्कैन कदापि भवितव्यम् / प्राप्तेष्वपि संयमनेन तद्विनोदनोपायः कर्तव्यः / एवमेव शनैः शास्त्राणां श्रवणेन गुरूणामुपदेशेन, धर्मकर्माचरणेन च शाश्वती कल्याणसाधिका, आत्मोन्नतिर्भवति, / अथ वरदतो गृहं गतोऽचिन्तयत्-अहो मदर्थमेव महानयं संघे कलहो जातः / अस्तु / तथापि कि नामात्र मया प्राप्तम्, यच्च प्राप्तव्यं तत्तु नैवात्मकल्याणमासादितमतो धर्मदीक्षयैवात्मन उद्धारं करोमीति निश्चित्य स्वकीयं दृढं निश्चयं सूरिसमीपे स्फुटमवोचत् / सूरिरपि कल्याणसाधकमेव निश्चयमनुमान्य सप्तभिः श्रावकैः सहितं दीक्षयामास / ततः पूर्णानन्देत्यभिधानं प्राप्य क्रमेण गुरुकृपासमासादितशास्त्रवैदग्ध्यः तपःप्रभावोत्पन्नज्ञानचक्षुः शास्त्रार्थचातुरीविरसीकृतविद्वजननिकरो योग्योऽयमिति सूरिणा विचार्य देवगुप्तसूरीति नाम्ना स्वपट्टे प्रतिष्ठापितः / ___पट्टपदमलकत्यैव पूर्वाचार्यपरम्पराप्राप्तधर्मप्रचारकर्तव्यैकमानसः सूरिरसौ विहरणक्रमेण महदेव विहारस्य क्षेत्रं सर्वतोभावेन पूर्णविकसित व्यधात् / शिष्यमण्डलं सम्यग् विभज्य सर्वत्र धर्मप्रचाराय प्रेषयामास, स्वयमपि तथैव विहारपरिपाटीमुररीचकार / यस्य शिष्यमण्डलमेव कार्यक्षममासीत् तस्य कार्यभारे सौकर्यन्तु स्वाभाविकमेव, शिष्यसमुदाये देवप्रमनामामुनिराकाशगामिविद्यापारगामी, योनिप्रभृतशास्त्रनिपुणश्वासीत् / स च प्रत्यहं शत्रुब्जयतीर्थयात्रां विधायान्नं जलं पागृहात् / एकदा शत्रुजययात्रार्थ गच्छतः संघस्य म्लेच्छैः सहाक्रमणप्रसङ्गोजातः / तेन देवप्रममुनिनेदमवगतं तदा स्वविद्याबलेनासंख्यकान् योधानुद्भाव्य यवनान् पराजयत, पराजितास्ते शत्रुब्जयतीथऽपि संघं त्रासयामासुः / सुष्ठक्तं खलु-शाम्येत् प्रत्यपकारेण नोपकारेण दुर्जनः। एवं रक्षितजीवना मध्य एव त्यक्ताः, पुनरुपद्रवायोग्रताः, ततोऽसौ मुनियाघ्ररूपं, निर्माय कांश्चित्पातयामास, कांचन प्रजहार, अपरान् विदारयामास / संघश्च दुःखादुन्मोचितः / प्राप्ताया विद्यायाः परोपकारेणैव कृतार्थता भवति / या तदर्थमेवाधिगता सैव प्रभूतपुण्यसंचयमासादयति / अत एवोच्यते विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय / खलस्यसाधोविपरीतमेतद् ज्ञानाय दानाय च रक्षणाय // द्वितीयः सोमकलशनामा सरस्वतीप्रदत्तवचनसिद्धिरूपवरप्रदानयुक्तः तृतीयश्च गुणनिधानो वचनलब्धिसमन्वितश्चाभूत् / सूरेश्चतुर्थः शिष्यः पुरन्धरहंसो नाम वाचनाचार्यः / असो वाचनाकार्ये परं प्रावीण्यमुपागतः स्वगच्छीयान्न केवलम् , अपि तु भिन्नगच्छीयानपि साधूनागमवाचनां कारयामास केवलमागमवाचनां प्रदाय ज्ञानप्रचार एवास्य मुख्य उद्देशोऽभूत् / - एवमादयो बहवः शिष्याः परममेधाविनः शास्त्रचर्चाविद्योतितदिग्विभागा आचार्यस्यैव महती कीर्ति दिगन्तगामिनीमकार्षुः / शिष्योत्कर्षणाचार्यस्यैवोत्कर्षः सर्वत्रैव दृष्टचरः। कविकुलगुरुणा कालिदासेनेदं स्फुटमुक्तम् / सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः, संभावनागुणमवेहि तमीश्वराणाम् / किं प्राभविष्यदरुणस्तमसां विभेत्ता, तं चेत्सहस्त्रकिरणो धुरि नाकरिष्यत् // अथ सूरीश्वरो मरुधर-लाट-सौराष्ट्र-कच्छ-सिन्ध-पञ्चालादिषु देशेषु धर्मप्रचारं कुर्वन् चित्रकूटमाजगाम / श्रीसंघेन सालिबन्धमभ्यर्थितस्तत्रैव चतुर्मासमकरोत् / सर्वागमसाररूपाणि दार्शनिक-तात्विकादिविषयकाणि व्याख्यानानि विधाय जिनधर्मे दृढामास्थामभिवर्धयाञ्चकार / तत्र मेदपाटप्रान्तीया अन्ये च भूमिपतयः सूरीश्वरस्य न्याख्यानैः संप्राप्तधर्मसंस्काराः ठाकरशौश्रावकेण सूररुपदेशादामन्त्रितायाः श्रमणसभायाः कार्यभारनिर्वाहका

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150