Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 35
________________ [20] वलमेधावृद्धिकरम् / ब्रह्मचर्येणैव परिपुष्टं शरीरं सर्वार्थसाधनक्षमं दृढ़ञ्चोपजायते। तत्प्रभावेण सर्वथाऽत्मानं समुद्धरन्तोऽपरानपि समुद्धर्तुमर्हन्ति महात्मानः / न च ब्रह्मचर्याद् ऋते स्वश्रेयसकरः सर्वश्रेष्ठः पन्था अवलोक्यतेऽत्र अगति, येनात्मकल्याणं साधयितुं शक्यते / प्रतिकूला अनुकूलाथ सर्वे जन्तवो ब्रह्मचर्यनिष्ठं मनागपि धर्षयितुं नैव प्रभवन्ति कदाचिदिति / सभायामुपस्थितस्त्रिभुवन पाल इदं व्याख्यानं श्रुत्वा ब्रह्मचर्यपालनव्रतं स्वीचकार / एवंविधान्यन्यानि धर्मभावनापरिपूर्णानि व्याख्यानानि समाकये चान्त मात्रा पित्रा चानुमोदितः सूरेः सकाशाद् दीक्षामग्रहीत् / अनन्तरमस्य देवभद्रेति नाम परिवर्तितम् / अथ सशिष्यः सूरिाटसौराष्ट्रकच्छदेशेषु विहरन् क्रमेण शिवनगरं जगाम / तत्र परमप्रीतान्तःकरणेन गोंदारावेण, श्रीसंघेन च समहोत्सवमस्य नगरप्रवेशः सम्पादितः / अत्र धर्मप्रीतिसंवर्धकानि व्याख्यानानि श्रावयित्वा जातवैराग्यान-अष्टचत्वारिंशजनान् दीक्षयामास / चातुर्मासः सर्व भक्तजनमतमनुमान्य विहितः / सर्वेषामाग्रहेण, सच्चायिकापरापर्शन, गोंदारावस्य सूचनाश्च विचिन्त्य, स्वस्य वृद्धत्वमपि समालक्ष्य देवभद्रं सूरिपदे संस्थाप्य श्रीककसूरि-इति नाम कृतवान्। यक्षदेवमूरिः / चातुर्माससमाप्तौ बहवो दीक्षार्थमुत्सुका अभूवन् / पञ्चषष्ठि 65 संख्यकैजनैर्दीक्षा गृहीता / सूरेरनुज्ञया गोंदारावेण शत्रुजयं प्रति संधो महता समारोहेण निष्कासितः / तत्र च श्रद्धा भक्तिसमन्वितेन नवलक्षपरिमिता मुद्रा विनियुक्तास्तेन। तीर्थयात्रां विधाय मूरिः सशिष्यः प्रतिनिवृत्तः। अथ विहरनसौ लवपुरं [ लोहाकोट ] नगरमेत्य धमदेवाग्रहात्तनिर्मितनूतनमंदिरे श्रीपार्श्वनाथस्य प्रतिमायाः प्रतिष्ठामकरोत् / तदेव धर्मकार्य विधाय तक्षशिलामागच्छत् / तत्र च चेतश्च. मत्कारजनकेन व्याख्यानेन भक्तिप्रवणान् द्वादशपरिमितान् भिन्नभिन्नजातीयान् दीक्षितान् चकार / एवं महता समुत्साहेन सर्वत्र धर्मप्रचारं विदधदसौ सूरिरासन्नकालं योगदृष्टया ज्ञात्वाऽनशनपूर्वकं सप्तविंशतिदिनानि स्थित्वा समाधिना देहमसृजत् / __अथ नभोमध्यमारूढस्तीक्ष्णमरीचिमाली सूर्य इव ज्ञानोपदेशेन सर्वान् धर्मतत्वं संबोधयन् कक्कसूरिविहारक्रमेण शिष्यमण्डलयुतः श्रीपुरपत्तनमगच्छत् / संघेन राजपालेन च स्वागतं विहितम् / भद्वितीयप्रभावपूर्णेन धार्मिक प्रवचनमारब्धम् / सर्वं च स्वधर्मतत्वरहस्यं ज्ञात्वाऽश्चर्यनिमग्नमानसा अभूवन् / तत्र राजपालश्चतुर्विध संघमामन्त्र्य सम्मेतशिखरं प्रति यात्रां कारयामास / महापरिमाणक द्रव्यं धर्मकर्मणि व्ययीकृतं तेन / / सम्मेतशिखरयात्रायाः प्रतिनिवृत्य विहरन्नसौ कलिंगदेशे खण्डगिरेरुदयगिरेश्च दर्शनं विधाय मधुरापुरीमलंचकार / तत्रोपकेशीयैः कृतं सद्भावभरितं स्वागतं स्वीकृत्य परमहष्यत् / सर्वेषां धार्मिकाणामभिलाषां पूरयन् चातुर्मासव्रतं चकार / सूरिवदनकमलावस्थितोपदेशामृतास्वादलुब्धहृदयेन पनाशाहेन भीभगवतीसूत्रवाचना कारिता / सपादलक्षपरिमिताभिमुद्राभिः श्रीभगवतीसत्रवाचनामहो. त्सवं सहर्षमकरोत् पनाशाहः / तत्र कृतावस्थितिना मूरिणाऽधो लिखितानि धार्मिकाणि कार्याणि संपादितानि /

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150