Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [28 आसन् / आचार्यस्य दक्षिणापथे विहारेच्छां ज्ञात्वा संघस्तीर्थयात्रा सम्पाद्य प्रतिनिवृत्तः / देवाशाहेन च संघस्थितेभ्यो जनेभ्यो बहुमानपुरःसरं प्रतिजनं पञ्च मुद्रा उपहारीकृताः / संघश्च विसर्जितः / अथाचार्यस्तु महाराष्ट्रदेशे विहरन् सशिष्यो नन्दपुर-पिष्टपुर-गुडतुरादिषु नगरेषु जिनधर्मप्रचारं कुर्वन् श्रीसंघस्यामन्त्रणमनुमान्य मानखेटनगरे चतुर्मासमकरोत् / महाराष्ट्रप्रान्ते बहवों जैनधर्मस्य दीक्षां प्रापिताः / इतरे च धर्मरहस्यं बोधिताः / अत्र सरेराज्ञां प्राप्य पूर्वमेवागताभ्यां देवभद्र-वीरभद्राभ्यां बौद्धमतानुयायिनो वेदान्तिनश्चाद्वितीयशास्त्रार्थबलेन पराजिता आसन् / आचार्यस्यागमने हेम्नः परमामोद एव / लोहित्याचार्येणात्र पुरा जिनधर्मलताबीजं निक्षिप्तमासीत् / ततो विहरद्भिरन्यैराचायैस्तद्वीजं धर्मप्रचुरव्याख्यानैः सिञ्चितमाचार्येण रत्नप्रभसरिणा च वर्षद्वय पर्यन्तमत्र विहरणेन समुद्भुतपत्रशाखाप्रशाखं विकासितम् / परिपूर्णविकासाय तत्र शिष्यान् संस्थाप्य स ततो विहारमकरोत् / अथ क्रमेण पर्यटन्नवन्तिकामागच्छदाचार्यः तत्र श्रेष्ठिगोत्रीयेणामात्येन रघुवीरेण सूरीश्वरस्य नगरप्रवेशमहोत्सवे सपादलक्षं व्ययितमासीत् / तत्रैव श्रीसंघश्चतुर्मासार्थ प्रार्थयत / भद्रगोत्रीयेण मालाशाहेन श्रीभगवतीसूत्रवाचना कारिता / प्रतिप्रश्नं सुवर्णमुद्रिकया, समाप्तौ च हीरकनीलपद्म रागादिभो रत्नैश्च पूजा विहिता / बप्पनागगोत्रीयो मेघाशाहः स्वनिर्मितजिनालये श्रीपार्श्वनाथप्रतिमायाः प्रतिष्ठापनं मूरिहस्तेन कारयामास / तस्मिन्नवसर एकविंशतिपरिमितैर्भावुकैर्दीक्ष गृहीता। ___एवमवन्तिप्रान्ते विहरन्तं तमाचार्य मथुरानगरीसंघाधिपतिरागत्य प्रणम्यावादीद्-भगवन् बौद्धाचार्यो बुद्धकीर्तिमन्त्रबलेनास्मान् पीडयति / बहव उपद्रवास्तेन कृताश्चरमा सीमा वर्तते एवं निशम्यासौ मथुरापुरीं सशिष्यः प्रतस्थे / सभायां शिष्येण धर्ममूर्तिना प्रतिज्ञा कृता-यःकोजी धर्मवाद-विद्यावाद-मन्त्रवादेषु शास्त्रार्थ कुर्यात्तदर्थमहं दृढपरिकरोऽस्मीति / श्रावकाश्च पुनरुज्जीवित इवानन्दमग्ना बभूवुः / ततो रात्रौ बद्धकीर्तिः सूरेनिवासस्थलेऽभिमन्त्रितां शक्तिं प्रेषयामास ध्यानादिक्रियासक्तास्ते शिष्या नाजानन् / किन्तु सर्वविद्यापारगो धर्ममूर्तिबुद्धकीर्तिप्रेषिता शक्ति रियमिति ज्ञात्वा स्वविद्याबलेन तस्या अवष्टम्भनमकार्षीत् / तदवष्टम्मेन सहैव स बुद्धकीर्तिरप्य वष्टब्धः / प्रातर्जनास्तं तदवस्थं ददृशुः / असौ तु दिवाभीत उलक इव मुखमपि दर्शयितुं : शशाक / अन्ते च सूरेः सकाशं क्षमामयाचत / बन्धनाच मोचितः / एवं तत्र तं पराजित्य पंजाब सिन्धकच्छसौराष्ट्रादिषु विहरणक्रमेण सूरीश्वरः कोरण्टकपुरमगमत् / तत्रावस्थितेन कोरण्टकगच्छी येन कनकप्रभसू रणा श्रीसंघेन चास्य नगरप्रवेशो विहितः / श्रीसंघस्यादरातिशयात्तत्रैव चतुर्मा विहितः / सूरेरुपदेशश्रवणायागतः प्राग्वटवंशीयश्चन्द्रावतीनगरीमन्त्री कर्णः सविनयमवद आचार्य ! चन्द्रावतीमलंकर्तुमर्हति भवान्, भगवतीं दीक्षा ग्रहीतुमिच्छामि / सूरिरपि तदङ्गीचकार चतुर्माससमाप्तौ तत्र विहारमकरोत् / शुभागमनसंफुल्लवदनकमलो मन्त्री भव्यसमारोहेण नग प्रवेशमकारयत् / जिनमन्दिरेष्वष्टाह्निकामहोत्सवश्च विहितः / तत्र सपादलक्षमुद्रिका विनियुक्ताः

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150