Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 59
________________ [ 44 ] शाखे। यचोदरदरीपूरणार्थमेव क्रियत इदं भोजनमगणितपापपांशुलं किं तेनैव यावज्जीवं भविष्यति तृप्तिः।। साञ्जलिबन्धमहं भवद्भयो भूयो भूयः प्रार्थये-शृण्वन्तु सार्वजनीनमिदं शास्त्रवचनम् / न हिंसा सदृशं पापं त्रैलोक्ये सचराचरे / हिंसको नरकं गच्छेत् स्वर्ग'गच्छेदहिंसकः // तत्किं निरयमात्रफलकमिदं मांसभोजनं कुर्वन्ति भवन्तः / नायं मनुष्याणामाहारः / राक्षसानामेष रुधिरप्रियाणामाहारः / यस्मिन् परमपवित्रचरित्रचित्रीकृते कुले महावीररामचन्द्रादयो महावीराः समुत्पन्नास्तत्रैव सर्वाभयप्रदानदीक्षिते यस्मिन् कुले रक्षका एव भक्षका भवन्तीति किं नाम महत्कष्टं सर्वजनोद्वेगकरं न स्यात् / अनवरतमदमदिरोन्नतास्ते तं भृशमुपहसन्तोऽब्रुवन्-भो धर्मप्रिय ! आपणं गत्वा गान्धिकस्तैलिको वा भवितुमर्हसि, न क्षत्रियोचितं समराङ्गणे वीरोचितं क्षत्रधर्ममाचरितुते शक्तिः / एवं स्वार्थकलुषितचेतसां मदोद्धतानां तेषामपमानजनकं वचनमाकयासौ भूयस्तानगादीत्-किं मांसभोजिनामेव क्षत्रियाणां राज्यपातिर्जगतीतले दृष्टचरा ? पूर्वस्मिन् काले बहवोऽलौकिकपुरुषार्थप्रभावेण दिगन्तविश्रुतकीर्तयो भव्यभावनोपपन्नामानसाः क्षत्रियवंशोमवा राजानः प्रबलतरान् शत्रूनपि पराजयन्त, ये शत्रवस्तेषां नामश्रवणमात्रेण विभ्यमाना यत्र कुत्रापि पलायनं चक्रुः / अपरञ्च नाहं चक्रवर्तित्वमभिलषामि / तत्र खलु सम्पदामुपभोग एव प्रधानं फलम् / उक्तं च केनापि सुकृतिना-लक्ष्मास्तोयतरङ्गभङ्गचपला * विद्युत्समं जीवितम्-इति विनश्वरं वस्तु विहाय शाश्वते वस्तुनि रुचिरुचिता सर्वार्थसाधनक्षमा कथंकारं न विधेया ? यत्र चात्मदृष्टान्तेनावगम्यते--प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा / आत्मौपम्येन सर्वत्र दयां कुर्वन्ति साधवः / इदमेव सूक्ष्मेक्षिकया क्षणं विचिन्त्य सार्वजनीनसुखसम्पादनक्षमः-अहिंसा परमो धर्म इति प्रधानभूतं तमेव सर्वभावेन भावयन्तु भव्या अत्रभवन्तो भवन्तः स्वान्ते स्वकीये / एवं मननीयं विचारचारु धरणेनोक्तं सर्वमेव विचार्य ते स्वकर्तव्यं प्रतिपन्ना बभूवुः। अथासौ धरणो मातुलगृहात्स्वगृहमाजगाम / तस्य चेतसि नवराज्यस्थापनेच्छा सर्वतोभावेन जागृता पूर्वकृतापमानप्रसंगेनेन / कदाचिद् वीरपुरं नगरं केनापि बलवता शत्रुणा सहसाऽक्रान्तम् / धरणस्य पिताऽमात्यो गोशलशाहः समरोद्यतो बभूव / ततो धरणोऽसौ सेनापतिपदे कार्य कर्तु सज्जीबभूव / राजाऽत्र विषये संदिग्धमानसोऽभूत् किन्तु तेनैव वचनबलाद् विश्वस्तः कृतः। अथ प्रवृते भीषणे समरभूमौ संग्रामे दुःसहविक्रमबलेन धरणेन शत्रुः पराजितः शीघ्र पलायितो, येन मुदितमनसा राज्ञा सप्त ग्रामाः धरणाय पुरस्काररूपेण प्रदत्ताः। एकदा प्राक्तनपुण्यवलपमावाद् भवार्णवपारङ्गमनौवाहकः करुणावलयः श्रीरत्नप्रभसूरिराचार्यः क्रमेण विहरन् पादारविन्दचंक्रमणेन वीरपुरं पावयामास / सूरीश्वररस्यागमनं विज्ञाय पौरा: प्रमुदितमानसा अलौकिकसमारोहेण नगरप्रवेशमकारयन् / अथ धर्मागममर्मपारगः सूरिरेकदा "दुर्लभं

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150