Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 55
________________ [ 40 ] एवं विचारीमाणस्यास्य जिनदेवताचिन्तने जाते कैवल्यं ज्ञानं प्रकटितम् / सद्य एव साधुभूतस्ततोऽष्टादशयोजनपरिमितात्स्थानाद् दूरेऽटव्यां बलभद्रादयः पञ्चशतसंख्यकाचौराः सन्तीत्युपश्रुत्य तदुद्धारार्थ तत्रागमत् / ते चौरास्तु तं गानार्थ न्यवेदयन् / तेन च जिनधर्मागमानुरागिणा ज्ञानिनाअधुवे असासयम्मी संसारम्मीदुकख पडराए / किं नाम होजतं कम्मर जेणाहंदोग्ग इंनगच्छे जा // इयं प्रतिबोधिका गाथा गीता / चौराश्च क्रूरकर्माधभिग्रहेण मुक्ताः सन्मार्गबोधिता दीक्षामगृह्णन् / ___एवं धर्मरतिप्रवर्धनक्षमामाख्यायिकां समाकण्य विरक्ताः पञ्चाशत्परिमिताः श्रावका श्राविकाश्च दीक्षोद्यता बभूवुः / तान् दीक्षितान् कृत्वा स आचार्यो मरुधरप्रांते विहरन् क्रमेण नागपुरमयात् / तत्रादित्यनागगोत्रीयेण कानडशाहेन निर्मापिताया भगवतः पार्श्वनाथस्य प्रतिमायाः प्रतिष्ठा कृता / व्याख्यानादिना सर्वे पौरा धर्माचरणेऽधिकां रुचिमापादिताः। ततोऽसौ सूर्लािट- . सौराष्ट्र-कच्छ-सिन्ध-पाञ्चाल-शौरसेनादीन् पूर्वस्यां दिशि च अङ्ग-ग-मगध-कलिंगादिदेशान् विहरणेन व्याख्यानेन धर्मप्रचारपरिपूर्णामृतोपमोपदेशेन च जिनधर्माधिकोत्सुकान् सत्पथानुसरणशीलांश्चकार / तत आचार्यों मथुरामाससाद / तत्र समारोहपुरःसरं नगरं प्रवेशितः। कुलभद्रगोत्रीयेण कोट्यधिपेन ढड्डरशाहेन स्फटिकरत्नमयी पार्श्वनाथस्य प्रतिमा, अन्याश्च शतत्रयप्रमिता धातुमय्यः पाषाणमय्यश्च मूर्तयो निर्मापिता आसन् / सूरीश्वरस्य वरदहस्तेन तासां प्रतिष्ठापनविधि महता समारोहेण स श्रेष्ठी कारयाश्चके / नवलक्षप्रमिता रूप्यका अत्र श्रेष्ठिना धर्मकार्य उपयुक्ताः / ___ततः सच्चायिकादेवीवचनानुसारेण सर्वशास्त्रसंपन्नं निखिलव्याख्यानकलाकोविदं गुणतिलक सूरिः स्वपट्टेऽस्थापयत्। श्रीरत्नप्रभसूरिति नामधेयेन तं भूषयामास / अन्ते मथुरायामेवानशनं विधाय पञ्चपरमेष्ठिमहामन्त्रस्मरणपूर्वकं शरीरमुत्ससर्ज। वि० सं० 268 तः] 26 प्राचार्यः श्रीरत्नप्रभसूरिः (पञ्चमः) [वि० सं० 320 प. श्रीसिद्धसरिपट्ट' चारुचरित्रचित्रीकृतमनुजमानसो विद्वजनमण्डलीमण्डनीभूतः श्रीरत्नप्रभसूरिः समायातः / असौ सौपारपुरवास्तव्यो भद्रगोत्रीयश्चासीत् / सौपारपुरे धनाढ्यवर्यस्य देदाशाहस्य राणा-साहरण-लुम्बाशाहाख्यास्त्रयः पुत्रा बभूवुः / तत्र राणाशाहेन सप्तवारं सम्मेतशिखरपय॑न्तानां तीर्थानां संघायोजनं कृत्वा यात्रा विहिता। द्वितीयेन च साहरणेन शत्रुञ्जयपर्वते चतुरशीतिसख्याकोपमंदिरयुक्तो भव्यो भगवतो महावीरस्य देवालयो निमापितः / तृतीयेन लुम्बाशाहेन च सौपारपत्तने चतुरशीत्युपमन्दिरयुक्तो भगवत. आदीश्वरस्य रमणीयो जिनालयश्च निमार्पितः / सजातीयाश्च सुवर्णमुद्रिकास्वर्णपात्रप्रदानेन, तथैव श्रीसंघश्च सत्कृतः। एवं सर्वथा धर्ममयैकजीवनमिदं देवाशाहस्यकुलं विख्यातयशश्चासीत् सर्वत्र /

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150