Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [23 ] श्रीकक्कसूरिविहरन् तत्राजगाम / तदा तन्नगरस्थिता जनास्तमाहुः भगवन् ! भेरामुनेस्तनयोऽयं कालप्रभावाद् दारिद्रयमनुभवति / जनैरुक्तं वचः श्रुत्वा मूरिर्धनदेवमकथयत् “भो वत्स ! कर्मणःप्रभावं ज्ञात्वा धर्मध्यानमेव समाश्रय, अशाश्वतानां पदार्थानां मध्ये धर्म एव शाश्वतः" इति सहर्ष सूरिवचनं श्रुत्वा धैर्यमास्थाय धर्माचरणे कृतप्रवृतिरभवत् / क्रमेण व्यतीते पापक्षये पुनर्वैश्रवणोपमो बभूव / ततचतुर्णां पुत्राणां विवाहादिकृत्यं सम्पाद्य व्यवहारभारं तेभ्यःसमय शुभावसरोऽयमिति कृत्वा चतुर्दशभिर्भावुकैःसह दीक्षामग्रहीत्सूरिसमीपे / पुत्रो धनदेवोऽपि तदर्थमुद्युक्तोऽभूत् / प्राक्तनादृष्टवशादेव माता पुत्रश्च दीक्षाया विरतौ बभूवतुः। जनकेन केवलं दीक्षा गृहीता। ___ आचार्यस्य शिष्या अपि विविधशास्त्रपारावारपारगामिनः स्वधर्मप्रचारायैव सर्वत्र जनान् धर्ममार्ग प्रापयन्तोऽलौकिकचमत्कारकारिण्या विद्यया आश्चर्यान्वितचेतसश्चक्रः / पट्टावलीकारैःकेषांचित्परिचयः प्रदर्शितो यथा। देवगुप्तसूरेः शासनसमये धर्ममूर्तिनाम वाचनाचार्यों महालब्धिसंपन्नोऽभूत् / प्राप्याऽसौ सूरेराज्ञां सिन्धप्रान्ते विहरन् वीरपुरमागच्छत् / तत्रैकः सन्यासी योगविद्याबलेन पृथ्वीतलस्पर्शमन्तरा स्थितः सर्वोन् विस्मयान्वितानकार्षीत् / एवं चमत्कारेण धर्ममार्गाद् भ्रष्टानकरोत् / तस्मिन्नेव समये स वाचनाचार्य उपस्थितः / श्रावकैःसत्कृत्यासौ निवेदितो मुने ! महाप्रभावोऽयं परिव्राजको भतलमस्पृश्यैव तिष्ठति / मुनिनोक्तम् नायं चमत्कारो, योगविद्याबलमेतत् / किं नास्तीदृशी विद्याऽस्मच्छास्त्रे ? स्याद्वा, तथापि या धर्मध्वंसकाल उपयुक्ता न स्यात्तर्हि किं तया ? इत्याग्रहयुक्तं श्रावकवचः श्रुत्वाऽसौ तानकथयत्-श्वो व्याख्यानकाले यदाऽहं पीठमारुह्य व्याख्यानं कुर्या तदा भवद्भिस्तत्पीडं दूरीकर्तव्यम् / तदा ज्ञातं भविष्यतीति / अन्येयुः व्याख्याने तैश्च तथैव विहितम् / मुनिराधारं विनाऽपि स्थितः / जनाश्च विस्मयमापुः / अथेदं वृत्तमसौ परिव्राजकोऽशृणोत् ।क्षमाश्च ययाचे कथयामास च-भगवन् ! इयमपि विद्या मया जैनाचार्यादेव सम्प्राप्ता / वीतरागविषयकचर्चायां जातायां स मुनिपार्श्वे दीक्षा जग्राह / ___ 'अथापरो' ज्योतिर्विद्यानिपुणो राजसुन्दरो विहरन्नेकदा भृगुपुरमुपस्थितः / तदा तत्र विदुपामेका सभा मिलिता। आमन्त्रणं पण्डितेभ्यो दत्तम् / अस्मै राजसुन्दराय च नो दत्तम् / अनामंत्रितोऽप्यसौ तत्र ययौ / सर्वैरासनं दत्तम् / अथ विचारा आरब्धाः। भविष्यत्कालकं विविधमतविडम्बनमासीत् / राजसुन्दरं ते पप्रच्छुः / सोऽवादीत् अद्यैव रजन्यामष्टघटिकासु व्यतीतासु, परञ्चाष्टचत्वारिंशत्परिमितेषु पलेषु वृष्टिर्भविष्यत्येव / सर्वैः पण्डितैस्तत्कथनमुल्लेखितं पत्रे / नियतसमये प्रचुरधाराप्रवाहा दृष्टिः पपात / सर्वे ते तमुपहसन्तो म्लानवदना जाताः / सर्वे चाध्ययनार्थ तत्समीपे ययुः / राजसुन्दरस्य महान् प्रभावः सर्वत्र व्याप्तः। राज्ञा प्रजाभिश्च संमानितोऽभवत् / पद्मकलशनामोपाध्यायः परकायप्रवेशविद्यानिपुणो बभूव / स तया विद्यया भूपतीन् रञ्जयन् जैनधर्मोपासकान् विदधाति स्म / . नागपभ आकाशगमनविद्यापारगस्तृतीयोपवासपान्ते शत्रुञ्जयोपकेशपुरयोर्यात्रां विधाय
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4bd8f3a5faebb1bc5ac58832c972595263beed8ede404fe4baa6d44d1265f11d.jpg)
Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150