Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 16
________________ श्रीफावपट्टाकली श्रीपार्श्वनाथाझिसरोजलग्नस्तदीयसौगन्ध्यमुदान्वितोऽहम् / अलौकिकानन्दपरम्परायै पुनः पुनस्तच्छरणं प्रपद्ये // इह तावत् त्रिभुवनोपकर्ता परमपिता परमात्मा षट्चत्वारिंशद्गुणसंयुक्तो ब्रह्मविष्णुरुद्रनारदखेचरपूजितः परमशिवंकरः सकलपापसन्तापहर्ता प्रयोविंशस्तीथंकरः पार्श्वनाथो बभूव / स चेक्ष्वाकुवंशसमद्भवो वाराणसीनगरीशस्य राज्ञोऽश्वसेनस्य वामाराज्याश्च पुत्रः पौषकृष्णदशम्यां जन्म लेमे / स भगवान् त्रिंशद् वर्षाणि यावद् गृहे स्थित्वा सप्तति 70 वर्षाणि केवलपर्यायं पूरयामास / सर्वत्र जिनधर्मप्रचारं च कृत्वा दिगन्तकीर्तिमासाद्य च सम्मेतशिखरपर्वते श्रावण शुक्ल 8 मुक्तिमाप / तत्रभगवतः श्रीपार्श्वनाथस्य चरितमावालवृद्धविदितं, नाविदितं च विशेषतो जिनधर्माचरणशीलानां श्रावकाणाम् / अतोऽत्रायुक्तमेव पिष्टपेषणम् / अत्रोदेश्यभूतं तु तत्पट्टाधिष्ठातृणामाचार्यवर्याणां संक्षिप्तमितिवृत्राम् / .. ___ भगवान् श्रीपार्श्वनाथपट्टवर्णनम् वि० पू० 720 तः] १-शुभदत्तो गणधरः [वि. पू. 666 पर्यन्तम् श्रीशुभदत्तो गणधरः सूर्य इवाज्ञाननिवारको जिनकुलकमलदिवाकरो भक्तजनहृदयपुण्डरीकविबोधको जिनशासनधुरावाहको शास्त्रविचक्षणश्चारित्रचूडामणिरुत्कृष्टक्रियापालको गणधरपदविभूषितोऽभूत् / एकदा तच्छिष्यो वरदत्तो निर्दिष्टनगराकिमपि नगरं गच्छति स्म / पथि सूर्यास्तोऽभवत् / अथागमपाठानुसारेण तत्रैव तरुशाखामासाद्य ज्ञानध्याननित्यनियमादिषु कार्येषु शिष्यैः सह संलग्नो ऽभूत् / तस्मिन्नेवावसरे स्तेनवृत्तिविशारदाः कुकर्मनिरताः परमाधार्मिकाः हरिदत्तप्रमुखाः स्तेना अज्ञातमनिधर्मा मनीसमीपद्रव्यमाहतुमागच्छन् / ज्ञानध्यानादिविमलक्रिया निमग्नान् मनिपुंगवान् दृष्ट्वाऽश्चर्यनिमग्नास्ते तत्रैवस्थिताः / समयज्ञेन वरदचेनापि सुयोग्यक्षेत्रं ज्ञान दृष्टयावलोक्य तेभ्यो जिनगदितागमानुकूला देशना दत्ता / भगवतः पार्श्वनाथस्य चातुर्यामप्रधानं धर्ममाकर्ण्य सर्वे स्तेनाः संसाराद् विरक्ता वरदत्तसमीपे भागवतीं दीक्षां गृहीत्वा मोक्षमार्गस्याराध काः समभवन् / वि० पू० 666 तः] २-हरिदत्तसूरिः [वि० पू० 626 प. ___ श्रीहरिदत्तपरिविविधशास्त्रविशारदो सर्वविद्याकलापारगो महामहिमशाली जितानेकवादी सञ्जातः / एकदानुक्रमेण ग्रामानुग्रामं विहरन् स्वस्त्याख्यां नगरीमगमत् / तत्रोचितस्थानशय्याधानुकूल्यं दृष्ट्वा तत्रैव धर्मकार्यनिरतोऽभूत् / तस्मिन्नेन समयेतत्र वेदमार्गानुगामी न्यायव्याकरणकाव्यशास्त्रविचक्षणो वैदिकी हिंसा हिंसा न भवतीति वादस्य समर्थकः प्रचारकश्च लोहित्याचार्यो

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150