Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [ 12 ] निमित्तज्ञानेन स्वमृत्युकालं परिज्ञाय श्रीसिद्धसरिस्तस्य रत्नप्रभेति नाम विधाय स्वपट्टच प्रतिष्ठाप्य वीरनिर्वाणात् त्रिपञ्चाशदधिकद्विशत 253 तमे वर्षे स्वर्गमवजत् / वि० पू० 217 तः] ११-श्रीरत्नप्रभसूरि: द्वितिय / [वि० पू०१८२५० तत्पट्ट भव्यकुलकमलदिवाकरो विविधवाङमयविदग्धः क्षत्रियवंशालंकारभूतः श्रीरत्नप्रभसूरिः समायातः / अलौकिकमभावपुञ्जपुञ्जितवदनपुण्डरीकोऽसौ राज्ञ उत्पलदेवस्य वंशपरंपरायां सूर्यवंशीयक्षत्रियालंकारभूतस्य असलरावस्य सूनुरूपकेशपुरवास्तव्यः। माता चास्य ललनाकुलललामभूता सतीशेखरमणिजैतीदेवी / तयोरयं रत्नसिंहनामा कुलदीपकस्तनयः / शैशवे शिशुजनसमुचितां केलिमनुभवन्नसौ पित्रौः स्वान्ते समधिकमानन्द मातेने / लक्षणान्यप्यस्याधारणाभ्युदयसूचका न्यासन् / पितृसंपर्क संलग्न धर्मसंस्कारो धर्मेऽधिकां रुचिं दधौ / समतिक्रान्ते कियति काले पुरातनसंस्कारवशादमोघदर्शनस्याचार्यवर्यस्य सकललोकैकमण्डनस्य तत्रभवतः श्रीसिद्धसरेदृग्गोचरतामियाय / तस्यैवोपदेशामृतास्वादनपरिपूर्णान्रंगः शिक्षितमतिरसौ दीक्षितोऽभूत् शुभेऽहनि / अभिधेयश्च दीक्षानन्तरमस्य रत्नमुनिरिति ख्यातिमलभत / तदनु च जिनप्रनतत्वचित्तापरवशोऽध्यैत जिनागमानखिलानाचार्यसकाशम् / _कस्मिश्चित् समये श्रीसिद्धसरिरुपकेशपुरमात्मना भूषयामास / रावसारंगदेवेन श्रीसंघेन च समारोहपुरः सरंस्वागतं विहितम् / आत्मकल्याणसाधकानि व्याख्यानानि चाभवन् / रजितानि समाप मानसानि भावुकानाम् / कलयनसारत्वं संसारस्य रोवंसारंगदेव आत्मनः श्वःश्रेयसे समर्प सर्वस्वं पुत्राय धनदेवाय निवृत्तिमागोभिरुचिर्वभूव / अन्येऽपि स्वधर्मतत्वं वोधिता जन्मनः कृतार्थताममत्यन्त / आचार्यवर्योऽपि रत्नमुनेरसाधारणं पाण्डित्यं योग्यताञ्चसमीक्ष्य शुभेऽहनि मुहूर्ते च तत्रैव स्वपढे श्रोसंघसमक्षं तंस्थापयामास / श्रीरनप्रभसूरिति नाम्ना च समाजयामास / सम्प्राप्य चासौ सूरीश्वरःस्वधर्म प्रचार एव परमः पावनो मदीयोऽनुष्ठेयत्वेन प्राधान्यं प्राप्तः पन्था इति निपुणतरं स्वस्वान्ते निरूपयन् तदर्थमितस्ततः परिभ्रमणच्छलेन भावुकानुरोधयामास / ____एकदाऽवन्तिकायामाचार्यःसुहस्ती सभामेकामकारयत् / तत्र सुरिमप्याह्वयत् / स च धर्मोन्नतये ययौ / क्रमेण विहरन्नवंती प्राप / ततः सम्प्रतिनामकेन राज्ञा महासमारोहपूर्वकं कोटिप्रमाणकं द्रव्यं व्ययीकृतम् / स्वधर्मप्रचारको तौ द्वौ मुनीश्वरौ मिलितौ / ततः सत्ववत्सलः सुहस्ती सम्प्रतिमुवाच-राजन् ! अस्य मुनेः पूर्वजैर्जिनधर्मस्य महती सेवा विहिता, ओसमहाजनसंघश्च प्रतिष्ठाप्य सुदृढो जैनसंस्कारः कृतः। अयमपि सूरिः कर्मठः जिनधर्मप्रचारकश्चेति स्तुतिवचनं समाकर्ण्य-भगवान्नाहं प्रशंसनीयः, पूर्वेषामाचार्याणामपेक्षया नाहं किंचिदपि कर्तुं शक्नोमि, भाग्यवान् तु संप्रतिरेव येनाचार्यसुहस्तिसेवा सर्वसिद्धिप्रदा लब्धा / एवं ते सर्वे परस्परं प्रशंसन्ति दर्शयन्ति च मिथः सद्भावम् / श्रमणोचितान् धर्मनियमांश्च विरचयन्ति / अहो कियान् प्रमोदः? ततो विहरन् मुनीश्वरो रत्नप्रभसूरिः लवपुरीं [ लोहाकोटं ] ययौ। तंत्र व्याख्यानकाले सम्मेतशिखरयात्रायाः पुण्यप्रदं फलं विशदीचकार / अतः आश्चर्यान्वितेन मन्त्रिणा पृथुसेनेना
Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150